श्रीमहाभारतम्

प्रथमोऽध्यायः
अनुक्रमणिकापर्व
महाभारतग्रन्थस्योपक्रमः ग्रन्थोक्तविषयाणां दिग्दर्शनम् ग्रन्थपाठमाहात्म्यं च
प्रार्थनाश्लोकः
@शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये॥
धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन।
शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः॥
भारताध्ययनात्पुण्यादपि पादमधीयतः।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥
सरस्वतीपदं वन्दे श्रियः पतिमुमापतिम्।
त्विषां पतिं गणपतिं बृहस्पतिमुखानृषीन्॥
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्॥
असच्च सच्चैव (च) यद्विश्वं सदसतः परम्।
परावराणां स्रष्टारं पुराणं परमव्ययम्॥
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्॥
महर्षेः सर्वलोकस्य पूजितस्य महात्मनः।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥
अभ्रश्यामः पिङ्गजटाबद्धकलापः प्रांशुर्दण्डी कृष्णमृगत्वक्परिधानः।
सर्वान्लोकान्पावयमानः कविमुख्यः पाराशर्यः पर्वसु रूपं विवृणोतु॥
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं
नानाख्यानककेसरं हरिकथासंबोधनाबोधनम्।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसनं श्रेयसे॥
नमो धर्माय महते नमः कृष्णाय वेधसे।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्॥@
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्याप्तः[व्यासं] ततो जयमुदीरयेत्॥
ॐ नमो भगवते वासुदेवाय। ॐ नमः पितामहाय। ॐ नमः प्रजापतिभ्यः। ॐ नमः कृष्णद्वैपायनाय। ॐ नमः सर्वविघ्नविनायकेभ्यः।
रो[लो]महर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको।
नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे वर्तमाने॥ 1-1-1
सुखासीनानभ्यगच्छन्महर्षीन्संशितव्रतान्।
विनयावनतो भूत्वा कदाचित्सूतनन्दनः॥ 1-1-2
तमाश्रममनुप्राप्तं नैमिशारण्यवासिनाम्।
चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः॥ 1-1-3
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः।
अपृच्छत्तपसोवृद्धिं[स तपोवृद्धिं] ऋषिभिश्चाभिनन्दितः[सद्भिश्चैवाभिपूजितः]॥ 1-1-4
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु।
निर्दिष्टमासनं भेजे विनयाद्रौ[ल्लौ]महर्षणिः॥ 1-1-5
सुखासीनं ततस्तं ते[तु] विश्रान्तमुपलक्ष्य च।
अथापृच्छदृषिस्तत्र काश्चित्प्रस्तावयन्कथाः॥ 1-1-6
कुत आगम्यते सौते क्व चायं विहृतस्त्वया।
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम॥ 1-1-7
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौ[ल्लौ]महर्षणिः।
वाक्यं वचनसम्पन्नस्तेषां च चरिताश्रयम्॥ 1-1-8
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्।
सौतिरुवाच
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः॥ 1-1-9
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च।
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः॥ 1-1-10
कथिताश्चापि विधिवद्या वैशम्पायनेन वै।
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः॥ 1-1-11
बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च।
श[स]मन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्॥ 1-1-12
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा।
पाण्डवानां कुरूणां [कुरूणां पाण्डवानां] च सर्वेषां च महीक्षिताम्॥ 1-1-13
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह।
आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः॥ 1-1-14
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः।
कृताभिषेकाः शुचयः कृतजप्याहुताग्नयः॥ 1-1-15
भवन्त आसते[ने] स्वस्था ब्रवीमि किमहं द्विजाः।
पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः॥ 1-1-16
इति वृत्तं नरेन्द्राणामृषीणां च महात्मनाम्।
ऋषय ऊचुः
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा॥ 1-1-17
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्।
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः॥ 1-1-18
सूक्ष्मार्थन्याययुक्तस्य वेद अर्थैर्भूषितस्य च।
भारताख्ये[तस्ये]तिहासस्य पुण्यां ग्रन्थार्थसंयुताम्॥ 1-1-19
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्।
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्॥ 1-1-20
यथावत्स मुनि[ऋषि]स्तुष्ट्या सत्रे द्वैपायनाज्ञया।
वेदैश्चतुर्भिः संहितां[संयुक्तां] व्यासस्याद्भुतकर्मणः॥ 1-1-21
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्।
सौतिरुवाच
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्॥ 1-1-22
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्।
असच्च सदसच्चैव यद्विश्वं सदसत्परम्॥ 1-1-23
परावराणां स्रष्टारं पुराणं परमव्ययम्।
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्॥ 1-1-24
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्।
महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः॥ 1-1-25
प्रवक्ष्यामि मतं कृत्स्नं[पुण्यं] व्यासस्यामिततेजसः[व्यासस्याद्भुतकर्मणः]।
ओं नमो भगवते तस्मै व्यासायामिततेजसे॥ 1-1-26
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्।
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम्॥ 1-1-27
न तथा फलदं लोके नारायणकथा यथा।
नास्ति नारायणसमो न भूतो न भविष्यति॥ 1-1-28
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्।
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे॥ 1-1-29
आख्यास्यन्ति तथैवान्य[न्ये] इतिहासमिमं भुवि।
एतद्धि हि[इदं तु] त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्॥ 1-1-30
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः।
अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः॥ 1-1-31
छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम्।
@तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः॥@
वेदार्थानां सारभूतमखिलार्थप्रदं ऋणाम्॥ 1-1-32
पुण्ये हिमवतः पादे मध्ये गिरिगुहालये।
विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः॥ 1-1-33
शुचिः सनियमो व्यासः शान्तात्मा तपसि स्थितः।
भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम्॥ 1-1-34
प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः।
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते॥ 1-1-35
बृहदण्डमभूदेकं प्रजानां बीजमव्ययम्।
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते॥ 1-1-36
यस्मिन्संश्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम्।
अद्भुतं चाप्यजातं[चिन्त्यं] च सर्वत्र समतां गतम्॥ 1-1-37
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम्।
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः॥ 1-1-38
ब्रह्मा सुरगुरुः स्थाणुर्मनुश्च[नुः] परमेष्ठिजः[ष्ठ्यथ]।
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त वै॥ 1-1-39
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः।
पुरुषश्चाप्रमेयात्मा यं सर्व ऋषयो विदुः॥ 1-1-40
विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि।
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा॥ 1-1-41
सप्तर्षयश्च[ततः प्रसूता] विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः।
राजर्षयश्च बहवः सभूतां भूरितेजसः[सर्वे समुदिता गुणैः]॥ 1-1-42
आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा।
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्॥ 1-1-43
यच्चान्यदपि तत्सर्वं सम्भूतं लोकसंज्ञितम्[साक्षिकम्]।
यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम्॥ 1-1-44
पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये।
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये॥ 1-1-45
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु।
एवमेतदनाद्यन्तं भूतसङ्घात[हार]कारकम्॥ 1-1-46
अनादिनिधनं लोके चक्रं सम्परिवर्तते।
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च॥ 1-1-47
त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा।
दिवःपुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः॥ 1-1-48
सविता स ऋचीकोऽर्को भानुराशावहो रविः।
सुता[पुरा] विवस्वतः सर्वे मह्यस्तेषां तथावरः॥ 1-1-49
देवभ्राट्तनयस्तस्य सुभ्राडिति ततः स्मृतः।
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः॥ 1-1-50
दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च।
दशपुत्रसहस्राणि दशज्योतेर्महात्मनः॥ 1-1-51
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः।
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः॥ 1-1-52
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च।
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः॥ 1-1-53
सम्भूता बहवो वंशा भूतसर्गाः सुविस्तराः।
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्॥ 1-1-54
वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च।
धर्मार्थकाम[र्मकामार्थ]युक्तानि शास्त्राणि विविधानि च॥ 1-1-55
लोकयात्राविधानं च सर्वं तद्दृष्टवानृषिः।
@नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः।@
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च॥ 1-1-56
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्।
@संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम्।@
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्॥ 1-1-57
इष्टं हि विदुषां लोके समासव्यासधारणम्।
मन्वादि भारतं केचिदास्तीकादि तथा परे॥ 1-1-58
तथोपरिचराद्यन्ये विप्राः सम्यगधीयते।
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः॥ 1-1-59
व्याख्याने कुशलाः केचिद्ग्रन्थस्य धारणे।
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्॥ 1-1-60
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः।
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः॥ 1-1-61
@मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः॥
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान्॥
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।
जगाम तपसे श्रीमान्पुनरेवाश्रसं प्रति॥
तेष्वात्मजेषु वृद्धेषु गतेषु च परां गतिम्।
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः॥
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।
शशास शिष्यमासीनं वैशम्पायनमन्तिके॥
स सदस्यैः समासीनं श्रावयामास भारतम्।
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः॥
विस्तरं कुरुवंशस्य गान्धार्याः सर्पशीलताम्।
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्॥
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।
दुर्वृत्तं धार्तराष्ट्राणां उक्तवान्भगवानृषिः॥
इदं शतसहस्राग्रं श्लोकानां पुण्यकर्मणः।
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्॥
चतुर्विंशतिसाहस्रं चक्रे भारत संज्ञितम्।
उपाख्यानै र्विना तावद्भारतं प्रोच्यते बुधैः॥
ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः।@
तस्याभ्यासवरिष्ठस्य कृष्णद्वैपायनः प्रभुः।
कथमध्यापयानीह स शिष्यान्नित्यचिन्तयत्॥ 1-1-62
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च।
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्॥ 1-1-63
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया।
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः॥ 1-1-64
आसनं कल्पयामास सर्वैर्देवगणैर्वृतः[सर्वैर्मुनिगणैर्वृतः]।
हिरण्यगर्भमासीनं तस्मिंस्तु परमासने॥ 1-1-65
परिवृत्यासनाभ्याशे वासवेयः स्थितोऽभवत्।
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना॥ 1-1-66
निषसादासनाभ्याशे प्रीयमाणः सुवि[शुचि]स्मितः।
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्॥ 1-1-67
कृतं मयेदं भगवन्काव्यं परमपूजितम्।
ब्रह्मन्वेदरहस्यं च यच्चाप्यभिहितं[यच्चान्यत्स्थापितं] मया॥ 1-1-68
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया।
इतिहासपुराणानामुन्मेषं निर्मितं च यत्॥ 1-1-69
भूतं भव्यं भविष्यं च त्रिविधं कालसंज्ञितम्।
जरामृत्युभयव्याधिभावाभावविनिश्चयः॥ 1-1-70
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्।
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः॥ 1-1-71
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः।
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह॥ 1-1-72
ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च।
न्यायशिक्षाचिकित्सा च ज्ञा[दा]नं पाशुपतं तथा॥ 1-1-73
इत्यनेकाश्रयं[हेतुनैव समं] जन्म दिव्यमानुषसंश्रि[ज्ञि]तम्।
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्॥ 1-1-74
नदीनां पर्वतानां च वनानां सागरस्य च।
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्॥ 1-1-75
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः।
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्॥ 1-1-76
परं न लेखकः कश्चिदेतस्य भुवि विद्यते।
ब्रह्मोवाच
तपोविशिष्टादपि वै वशिष्ठान्मु[विशिष्टान्मु]निसंचयात्॥ 1-1-77
मन्ये श्रेष्ठतरं त्वां वै रहस्यज्ञानवेदनात्।
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम्॥ 1-1-78
त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यति।
अस्य काव्यस्य कवयो न समर्था विशेषणे॥ 1-1-79
विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः।
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने॥ 1-1-80
सौतिरुवाच
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्।
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः॥ 1-1-81
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः।
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः॥ 1-1-82
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदाऽनघ।
लेखको भारतस्यास्य भव त्वं गणनायक॥ 1-1-83
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च।
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्॥ 1-1-84
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्।
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्॥ 1-1-85
ओमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः।
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्॥ 1-1-86
यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्।
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च॥ 1-1-87
अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा।
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने॥ 1-1-88
भेत्तुं न शक्यतेऽर्थस्य गूढत्वात्प्रश्रितस्य च।
सर्वज्ञोऽपि गणेशो यत्क्षणमास्ते विचारयन्॥ 1-1-89
तावच्चकार व्यासोऽपि श्लोकानन्यान्बहूनपि।
जडान्धबधिरोन्मत्ततमोभूतं जगद्भवेत्॥ 1-1-90
यदि ज्ञानहुताशेन सम्यङ्नोज्ज्वलितं भवेत्।
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः॥ 1-1-91
ज्ञानाञ्जनशलाकाभिः बुद्धिनेत्रोत्सवः कृतः।
(अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः।
ज्ञानाञ्जनशलाकाभिर्नेत्रोन्मीलनकारकम्॥)
धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः॥ 1-1-92
तथा भारतसूर्येण नृणां विनिहतं तमः।
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः॥ 1-1-93
नृबुद्धिकैरवाणां च कृतमेतत्प्रकाशनम्।
इतिहासप्रदीपेन मोहावरणघातिना॥ 1-1-94
लोकगर्भगृहं कृत्स्नं यथावत्सम्प्रकाशितम्।
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्॥ 1-1-95
सम्भवस्कन्धविस्तारः सभारण्यविटङ्कवान्।
अरणीपर्वरूपाढ्यो विराटोद्योगसारवान्॥ 1-1-96
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्।
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः॥ 1-1-97
स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः।
अश्वमेधामृतरसस्त्वाश्रमस्थानसंश्रयः॥ 1-1-98
मौसलः श्रुतिसंक्षेपः शिष्टद्विजनिषेवितः।
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति॥ 1-1-99
पर्जन्य इव भूतानामाश्र[मक्ष]यो भारतद्रुमः।
सौतिरुवाच
@एवमाभाष्यं तं ब्रह्मा जगाम स्वं निवेशनम्।
भगवान्स जगत्स्रष्टा ऋषिर्देवगणैस्सह॥@
तस्य वृक्षस्य वक्ष्यामि शाखापु[शश्वत्पु]ष्पफलोदयम्॥ 1-1-100
स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि।
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः॥ 1-1-101
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।
त्रीनग्नीनिव कौरव्यान्जनयामास वीर्यवान्॥ 1-1-102
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति॥ 1-1-103
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्।
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः॥ 1-1-104
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।
शशास शिष्यमासीनं वैशम्पायनमन्तिके॥ 1-1-105
ससदस्यैः सहासीनः श्रावयामास भारतम्।
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः॥ 1-1-106
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्॥ 1-1-107
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः॥ 1-1-108
इदं शतसहसाख्यं[स्रं तु] लोकानां पुण्यकर्मणाम्।
उपाख्यानैः सह ज्ञेयमाद्यं भारतमुत्तमम्॥ 1-1-109
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः॥ 1-1-110
ततोऽप्यर्धशतं भूयः संक्षेपं कृतवानृषिः।
अनुक्रमणिकाध्यायं वृत्तानां[न्तं] सर्वपर्वणाम्॥ 1-1-111
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ विभुः॥ 1-1-112
षष्टिं शतसहस्राणि चकारान्यां स संहिताम्।
त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम्॥ 1-1-113
पित्र्ये पञ्चदश प्रोक्तं गन्धर्वेषु चतुर्दश।
एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम्॥ 1-1-114
नारदोऽश्रावयद्देवानसितो देवलः पितॄन्।
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः॥ 1-1-115
(अस्मिंस्तु मानुषे लोके वैशम्पायन उक्तवान्।
शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः।
एकं शतसहस्रं तु मयोक्तं वै निबोधत॥
वैशम्पायनविप्रर्षिः श्रावयामास पार्थिवम्।
पारिक्षितं महाबाहुं नाम्ना तु जनमेजयम्॥)
दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः।
दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी॥ 1-1-116
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः।
माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च॥ 1-1-117
पाण्डुर्जित्वा बहून्देशान्बुद्ध्या विक्रमणेन च।
अरण्ये मृगयाशीलो न्यवसन्मुनिभिः सह॥ 1-1-118
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम्।
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः॥ 1-1-119
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति।
धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः॥ 1-1-120
जाताः पार्थास्ततस्सर्वे कुन्त्या माद्र्या च मन्त्रतः।
(ततो धर्मोपनिषदः श्रुत्वा भर्तुः प्रिया पृथा।
धर्मानिलेन्द्रान्स्तुतिभिर्जुहाव सुतवाञ्छया।
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च।)
@जाताः पार्थास्ततः कामी पाण्डुर्माद्र्या दिवं गतः।@
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः॥ 1-1-121
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च।
(तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु।
माद्र्यात्सह सङ्गम्य ऋषिशापप्रभावतः।
मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ॥)
मुनिभिश्च समानीता[ऋषिभिर्यत्तदाऽऽनीता] धार्तराष्ट्रान्प्रति स्वयम्॥ 1-1-122
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः।
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः॥ 1-1-123
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः।
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा॥ 1-1-124
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्।
आहुः केचिन्न तस्यैते तस्यैत इति चापरे॥ 1-1-125
यदा चिरमृतः पाण्डुः कथं तस्येति चापरे।
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम्॥ 1-1-126
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः।
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन्॥ 1-1-127
अन्तर्हितानां भूतानां निःस्वनस्तुमुलोऽभवत्।
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः॥ 1-1-128
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत्।
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः॥ 1-1-129
शब्द आसीन्महांस्तत्र दिवःस्पृक्कीर्तिवर्धनः।
तेऽधीत्य निखिलान्वेदाञ्छास्त्राणि विविधानि च॥ 1-1-130
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः।
युधिष्ठिरस्य शीले[शौचे]न प्रीताः प्रकृतयोऽभवन्॥ 1-1-131
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च।
गुरुशुश्रूषया कु[क्षा]न्त्या यमयोर्विनयेन च॥ 1-1-132
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च।
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्॥ 1-1-133
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्।
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्॥ 1-1-134
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्।
ससर्वान्पार्थिवान्जित्वा सर्वांश्च महतो गणान्॥ 1-1-135
आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम्।
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः॥ 1-1-136
युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः।
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च॥ 1-1-137
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम्।
दुर्योधनं समागच्छन्नर्हणानि ततस्ततः॥ 1-1-138
मणिकाञ्चनरत्नानि गोहस्त्यश्वरथानि च।
विचित्राणि च वासांसि प्रावारावरणानि च॥ 1-1-139
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च।
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदाश्रियम्॥ 1-1-140
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत।
विमानप्रतिमां तत्र मयेन सुकृतां सभाम्॥ 1-1-141
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत।
तत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात्॥ 1-1-142
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्।
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च॥ 1-1-143
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः।
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः॥ 1-1-144
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान्।
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत॥ 1-1-145
द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत।
निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम्॥ 1-1-146
विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम्।
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्॥ 1-1-147
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा।
धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत्॥ 1-1-148
शृणु संजय सर्वं मे न चासूयितुमर्हसि।
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः॥ 1-1-149
न विग्रहे मम मति न च प्रीये कुलक्षये।
न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु वा॥ 1-1-150
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः।
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत्॥ 1-1-151
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम्।
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः॥ 1-1-152
तच्चावहसनं प्राप्य सभारोहणदर्शने।
अमर्षणः स्वयं जेतुमशक्तः पाण्डवान्रणे॥ 1-1-153
निरुत्साहश्च सम्प्राप्तुं सुश्रियं क्षत्रियोऽपिसन्।
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत्॥ 1-1-154
तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु।
श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः।
ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत॥ 1-1-155
यदाश्रौषं धनुरायम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम्।
कृष्णां हृतां प्रेक्षतां सर्वराज्ञां तदा नाशंसे विजयाय संजय॥ 1-1-156
यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीमर्जुनेन।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय॥ 1-1-157
यदाश्रौषं देवराजं प्रविष्टं शरैर्दिव्यैर्वारितं चार्जुनेन।
अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय॥ 1-1-158
@यदाश्रौषं पुनरामन्त्र्य द्यूते महात्मनां प्रस्थितानां वनाय।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय॥@
यदाश्रौषं जातुषाद्वेश्मनस्तान्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्।
युक्तं चैषां विदुरं स्वार्थसिद्धौ तदा नाशंसे विजयाय संजय॥ 1-1-159
यदाश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जितामर्जुनेन।
शूरान्पञ्चालान्पाण्डवेयांश्च युक्तांस्तदा नाशंसे विजयाय संजय॥ 1-1-160
यदाश्रौषं मागधानां वरिष्ठं जरासन्धं क्षत्रमध्ये ज्वलन्तम्।
दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय॥ 1-1-161
यदाश्रौषं दिग्जये पाण्डुपुत्रैर्वशीकृतान्भूमिपालान्प्रसह्य।
महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय॥ 1-1-162
यदाश्रौषं द्रौपदीमश्रुकण्ठीं सभां नीतां दुःखितामेकवस्त्राम्।
रजस्वलां नाथवतीमनाथवत्तदा नाशंसे विजयाय संजय॥ 1-1-163
यदाश्रौषं वाससां तत्र राशिं समाक्षिपत्कितवो मन्दबुद्धिः।
दुःशासनो गतवान्नैव चान्तं तदा नाशंसे विजयाय संजय॥ 1-1-164
यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम्।
अन्वागतं भ्रातृभिरप्रमेयैस्तदा नाशंसे विजयाय संजय॥ 1-1-165
यदाश्रौषं विविधास्तत्र चेष्टा धर्मात्मनां प्रस्थितानां वनाय।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय॥ 1-1-166
यदाश्रौषं स्नातकानां सहस्रैरन्वागतं धर्मराजं वनस्थम्।
भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय॥ 1-1-167
यदाश्रौषमर्जुनं देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे।
अवाप्तवन्तं पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय॥ 1-1-168
(यदाश्रौषं वनवासे तु पार्थान्समागतान्महर्षिभिः पुगणैः।
उपास्यमानान्सगणैर्जातसख्यान्तदा नाशंसे विजयाय संजय॥)
यदाश्रौषं त्रिदिवस्थं धनञ्जयं शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्।
अधीयानं शंसितं सत्यसन्धं तदा नाशंसे विजयाय संजय॥ 1-1-169
@यदाश्रौषं तीर्थयात्रानिवृत्तं पाण्डोस्सुतं सहितं रोमशेन।
तस्मादश्रौषीदर्जुनस्यार्थलाभं तदा नाशंसे विजयाय संजय॥@
यदाश्रौषं कालकेयाः ततस्ते पौलोमानो वरदानाच्च दृप्ताः।
देवैरजेया निर्जिताश्चार्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-170
यदाश्रौषमसुराणां वधार्थे किरीटिनं यान्तममित्रकर्शनम्।
कृतार्थं चाप्यागतं शक्रलोकात् तदा नाशंसे विजयाय संजय॥ 1-1-171
(यदाश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं लोमशेन।
तस्मादश्रौषीदर्जुनस्यार्थलाभं तदा नाशंसे विजयाय संजय॥)
यदाश्रौषं वैश्रवणेन सार्धं समागतं भीममन्यांश्च पार्थान्।
तस्मिन्देशे मानुषाणामगम्ये तदा नाशंसे विजयाय संजय॥ 1-1-172
यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन।
स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय॥ 1-1-173
यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत।
प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक्तदा नाशंसे विजयाय संजय॥ 1-1-174
यदाश्रौषं न विदुर्मामकास्तान्प्रच्छन्नरूपान्वसतः पाण्डवेयान्।
विराटराष्ट्रे सह कृष्णया च तदा नाशंसे विजयाय संजय॥ 1-1-175
@यदाश्रौषं तान्यथाऽज्ञातवासेऽज्ञायमानान्मामकानां सकाशे।
दक्षान्पार्थान्चरितश्चाग्निकल्पां स्तदा नाशंसे विजयाय संजय॥@
(यदाश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम्।
द्रौपद्यर्थं भीमसेनेन संख्ये तदा नाशंसे विजयाय संजय॥)
यदाश्रौषं मामकानां वरिष्ठान्धनञ्जयेनैकरथेन भग्नान्।
विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय॥ 1-1-176
यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्तामुत्तरामर्जुनाय।
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे तदा नाशंसे विजयाय संजय॥ 1-1-177
यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात्प्रच्युतस्य।
अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय॥ 1-1-178
यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम्।
यस्येमां गां विक्रममेकमाहुस्तदा नाशंसे विजयाय संजय॥ 1-1-179
यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य।
अहं द्रष्टा ब्रह्मलोके च सम्यक्तदा नाशंसे विजयाय संजय॥ 1-1-180
यदाश्रौषं लोकहिताय कृष्णं शमार्थिनमुपयातं कुरूणाम्।
शमं दुर्वार[कुर्वाण]मकृतार्थं च यातं तदा नाशंसे विजयाय संजय॥ 1-1-181
यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य।
तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय॥ 1-1-182
यदाश्रौषं वासुदेवे प्रयाते रथस्यैकामग्रतस्तिष्ठमानाम्।
आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय॥ 1-1-183
यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शान्तनवं च तेषाम्।
भारद्वाजं चाशिषोऽनुब्रुवाणं तदा नाशंसे विजयाय संजय॥ 1-1-184
यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति।
हित्वा सेनामपचक्राम चापि तदा नाशंसे विजयाय संजय॥ 1-1-185
यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर्गाण्डीवमप्रमेयम्।
त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय॥ 1-1-186
यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमानेऽर्जुने वै।
कृष्णं लोकान्दर्शयानं शरीरे तदा नाशंसे विजयाय संजय॥ 1-1-187
यदाश्रौषं भीष्मममित्रकर्शनं निघ्नन्तमाजावयुतं रथानाम्।
नैषां कश्चिद्विद्यते[बध्यते] ख्यातरूपस्तदा नाशंसे विजयाय संजय॥ 1-1-188
यदाश्रौषं चापगेयेन संख्ये स्वयं मृत्युं विहितं धार्मिकेण।
तञ्चा[च्चा]कार्षुः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय संजय॥ 1-1-189
यदाश्रौषं भीष्ममत्यन्तशूरं विहत्य[हतं] पार्थेनाहवेष्वप्रधृष्यम्।
शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय॥ 1-1-190
यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः।
भीष्मं कृत्वा सोमक अनल्पशेषांस्तदा नाशंसे विजयाय संजय॥ 1-1-191
यदाश्रौषं शान्तनवे शयाने पानीयार्थे चोदितेनार्जुनेन।
भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय॥ 1-1-192
यदा वायुश्शक्र[श्चन्द्र]सूर्यौ च युक्तौ कौन्तेयानामनुलोमा जयाय।
नित्यं चास्माञ्श्वापदा भीषयन्ति तदा नाशंसे बिजयाय संजय॥ 1-1-193
यदा द्रोणो विविधानस्त्रमार्गान्निदर्शयन्समरे चित्रयोधी।
न पाण्डवाञ्श्रेष्ठतरान्निहन्ति तदा नाशंसे विजयाय संजय॥ 1-1-194
यदाश्रौषं चास्मदीयान्महारथान्व्यवस्थितानर्जुनस्यान्तकाय।
संशप्तक अन्निहतानर्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-195
यदाश्रौषं व्यूहमभेद्यमन्यैर्भारद्वाजेनात्तशस्त्रेण गुप्तम्।
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं तदा नाशंसे विजयाय संजय॥ 1-1-196
यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः।
महारथाः पार्थमशक्नुवन्तस्तदा नाशंसे विजयाय संजय॥ 1-1-197
यदाश्रौषमभिमन्युं निहत्य हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्।
क्रोधादुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-198
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन।
सत्यां तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय॥ 1-1-199
यदाश्रौषं श्रान्तहये धनञ्जये मुक्त्वाहयान्पाययित्वोपवृत्तान्।
पुनर्युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय॥ 1-1-200
यदाश्रौषं वाहनेष्वक्षमेषु रथोपस्थे तिष्ठता पाण्डवेन।
सर्वान्योधान्वारितानर्जुनेन तदा नाशंसे विजयाय संजय॥ 1-1-201
यदाश्रौषं नागबलैः सुदुःसहं द्रोणानीकं युयुधानं प्रमथ्य।
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय॥ 1-1-202
यदाश्रौषं कर्णमासाद्य मुक्तं वधाद्भीमं कुत्सयित्वा वचोभिः।
धनुष्कोट्याऽऽतुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय॥ 1-1-203
यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर्मद्रराजश्च शूरः।
अमर्षयन्सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय॥ 1-1-204
यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन।
घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय॥ 1-1-205
यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम्।
यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय॥ 1-1-206
यदाश्रौषं द्रोणमाचार्यमेकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्।
रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय॥ 1-1-207
यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीसुतं नकुलं लोकमध्ये।
समं युद्धे मण्डलश[लेभ्य]श्चरन्तं तदा नाशंसे विजयाय संजय॥ 1-1-208
यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यमस्त्रं विकुर्वन्।
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे विजयाय संजय॥ 1-1-209
यदाश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर्युधि दुःशासनस्य।
निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय॥ 1-1-210
यदाश्रौषं कर्णमत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम्।
तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय॥ 1-1-211
यदाश्रौषं द्रोणपुत्रं च शूरं दुःशासनं कृतवर्माणमुग्रम्।
युधिष्ठिरं धर्मराजं जयन्तं तदा नाशंसे विजयाय संजय॥ 1-1-212
यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत।
सदा संग्रामे स्पर्धते यस्तु कृष्णं तदा नाशंसे विजयाय संजय॥ 1-1-213
यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन।
हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय॥ 1-1-214
यदाश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः।
दुर्योधनं विरतं भग्नशक्तिं तदा नाशंसे विजयाय संजय॥ 1-1-215
यदाश्रोषं पाण्डवांस्तिष्ठमानान्गत्वा ह्रदे वासुदेवेन सार्धम्।
अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय॥ 1-1-216
यदाश्रौषं विविधांश्चित्रमार्गान्गदायुद्धे मण्डलशश्चरन्तम्।
मिथ्याहतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय॥ 1-1-217
यदाश्रौषं द्रोणपुत्रादिभिस्तैहृतान्पञ्चालान्द्रौपदेयांश्चसुप्तान्।
कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय॥ 1-1-218
यदाश्रौषं भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रं प्रयुक्तम्।
क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय॥ 1-1-219
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वास्त्रमस्त्रेण शान्तम्।
अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय॥ 1-1-220
यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः।
द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप॥ 1-1-221
शोच्या गान्धारी पुत्रपौत्रैविहीना तथा बन्धुभिः पितृभिर्भ्रातृभिश्च।
कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः॥ 1-1-222
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त।
द्व्यूना विंशतिराहताक्षौहिणीनां तस्मिन्संग्रामे भैरवे क्षत्रियाणाम्॥ 1-1-223
तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम्।
संज्ञां नोपलभे सूत मनो विह्वलतीव मे॥ 1-1-224
सौतिरुवाच
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः।
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्॥ 1-1-225
धृतराष्ट्र उवाच
संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे॥ 1-1-226
सौतिरुवाच
तं तथावादिनं दीनं विलपन्तं महीपतिम्।
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः।
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्॥ 1-1-227
संजय उवाच
श्रुतवानसि वै राजन्महोत्साहान्महाबलान्।
द्वैपायनस्य वदतो नारदस्य च धीमतः॥ 1-1-228
महत्सु राजवंशेषु गुणैः समुदितेषु च।
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः॥ 1-1-229
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः।
अस्मिँल्लोके यशः प्राप्य ततः कालवशंगतान्॥ 1-1-230
शैब्यं महारथं वीरं सृञ्जयं जयतां वरम्।
सुहोत्रं रन्तिदेवं च काक्षीवन्तम्महाद्युतिम्[मथौशिजम्]॥ 1-1-231
बाह्लीकं दमनं चैव[द्यं] शर्यातिमजितं नलम्।
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्॥ 1-1-232
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च।
रामं दाशरथिं चैव शशबिन्दुं भगीरथम्॥ 1-1-233
कृतवीर्यं महाभागं तथैव जनमेजयम्।
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्॥ 1-1-234
चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा।
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा॥ 1-1-235
पुत्रशोकाभितप्ताय पुरा श्यैब्या[श्वैत्या]य कीर्तितम्।
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः॥ 1-1-236
महारथा महात्मानः सर्वैः समुदिता गुणैः।
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः॥ 1-1-237
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः।
विजयो वीतिहोत्रोऽङ्गो भवः श्वेतो बृहद्गुरुः॥ 1-1-238
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः।
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः॥ 1-1-239
अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः।
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः॥ 1-1-240
महोत्साहो विनीतात्मा सुक्रतुः नैषधो नलः।
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः॥ 1-1-241
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभ[चि]व्रतः।
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः।
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः॥ 1-1-242
अवीक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः।
महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः॥ 1-1-243
एते चान्ये च राजानः शतशोऽथ सहस्रशः।
श्रूयन्ते शतशश्चान्ये संख्याताश्चैव पद्मशः॥ 1-1-244
हित्वा सुविपुलान्भोगान्बुद्धिमन्तोमहाबलाः।
राजानो निधनं प्राप्तास्तव पुत्रा इव प्रभो॥ 1-1-245
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च।
माहात्म्यमपि चास्तिक्यंसत्यंशौचं दयार्जवम्॥ 1-1-246
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः।
सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः॥ 1-1-247
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना।
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि॥ 1-1-248
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसम्मतः।
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत॥ 1-1-249
निग्रहानुग्रहौ चापि विदितौ ते नराधिप।
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे॥ 1-1-250
भवितव्यं तथा तच्च नानुशोचितुमर्हसि।
दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति॥ 1-1-251
विधातृविहितं मार्गं न कश्चिदतिवर्तते।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे॥ 1-1-252
कालः सृजति भूतानि कालः संहरते प्रजाः।
कालः प्रजाः निर्दहति[संहरन्तं प्रजाः कालं] कालः शमयते पुनः॥ 1-1-253
कालो हि कुरुते भावान्सर्वलोके शुभाशुभान्।
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः॥ 1-1-254
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।
कालः सर्वेषु भूतेषु चरत्यविधृतः समः॥ 1-1-255
अतीतानागता भावा ये च वर्तन्ति साम्प्रतम्।
तान्कालनिर्मितान्बुद्धवा न संज्ञां हातुमर्हसि॥ 1-1-256
सौतिरुवाच
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्।
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा॥ 1-1-257
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः॥ 1-1-258
भारताध्ययनं पुण्यमपि पादमधीयतः।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः॥ 1-1-259
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः।
कीर्त्यन्ते शुभकर्माणस्तथा यक्षा महोरगाः॥ 1-1-260
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः।
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च॥ 1-1-261
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्।
यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः॥ 1-1-262
असच्च सदसच्चैव यस्माद्विश्वं प्रवर्तते।
संततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः॥ 1-1-263
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम्।
अव्यक्तादि परं यच्च स एव परिगीयते॥ 1-1-264
यत्तद्यतिवरा मुक्ता ध्यानयोगबलान्विताः।
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्॥ 1-1-265
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः।
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते॥ 1-1-266
अनुक्रमणिकाध्यायं भारतस्येममादितः।
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति॥ 1-1-267
उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्।
अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम्॥ 1-1-268
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च।
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा॥ 1-1-269
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा।
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्॥ 1-1-270
यथैतानीतिहासानां तथा भारतमुच्यते।
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः॥ 1-1-271
अक्षय्यमन्नपानं वै पितॄंस्तस्योपतिष्ठते।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्॥ 1-1-272
बिभेत्यल्पश्रुताद्वेदो मामयं प्रत[ह]रिष्यति।
कार्ष्णं वेदमिमं विद्वान्श्रावयित्वार्थमश्नुते॥ 1-1-273
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्।
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि॥ 1-1-274
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः।
यश्यैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः॥ 1-1-275
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः।
एकतश्चतुरो वेदान्भारतं चैतदेकतः॥ 1-1-276
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्।
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा॥ 1-1-277
तदा प्रभृति लोकेऽस्मिन्महाभारतमुच्यते।
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्॥ 1-1-278
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥ 1-1-279
तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको वेदविधिर्न कल्कः।
प्रसह्य वित्ताहरणं न कल्कस्तान्येव भावोपहतानि कल्कः॥ 1-1-280
इति श्रीमहाभारते आदिपर्वणि अनुक्रमणिकापर्वणि ग्रन्थारम्भे प्रथमोऽध्यायः॥ 1 ॥
द्वितीयोऽध्यायः
पर्वसङ्ग्रहपर्व
शमन्तपञ्चकक्षेत्रवर्णनम् अक्षौहिणीसेनायाः परिमाणम् महाभारतोक्तपर्वणां तेषां विषयाणां च समासतः सङ्ग्रहः महाभारतश्रवणपठनयोः फलं च
ऋषय ऊचुः
श[स]मन्तपञ्चकमिति यदुक्तं सूतनन्दन।
एतत्सर्वं यथातत्त्वं श्रोतुमिच्छामहे वयम्॥ 1-2-1
सौतिरुवाच
शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः।
श[स]मन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः॥ 1-2-2
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः।
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः॥ 1-2-3
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः।
श[स]मन्तपञ्चके पञ्च चकार रौधिरान्ह्रदान्॥ 1-2-4
स तेषु रुधिराम्भःसु ह्रदेषु क्रोधमूर्च्छितः।
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्॥ 1-2-5
अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन्।
राम राम महाभाग प्रीताः स्म तव भार्गव॥ 1-2-6
अनया पितृभक्त्या च विक्रमेण तव प्रभो।
वरं वृणीष्व भद्रं ते यमिच्छसि महाद्युते॥ 1-2-7
राम उवाच
यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि।
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया॥ 1-2-8
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः।
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः॥ 1-2-9
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन्।
तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह॥ 1-2-10
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्।
श[स]मन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्॥ 1-2-11
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते।
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः॥ 1-2-12
अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत्।
श[स]मन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः॥ 1-2-13
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते।
अष्टादश समाजग्मुः अक्षौहिण्यो युयुत्सया॥ 1-2-14
समेत्य तं द्विजास्ताश्च तत्रैव निधनं गताः।
एतन्नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः॥ 1-2-15
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः।
तदेतत्कथितं सर्वं मया ब्राह्मणसत्तमाः॥ 1-2-16
यथा देशः स विख्यातस्त्रिषु लोकेषु सुव्रताः।
ऋषयः ऊचुः
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन॥ 1-2-17
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्।
अक्षौहिण्याः परीमाणं नराश्वरथदन्तिनाम्॥ 1-2-18
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव।
सौतिरुवाच
एको रथो गजश्चैको नराः पञ्च पदातयः॥ 1-2-19
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते।
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः॥ 1-2-20
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते।
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः॥ 1-2-21
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः।
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकीनी॥ 1-2-22
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः।
अक्षौहिण्याः प्रसंख्याता रथानां द्विजसत्तमाः॥ 1-2-23
संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः।
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः॥ 1-2-24
गजानां च परीमाणमेतदेव विनिर्दिशेत्।
ज्ञेयं शतसहस्रं तु सहस्राणि नवैव तु॥ 1-2-25
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः।
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च॥ 1-2-26
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया।
एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः॥ 1-2-27
यथा[यां वः] कथितवानस्मि विस्तरेण तपोधनाः।
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः॥ 1-2-28
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डिताष्टादशैव तु।
समेतास्तत्र वै देशे तत्रैव निधनं गताः॥ 1-2-29
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा।
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्॥ 1-2-30
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्।
अहनी युयुधे द्वे तु कर्णः परबलार्दनः॥ 1-2-31
शल्यःअर्धदिवसं चैव गदायुद्धमतः परम्।
दुर्योधनस्य भीमस्य दिनार्धमभवत्तयोः॥ 1-2-32
तस्यैव दिवसस्यान्ते द्रौणिहार्दिक्यगौतमाः।
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्॥ 1-2-33
यत्तु शौनक सत्रे ते भारताख्यानमुत्तमम्।
जनमेजयस्य तत्सत्रे व्यासशिष्येण धीमता॥ 1-2-34
कथितं विस्तरार्थं च यशो वीर्यं महीक्षिताम्।
पौष्यं तत्र च पौलोममास्तीकं चादितः स्मृतम्॥ 1-2-35
विचित्रार्थपदाख्यानमनेकसमयान्वितम्।
प्रतिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः॥ 1-2-36
आत्मेव वेदितव्येषु प्रियेष्विव हि जीवितम्।
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्॥ 1-2-37
अनाश्रित्येदमाख्यानं कथा भुवि न विद्यते।
आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-38
तदेतद्भारतं नाम कविभिस्तूपजीव्यते।
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-39
इतिहासोत्तमे यस्मिन्नर्पिता बुद्धिरुत्तमा।
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्॥ 1-2-40
तस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च॥ 1-2-41
भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः।
पर्वानुक्रमणी पूर्वं द्वितीयः पर्वसंग्रहः॥ 1-2-42
पौष्यं पौलोममास्तीकमादिरंशावतारणम्।
ततः सम्भवपर्वोक्तमद्भुतं रोमहर्षणम्॥ 1-2-43
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते।
ततो बकवधः पर्व पर्व चैत्ररथं ततः॥ 1-2-44
ततः स्वयंवरो देव्याः पाञ्चाल्याः पर्व चोच्यते।
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्॥ 1-2-45
विदुरागमनं पर्व राज्यलम्भस्तथैव च।
अर्जुनस्य वने वासः सुभद्राहरणं ततः॥ 1-2-46
सुभद्राहरणादूर्ध्वं ज्ञेयं[या] हरणहारिकम्[का]।
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्॥ 1-2-47
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्।
जरासन्धवधः पर्व पर्व दिग्विजयं तथा॥ 1-2-48
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते।
ततश्चार्घाभिहरणं शिशुपालवधस्ततः॥ 1-2-49
द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम्।
तत आरण्यकं पर्व किर्मीरवध एव च॥ 1-2-50
अर्जुनस्याभिगमनं पर्व ज्ञेयमतः परम्।
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्॥ 1-2-51
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्।
नलोपाख्यानमपि च धार्मिकं करुणोदयम्॥ 1-2-52
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः।
जटासुरवधः पर्व यक्षयुद्धमतः परम्॥ 1-2-53
निवातकवचैर्युद्धं पर्व चाजगरं ततः।
मार्कण्डेयसमास्या च पर्वानन्तरमुच्यते॥ 1-2-54
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः।
घोषयात्रा ततः पर्व मृगस्वप्नोद्भवं ततः॥ 1-2-55
@मन्त्रस्य निश्चयं कृत्वा कार्यस्यापि विचिन्तनम्।@
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च।
द्रौपदीहरणं पर्व जयद्रथविमोक्षणम्॥ 1-2-56
पतिव्रताया माहात्म्यं सावित्र्याः चैवमद्भुतम्।
रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्॥ 1-2-57
कुण्डलाहरणं पर्व ततः परमिहोच्यते।
आरणेयं ततः पर्व वैराटं तदनन्तरम्॥ 1-2-58
पाण्डवानां प्रवेशश्च समयस्य च पालनम्।
कीचकानां वधः पर्व पर्व गोग्रहणं ततः॥ 1-2-59
अभिमन्योश्च वैराट्याः पर्व वैवाहिकं स्मृतम्।
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्॥ 1-2-60
ततः संजययानाख्यं पर्व ज्ञेयमतः परम्।
प्रजागरं तथा पर्व धृतराष्ट्रस्य चिन्तया॥ 1-2-61
पर्व सानत्सुजातं वै गुह्यमध्यात्मदर्शनम्।
यानसन्धिस्ततः पर्व भगवद्यानमेव च॥ 1-2-62
मातलीयमुपाख्यानं चरितं गालवस्य च।
सावित्रं वामदेव्यं च वैन्योपाख्यानमेव च॥ 1-2-63
जामदग्न्यमुपाख्यानं पर्व षोडशराजकम्।
सभाप्रवेशः कृष्णस्य विदुलापुत्रशासनम्॥ 1-2-64
उद्योगः सैन्यनिर्याणं विश्वोपाख्यानमेव च।
(ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः।)
@मन्त्रस्य निश्चयं कृत्वा कार्यं समभिचिन्तयन्।
कीर्त्यते चाप्युपाख्यानं सैनापत्येऽभिषेचनम्।
श्वेतस्य वासुदेवेन चित्रं बहुकथाश्रयम्।@
निर्याणं च ततः पर्व कुरुपाण्डवसेनयोः॥ 1-2-65
रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्।
उलूकदूतागमनं पर्वामर्षविवर्धनम्॥ 1-2-66
अम्बोपाख्यानमत्रैव पर्व ज्ञेयमतः परम्।
भीष्माभिषेचनं पर्व ततश्चाद्भुतमुच्यते॥ 1-2-67
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम्।
भूमिपर्व ततः प्रोक्तं द्वीपविस्तारकीर्तनम्॥ 1-2-68
@दिव्यं चक्षुर्ददौ यत्र संजयाय महानृषिः।@
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः।
द्रोणाभिषेचनं पर्व संशप्तकवधस्ततः॥ 1-2-69
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते।
जयद्रथवधः पर्व घटोत्कचवधस्ततः॥ 1-2-70
ततो द्रोणवधः पर्व विज्ञेयं रो[लो]महर्षणम्।
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते॥ 1-2-71
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्।
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्॥ 1-2-72
सारस्वतं ततः पर्व तीर्थवंशानुकीर्तनम्।
अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते॥ 1-2-73
ऐषीकं पर्व चोद्दिष्टमत ऊर्ध्वं सुदारुणम्।
जलप्रदानिकं पर्व स्त्रीविलापस्ततः परम्॥ 1-2-74
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदै[दे]हिकम्।
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः॥ 1-2-75
आभिषेचनिकं पर्व धर्मराजस्य धीमतः।
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्॥ 1-2-76
शान्तिपर्व ततो यत्र राजधर्मानुशासनम्।
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्॥ 1-2-77
शुकप्रश्नाभिगमनं ब्रह्मप्रश्नानुशासनम्।
प्रादुर्भावश्च दुर्वासः संवादश्चैव मायया॥ 1-2-78
ततः पर्व परिज्ञेयमानुशासनिकं परम्।
स्वर्गारोहणिकं चैव ततो भीष्मस्य धीमतः॥ 1-2-79
ततोऽऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्।
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्॥ 1-2-80
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च।
नारदागमनं पर्व ततः परमिहोच्यते॥ 1-2-81
मौसलं पर्व चोद्दिष्टं ततो घोरं सुदारुणम्।
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः॥ 1-2-82
हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्।
विष्णुपर्व शिशोश्चर्या विष्णोः कंसवधस्तथा॥ 1-2-83
भविष्यपर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्।
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना॥ 1-2-84
यथावत्सूतपुत्रेण रौ[लौ]महर्षणिना ततः।
उक्तानि नैमिषारण्ये पर्वाण्यष्टादशैव तु॥ 1-2-85
समासो भारतस्यायमत्रोक्तः पर्वसंग्रहः।
पौष्यं पौलोममास्तीकमादिरंशावतारणम्॥ 1-2-86
सम्भवो जतुवेश्माख्यं हिडिम्बबकयोः वधः।
तथा चैत्ररथं देव्याः पाञ्चाल्याश्च स्वयंवरः॥ 1-2-87
क्षात्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्।
विदुरागमनं चैव राज्यलम्भस्तथैव च॥ 1-2-88
वनवासोऽर्जुनस्यापि सुभद्राहरणं ततः।
हरणाहरणं चैव दहनं खाण्डवस्य च॥ 1-2-89
मयस्य दर्शनं चैव आदिपर्वणि कथ्यते।
पौष्ये पर्वणि महात्म्यमुद[त्त]ङ्कस्योपवर्णितम्॥ 1-2-90
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः।
@श्लोकाग्रं च सहस्रं च पञ्चाशच्छतमेव च।
अध्यायानां तथाष्टौ वा आदितोऽस्मिन्प्रकीर्तिताः।@
आस्तीके सर्वनागानां गरुडस्य च सम्भवः॥ 1-2-91
क्षीरोदमथनं चैव जन्मोच्चैःश्रवसस्तथा।
यजतः सर्पसत्रेण राज्ञः पारीक्षितस्य च॥ 1-2-92
कथेयमभिनिर्वृत्ता भरतानां महात्मनाम्।
@श्लोकाग्रं च सहस्रं च त्रिशतं चोत्तरं तथा।
श्लोकाश्च चतुराशीतिः पर्वण्यस्मिंस्तथैव च।
अध्यायानां ततः प्रोक्तं चत्वारिंशन्महर्षिणा।@
विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि॥ 1-2-93
अन्येषां चैव शूराणामृषेर्द्वैपायनस्य च।
अंशावतरणं चात्र देवानां परिकीर्तितम्॥ 1-2-94
दैत्यानां दानवानां च यक्षाणां च महौजसाम्।
नागानामथ सर्पाणां गन्धर्वाणां पतत्त्रिणाम्॥ 1-2-95
अन्येषां चैव भूतानां विविधानां समुद्भवः।
महर्षेराश्रमपदे कण्वस्य च तपस्विनः॥ 1-2-96
शकुन्तलायां दुष्यन्ताद्भरतश्चापि जज्ञिवान्।
यस्य लोकेषु नाम्नेदं प्रथितं भारतं कुलम्॥ 1-2-97
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्।
शान्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि॥ 1-2-98
तेजोंऽशानां च सम्पातोभीष्मस्याप्यत्र सम्भवः।
राज्यान्निवर्तनं तस्य ब्रह्मचर्यव्रते स्थितिः॥ 1-2-99
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च।
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः॥ 1-2-100
विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम्।
धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा॥ 1-2-101
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा।
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः॥ 1-2-102
वारणावतयात्रायां मन्त्रो दुर्योधनस्य च।
कूटस्य धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति॥ 1-2-103
हितोपदेशश्च पथि धर्मराजस्य धीमतः।
विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया॥ 1-2-104
विदुरस्य च वाक्येन सुरङ्गोपक्रमक्रिया।
निषाद्याः पञ्चपुत्रायाः सुप्ताया जतुवेश्मनि॥ 1-2-105
पुरोचनस्य चात्रैव दहनं सम्प्रकीर्तितम्।
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्॥ 1-2-106
तत्रैव च हिडिम्बस्य वधो भीमान्महाबलात्।
घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता॥ 1-2-107
महर्षेर्दर्शनं चैव व्यासस्यामिततेजसः।
तदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने॥ 1-2-108
अज्ञातचर्यया वासो यत्र तेषां प्रकीर्तितः।
बकस्य निधनं चैव नागराणां च विस्मयः॥ 1-2-109
सम्भवश्चैव कृष्णाया धृष्टद्युम्नस्य चैव ह।
ब्राह्मणात्समुपश्रुत्य व्यासवाक्यप्रचोदिताः॥ 1-2-110
द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया।
पञ्चालानभितो जग्मुर्यत्र कौतूहलान्विताः॥ 1-2-111
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा।
सख्यं कृत्वा ततस्तेन तस्मादेव च शुश्रुवे॥ 1-2-112
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्।
भ्रातृभिः सहितः सर्वैः पञ्चालानभितो ययौ॥ 1-2-113
पाञ्चालनगरे चापि लक्ष्यं भित्त्वा धनंजयः।
द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षिताम्॥ 1-2-114
भीमसेनार्जुनौ यत्र संरब्धान्पृथिवीपतीन्।
शल्यकर्णौ च तरसा जितवन्तौ महामृधे॥ 1-2-115
दृष्ट्वा तयोश्च तद्वीर्यमप्रमेयममानुषम्।
शङ्कमानौ पाण्डवांस्तान्रामकृष्णौ महामती॥ 1-2-116
जग्मतुस्तैः समागन्तुं शालां भार्गववेश्मनि।
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च॥ 1-2-117
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते।
द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः॥ 1-2-118
क्षत्तुश्च धृतराष्ट्रेण प्रेषणं पाण्डवान्प्रति।
विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च॥ 1-2-119
खाण्डवप्रस्थवासश्च तथा राज्यार्धशास[सर्ज]नम्।
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया॥ 1-2-120
सुन्दोपसुन्दयोः तद्वदाख्यानं परिकीर्तितम्।
अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरम्॥ 1-2-121
अनुप्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुधम्।
मोक्षियित्वा गृहं गत्वा विप्रार्थं कृतनिश्चयः॥ 1-2-122
समयं पालयन्वीरो वनं यत्र जगाम ह।
पार्थस्य वनवासे च उलूप्या पथि संगमः॥ 1-2-123
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च।
तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः॥ 1-2-124
शापाद्ग्राहत्वमापन्ना ब्राह्मणस्य तपस्विनः।
प्रभासतीर्थे पार्थेन कृष्णस्य च समागमः॥ 1-2-125
द्वारकायां सुभद्रा च कामयानेन कामिनी।
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना॥ 1-2-126
गृहीत्वा हरणं प्राप्ते कृष्णे देवकिनन्दने।
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः॥ 1-2-127
द्रौपद्यास्तनयानां च सम्भवोऽनुप्रकीर्तितः।
विहारार्थं च गतयोः कृष्णयोर्यमुनामनु॥ 1-2-128
सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्।
भयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम्॥ 1-2-129
महर्षेर्मन्दपालस्य शार्ङ्ग्यां तनयसम्भवः।
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्॥ 1-2-130
अध्यायानां शते द्वे तु संख्याते परमर्षिणा।
सप्तविंशतिरध्याया व्यासेनोत्तमतेजसा॥ 1-2-131
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च।
श्लोकाश्च चतुराशीतिर्मुनिनोक्ता महात्मना॥ 1-2-132
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते।
सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम्॥ 1-2-133
लोकपालसभाख्यानं नारदाद्देवदर्शिनः।
राजसूयस्य चारम्भो जरासन्धवधस्तथा॥ 1-2-134
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्।
तथा दिग्विजयोऽत्रैव पाण्डवानां प्रकीर्तितः॥ 1-2-135
राज्ञामागमनं चैव सार्हणानां महाक्रतौ।
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा॥ 1-2-136
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च।
दुर्योधनस्यावहासो भीमेन च सभातले॥ 1-2-137
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्।
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्॥ 1-2-138
यत्र द्यूतार्णवे मग्नां द्रौपदीं नौरिवार्णवात्।
धृतराष्ट्रो महाप्राज्ञः स्नुषां परमदुःखिताम्॥ 1-2-139
तारयामास तांस्तीर्णान्ज्ञात्वा दुर्योधनो नृपः।
पुनरेव ततो द्यूते समाह्वयत पाण्डवान्॥ 1-2-140
जित्वा स वनवासाय प्रेषयामास तांस्ततः।
एतत्सर्वं सभापर्व समाख्यातं महात्मना॥ 1-2-141
अध्यायाः सप्ततिर्ज्ञेयास्तथा चाष्टौ प्रसंख्यया।
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च॥ 1-2-142
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्द्विजोत्तमाः।
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्॥ 1-2-143
वनवासं प्रयातेषु पाण्डवेषु महात्मसु।
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः॥ 1-2-144
अत्रौ[न्नौ]षधीनां च कृते पाण्डवेन महात्मना।
द्विजानां भरणार्थं च कृतमाराधनं रवेः॥ 1-2-145
धौम्योपदेशात्तिग्मांशुप्रसादादन्नसम्भवः।
@मैत्रेयशापोत्सर्गश्च विदुरस्य प्रवासनम्।@
हितं च ब्रुवतः क्षत्तुः परित्यागोऽम्बिकासुतात्॥ 1-2-146
त्यक्तस्य पाण्डुपुत्राणां समीपगमनं तथा।
पुनरागमनं चैव धृतराष्ट्रस्य शासनात्॥ 1-2-147
कर्णप्रोत्साहनाच्चैव धार्तराष्ट्रस्य दुर्मतेः।
वनस्थान्पाण्डवान्हन्तुं मन्त्रो दुर्योधनस्य च॥ 1-2-148
तं दुष्टभावं विज्ञाय व्यासस्यागमनं द्रुतम्।
निर्याणप्रतिषेधश्च सुरभ्याख्यानमेव च॥ 1-2-149
मैत्रेयागमनं चात्र राज्ञश्चैवानुशासनम्।
शापोत्सर्गश्च तेनैव राज्ञो दुर्योधनस्य च॥ 1-2-150
किम्मी[र्मी]रस्य वधश्चात्र भीमसेनेन संयुगे।
@पाण्डवानां च सर्वेषां सहाख्यानं तथैव च।
पाञ्चालागमनं चैव द्रोपद्याश्चाश्रुमोक्षणम्।@
वृष्णीनामागमश्चात्र पञ्चालानां च सर्वशः॥ 1-2-151
श्रुत्वा शकुनिना द्यूते निकृत्या निर्जितांश्च तान्।
क्रुद्धस्यानुप्रशमनं हरेश्चैव किरीटिना॥ 1-2-152
परिदेवनं च पाञ्चाल्या वासुदेवस्य संनिधौ।
आश्वासनं च कृष्णेन दुःखार्तायाः प्रकीर्तितम्॥ 1-2-153
तथा सौभवधाख्यानमत्रैवोक्तं महर्षिणा।
सुभद्रायाः सपुत्रायाः कृष्णेन द्वारकां पुरीम्॥ 1-2-154
नयनं द्रौपदेयानां धृष्टद्युम्नेन चैव ह।
प्रवेशः पाण्डवेयानां रम्ये द्वैतवने ततः॥ 1-2-155
धर्मराजस्य चात्रैव संवादः कृष्णया सह।
संवादश्च तथा राज्ञा भीमस्यापि प्रकीर्तितः॥ 1-2-156
समीपं पाण्डुपुत्राणां व्यासस्यागमनं तथा।
प्रतिस्मृत्याथ विद्याया दानं राज्ञो महर्षिणा॥ 1-2-157
गमनं काम्यके चापि व्यासे प्रतिगते ततः।
अस्त्रहेतोविवासश्च पार्थस्यामिततेजसः॥ 1-2-158
महादेवेन युद्धं च किरातवपुषा सह।
दर्शनं लोकपालानामस्त्रप्राप्तिस्तथैव च॥ 1-2-159
महेन्द्रलोकगमनमस्त्रार्थे च किरीटिनः।
यत्र चिन्ता समुत्पन्ना धृतराष्ट्रस्य भूयसी॥ 1-2-160
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः।
युधिष्ठिरस्य चार्तस्य व्यसनं परिदेवनम्॥ 1-2-161
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्।
दमयन्त्याः स्थितिर्यत्र नलस्य चरितं तथा॥ 1-2-162
तथाक्षहृदयप्राप्तिस्तस्मादेव महर्षितः।
रो[लो]मशस्यागमस्तत्र स्वर्गात्पाण्डुसुतान्प्रति॥ 1-2-163
वनवासगतानां च पाण्डवानां महात्मनाम्।
स्वर्गे प्रवृत्तिराख्याता रो[लो]मशेनार्जुनस्य वै॥ 1-2-164
संदेशादर्जुनस्यात्र तीर्थाभिगमनक्रिया।
तीर्थानां च फलप्राप्तिः पुण्यत्वं चापि कीर्तितम्॥ 1-2-165
पुलस्त्यतीर्थयात्रा च नारदेन महर्षिणा।
तीर्थयात्रा च तत्रैव पाण्डवानां महात्मनाम्॥ 1-2-166
कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्।
तथा यज्ञविभूतिश्च गयस्यात्र प्रकीर्तिता॥ 1-2-167
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्।
लोपामुद्राभिगमनमपत्यार्थमृषेस्तथा॥ 1-2-168
@ततः श्येनकपोतीयमुपाख्यानमनन्तरम्।
इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासन्शिबिं नृपम्।
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः।@
ऋष्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः।
जामदग्न्यस्य रामस्य चरितं भूरितेजसः॥ 1-2-169
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते।
@तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम्।
कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्।
नियुक्तो भीमसेनश्च द्रोपद्या गन्धमादने।
यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत्।
यत्रास्य सुमहद्युद्धं अभवद्राक्षसैः सह।
यक्षैश्चापि महावीर्यैः मणिमत्प्रमुखैस्तथा।@
प्रभासतीर्थे पाण्डूनां वृष्णिभिश्च समागमः॥ 1-2-170
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः।
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीति[थि]नौ॥ 1-2-171
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः।
मान्धातुश्चाप्युपाख्यानं राज्ञोऽत्रैव प्रकीर्तितम्॥ 1-2-172
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः।
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः।
ततः श्येनकपोतीयमुपाख्यानमनुत्तमम्॥ 1-2-173
इन्द्राग्नी यत्र धर्मस्य जिज्ञासार्थं शिबिं नृपम्।
अष्टावक्रीयमत्रैव विवादो यत्र बन्दिना॥ 1-2-174
अष्टावक्रस्य विप्रर्षेर्जनकस्याध्वरेऽभवत्।
नैयायिकानां मुख्येन वरुणस्यात्मजेन च॥ 1-2-175
पराजितो यत्र बन्दी विवादेन महात्मना।
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः॥ 1-2-176
@अजासुरस्य चात्रैव वयः समुपवर्ण्यते।
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना।
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः।
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने।
घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः@
यवक्रीतस्य चाख्यानं रैभ्यस्य च महात्मनः।
गन्धमादनयात्रा च वासो नारायणाश्रमे॥ 1-2-177
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने।
व्रजन्पथि महाबाहुर्दृष्टवान्पवनात्मजम्॥ 1-2-178
कदलीष[ख]ण्डमध्यस्थं हनूमन्तं महाबलम्।
यत्र सौगन्धिकार्थेऽसौ नलिनीं तामधर्षयत्॥ 1-2-179
यत्रास्य युद्धमभवत्सुमहद्राक्षसैः सह।
यक्षैश्चैव महावीर्यैर्मणिमत्प्रमुखैस्तथा॥ 1-2-180
(जटासुरस्य च वधो राक्षसस्य वृकोदरात्।
वृषपर्वणश्च राजर्षेस्ततोऽभिगमनं स्मृतम्॥
आर्ष्टिषेण आश्रमे चैषां गमनं वास एव च।
प्रोत्साहनं च पाञ्चाल्या भीमस्यात्र महात्मनः॥
कैलासारोहणं प्रोक्तं यत्र यक्षैर्बलोत्कटैः।
युद्धमासीन्महाघोरं मणिमत्प्रमुखैः सह॥
समागमश्च पाण्डूनां यत्र वैश्रवणेन च।)
समागमश्चार्जुनस्य तत्रैव भ्रातृभिः सह।
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थं सव्यसाचिना॥ 1-2-181
निवातकवचैर्युद्धं हिरण्यपुर वासिभिः।
निवातकवचैर्घोरैर्दानवैः सुरशत्रुभिः॥ 1-2-182
पौलोमैः कालकेयैश्च यत्र युद्धं किरीटिनः।
वधश्चैषां समाख्यातो राज्ञस्तेनैव धीमता॥ 1-2-183
अस्त्रसंदर्शनारम्भो धर्मराजस्य संनिधौ।
पार्थस्य प्रतिषेधश्च नारदेन सुरर्षिणा॥ 1-2-184
अवरोहणं पुनश्चैव पाण्डूनां गन्धमादनात्।
भीमस्य ग्रहणं चात्र पर्वताभोगवर्ष्मणा॥ 1-2-185
भुजगेन्द्रेण बलिना तस्मिन्सुगहने वने।
अमोक्षयद्यत्र चैनं प्रश्नानुक्त्वा युधिष्ठिरः॥ 1-2-186
काम्यकागमनं चैव पुनस्तेषां महात्मनाम्।
तत्रस्थांश्च पुनर्द्रष्टुं पाण्डवान्पुरुषर्षभान्॥ 1-2-187
वासुदेवस्यागमनमत्रैव परिकीर्तितम्।
मार्कण्डेयसमास्यायामुपाख्यानानि सर्वशः॥ 1-2-188
पृथोर्वैन्यस्य यत्रोक्तमाख्यानं परमर्षिणा।
संवादश्च सरस्वत्यास्तार्क्ष्यर्षेः सुमहात्मनः॥ 1-2-189
मत्स्योपाख्यानमत्रैव प्रोच्यते तदनन्तरम्।
मार्कण्डेयसमास्या च पुराणं परिकीर्त्यते॥ 1-2-190
ऐन्द्रद्युम्नमुपाख्यानं धौन्धुमारं तथैव च।
पतिव्रतायाश्चाख्यानं तथैवाङ्गिरसं स्मृतम्॥ 1-2-191
द्रौपद्याः कीर्तितश्चात्र संवादः सत्यभामया।
पुनर्द्वैतवनं चैव पाण्डवाः समुपागताः॥ 1-2-192
घोषयात्रा च गन्धर्वैर्यत्र बद्धः सुयोधनः।
ह्रियमाणस्तुमन्दात्मा मोक्षितोऽसौ किरीटीना॥ 1-2-193
धर्मराजस्य चात्रैव मृगस्वप्ननिदर्शनम्।
काम्यके काननश्रेष्ठे पुनर्गमनमुच्यते॥ 1-2-194
व्रीहिद्रौणिकमाख्यानमत्रैव बहुविस्तरम्।
दुर्वाससोऽप्युपाख्यानमत्रैव परिकीर्तितम्॥ 1-2-195
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्।
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे॥ 1-2-196
चक्रे चैनं पञ्चशिखं यत्र भीमो महाबलः।
रामायणमुपाख्यानमत्रैव बहुविस्तरम्॥ 1-2-197
यत्र रामेण विक्रम्य निहतो रावणो युधि।
सावित्र्याश्चाप्युपाख्यानमत्रैव परिकीर्तितम्॥ 1-2-198
कर्णस्य परिमोक्षोऽत्र कुण्डलाभ्यां पुरन्दरात्।
यत्रास्य शक्तिं तुष्टोऽदादेकवीर[तुष्टोऽसावदादेक]वधाय च॥ 1-2-199
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्।
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्॥ 1-2-200
एतदारण्यकं पर्व तृतीयं परिकीर्तितम्।
अत्राध्यायशते द्वे तु संख्यया परिकीर्तिते॥ 1-2-201
एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः।
एकादशसहस्राणि श्लोकानां षट्शतानि च॥ 1-2-202
चतुःषष्टिस्तथाश्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः।
अतः परं निबोधेदं वैराटं पर्व विस्तरम्॥ 1-2-203
विराटनगरे गत्वा श्मशाने विपुलां शमीम्।
दृष्ट्वा संनिदधुस्तत्र पाण्डवा ह्यायुधान्युत॥ 1-2-204
यत्र प्रविश्य नगरं छद्मना न्यवसंस्तु ते।
पाञ्चालीं प्रार्थयानस्य कामोपहतचेतसः॥ 1-2-205
दुष्टात्मनो वधो यत्र कीचकस्य वृकोदरात्।
पाण्डवान्वेषणार्थं च राज्ञो दुर्योधनस्य च॥ 1-2-206
चाराः प्रस्थापिताश्चात्र निपुणाः सर्वतोदिशम्।
न च प्रवृत्तिस्तैर्लब्धा पाण्डवानां महात्मनाम्॥ 1-2-207
गोग्रहश्च विराटस्य त्रिगर्तैः प्रथमं कृतः।
यत्रास्य युद्धं सुमहत्तैरासीद्रो[ल्लो]महर्षणम्॥ 1-2-208
ह्रियमाणश्चि यत्रासौ भीमसेनेन मोक्षितः।
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः॥ 1-2-209
अनन्तरं च कुरुभिस्तस्य गोग्रहणं कृतम्।
समस्ता यत्र पार्थेन निर्जिताः कुरवो युधि॥ 1-2-210
प्रत्याहृतं गोधनं च विक्रमेण किरीटिना।
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः॥ 1-2-211
अभिमन्युं समुद्दिस्य सौभद्रमरिघातिनम्।
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्॥ 1-2-212
अत्रापि परिसंख्याता अध्यायाः परमर्षिणा।
सप्तषष्टिरथो पूर्णा श्लोकानामपि मे शृणु॥ 1-2-213
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु।
उक्तानि वेदविदुषा पर्वण्यस्मिन्महर्षिणा॥ 1-2-214
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्।
उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया॥ 1-2-215
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ।
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति॥ 1-2-216
इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः।
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ॥ 1-2-217
अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम्।
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः॥ 1-2-218
अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः।
मद्रराजं च राजानमायान्तं पाण्डवान्प्रति॥ 1-2-219
उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः।
वरदं तं वरं वव्रे साहाय्यं क्रियतां मम॥ 1-2-220
शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान्।
शान्तिपूर्वं चाकथयद्यत्रेन्द्रविजयं नृपः॥ 1-2-221
पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति।
वैचित्रवीर्यस्य वचः समादाय पुरोधसः॥ 1-2-222
तथेन्द्रविजयं चापि यानं चैव पुरोधसः।
संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति॥ 1-2-223
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्।
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्॥ 1-2-224
प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया।
विदुरो यत्र वाक्यानि विचित्राणि हितानि च॥ 1-2-225
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्।
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्॥ 1-2-226
मनस्तापान्वितो राजा श्रावितः शोकलालसः।
प्रभाते राजसमितौ संजयो यत्र वा विभोः॥ 1-2-227
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च।
यत्र कृष्णो दयापन्नः संधिमिच्छन्महामतिः॥ 1-2-228
स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम्।
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै॥ 1-2-229
शमार्थे याचमानस्य पक्षयोरुभयोर्हितम्।
दम्भोद्भवस्य चाख्यानमत्रैव परिकीर्तितम्॥ 1-2-230
वरान्वेषणमत्रैव मातलेश्च महात्मनः।
महर्षेश्चापि चरितं कथितं गालवस्य वै॥ 1-2-231
विदुलायाश्च पुत्रस्य प्रोक्तं चाप्यनुशासनम्।
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्॥ 1-2-232
योगेश्वरत्वं कृष्णेन यत्र राज्ञां प्रदर्शितम्।
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः।
उपायपूर्वं शौटीर्यात्प्रत्याख्यातश्च तेन सः॥ 1-2-233
आगम्य हास्तिनापुरादुपप्लव्यमरिन्दमः।
पाण्डवानां यथावृत्तं सर्वमाख्यातवान्हरिः॥ 1-2-234
ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम्।
सांग्रामिकं ततः सर्वं सज्जं चक्रुः परंतपाः॥ 1-2-235
ततो युद्धाय निर्याता नराश्वरथदन्तिनः।
नगराद्धास्तिनपुराद्बलसंख्यानमेव च॥ 1-2-236
यत्र राज्ञा ह्युलूकस्य प्रेषणं पाण्डवान्प्रति।
श्वोभाविनि महायुद्धे दौत्येन कृतवान्प्रभुः॥ 1-2-237
रथातिरथसंख्यानमम्बोबाख्यानमेव च।
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते॥ 1-2-238
उद्योगपर्व निर्दिष्टं संधिविग्रहमिश्रितम्।
अध्यायानां शतं प्रोक्तं षडशीतिर्महर्षिणा॥ 1-2-239
श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च।
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना॥ 1-2-240
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः।
अतः परं विचित्रार्थं भीष्मपर्व प्रचक्षते॥ 1-2-241
जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह।
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्॥ 1-2-242
यत्र युद्धमभूद्घोरं दशाहानि सुदारुणम्।
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः॥ 1-2-243
मोहजं नाशयामास हेतुभिर्मोक्षदर्शिभिः।
समीक्ष्याधोक्षजः क्षिप्रं युधिष्ठिरहिते रतः॥ 1-2-244
रथादाप्लुत्य वेगेन स्वयं कृष्ण उदारधीः।
प्रतोदपाणिराधावद्भीष्मं हन्तुं व्यपेतभीः॥ 1-2-245
वाक्यप्रतोदाभिहतो यत्र कृष्णेन पाण्डवः।
गाण्डीवधन्वा समरे सर्वशस्त्रभृतां वरः॥ 1-2-246
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः।
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्॥ 1-2-247
शरतल्पगतश्चैव भीष्मो यत्र बभूव ह।
षष्ठमेतत्समाख्यातं भारते पर्व विस्तृतम्॥ 1-2-248
अध्यायानां शतं प्रोक्तं तथा सप्तदशापरे।
पञ्चश्लोकसहस्राणि संख्ययाष्टौ शतानि च॥ 1-2-249
श्लोकश्च चतुराशीतिरस्मिन्पर्वणि कीर्तिताः।
व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि॥ 1-2-250
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते।
सैनापत्येऽभिषिक्तोऽथ यत्राचार्यः प्रतापवान्॥ 1-2-251
दूर्योधनस्य प्रीत्यर्थं प्रतिजज्ञे महास्त्रवित्।
ग्रहणं धर्मराजस्य पाण्डुपुत्रस्य धीमतः॥ 1-2-252
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्।
भगदत्तो महाराजो यत्र शक्रसमो युधि॥ 1-2-253
सुप्रतीकेन नागेन स हि शान्तः किरीटिना।
यत्राभिमन्युं बहवो जघ्नुरेकं महारथाः॥ 1-2-254
जयद्रथमुखा बालं शूरमप्राप्तयौवनम्।
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे॥ 1-2-255
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः।
यत्र भीमो महाबाहुः सात्यकिश्च महारथः॥ 1-2-256
अन्वेषणार्थं पार्थस्य युधिष्ठिरनृपाज्ञया।
प्रविष्टौ भारतीं सेनामप्रधृष्यां सुरैरपि॥ 1-2-257
संशप्तकावशेषं च कृतं निःशेषमाहवे।
(संशप्तकानां वीराणां कोट्यो नव महात्मनाम्॥
किरीटिनाभिनिष्क्रम्य प्रापिता यमसादनम्।
धृतराष्ट्रस्य पुत्राश्च तथा पाषाणयोधिनः॥
नारायणाश्च गोपालाः समरे चित्रयोधिनः।)
अलम्बुषः श्रुतायुश्च जलसन्धश्च वीर्यवान्॥ 1-2-258
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः।
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि॥ 1-2-259
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते।
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः॥ 1-2-260
आग्नेयं कीर्त्यते यत्र रुद्रमाहात्म्यमुत्तमम्।
व्यासस्य चाप्यागमनं माहात्म्यं कृष्णपार्थयोः॥ 1-2-261
सप्तमं भारते पर्व महदेतदुदाहृतम्।
यत्र ते पृथिवीपालाः प्रायशो निधनं गताः॥ 1-2-262
द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः।
अत्राध्यायशतं प्रोक्तं तथाध्यायाश्च सप्ततिः॥ 1-2-263
अष्टौ श्लोकसहस्राणि तथा नव शतानि च।
श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना॥ 1-2-264
पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि।
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्॥ 1-2-265
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः।
आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्॥ 1-2-266
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः।
हंसकाकीयमाख्यानं तत्रैवाक्षेपसंहितम्॥ 1-2-267
वधः पाण्ड्यस्य च तथा अश्वत्थाम्ना महात्मना।
दण्डसेनस्य च ततो दण्डस्य च वधस्तथा॥ 1-2-268
द्वैरथे यत्र कर्णेन धर्मराजो युधिष्ठिरः।
संशयं गमितो युद्धे मिषतां सर्वधन्विनाम्॥ 1-2-269
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः।
यत्रैवानुनयः प्रोक्तो माधवेनार्जुनस्य हि॥ 1-2-270
प्रतिज्ञापूर्वकं चापि वक्षो दुःशासनस्य च।
भित्त्वा वृकोदरो रक्तं पीतवान्यत्र संयुगे॥ 1-2-271
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः।
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः॥ 1-2-272
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि।
चत्वार्येव सहस्राणि नव श्लोकशतानि च॥ 1-2-273
चतुःषष्टिस्तथा श्लोकाः पर्वण्यस्मिन्प्रकीर्तिताः।
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्॥ 1-2-274
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्।
यत्र कौमारमाख्यानमभिषेकस्य कर्म च ॥ 1-2-275
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः।
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते॥ 1-2-276
शल्यस्य निधनं चात्र धर्मराजान्महात्मनः।
शकुनेश्च वधोऽत्रैव सहदेवेन संयुगे॥ 1-2-277
सैन्ये च हतभूयिष्ठे किंचिच्छिष्टे सुयोधनः।
ह्रदं प्रविश्य यत्रासौ संस्तभ्यापो व्यवस्थितः॥ 1-2-278
प्रवृत्तिस्तत्र चाख्याता यत्र भीमस्य लुब्धकैः।
क्षेपयुक्तैर्वचोभिश्च धर्मराजस्य धीमतः।
ह्रदात्समुत्थितो यत्र धार्तराष्ट्रोऽत्यमर्षणः॥ 1-2-279
भीमेन गदया युद्धं यत्रासौ कृतवान्सह।
समवाये च युद्धस्य रामस्यागमनं स्मृतम्॥ 1-2-280
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता।
गदायुद्धं च तुमुलमत्रैव परिकीर्तितम्॥ 1-2-281
दुर्योधनस्य राज्ञोऽथ यत्र भीमेन संयुगे।
ऊरू भग्नौ प्रसह्याजौ गदया भीमवेगया॥ 1-2-282
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्।
एकोनषष्टिरध्यायाः पर्वण्यत्र प्रकीर्तिताः॥ 1-2-283
संख्याता बहुवृत्तान्ताः श्लोकसंख्यात्र कथ्यते।
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा॥ 1-2-284
मुनिना सम्प्रणीतानि कौरवाणां यशोभृता।
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्॥ 1-2-285
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्।
अपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः॥ 1-2-286
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षितम्।
समेत्य ददृशुर्भूमौ पतितं रणमूर्धनि॥ 1-2-287
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः।
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्॥ 1-2-288
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम्।
यत्रैवमुक्त्वा राजानमपक्रम्य त्रयो रथाः॥ 1-2-289
सूर्यास्तमनवेलायामासेदुस्ते महद्वनम्।
न्यग्रोधस्याथ महतो यत्राधस्ताद्व्यवस्थिताः॥ 1-2-290
ततः काकान्बहून्रात्रौदृष्ट्वोलूकेनहिंसितान्।
द्रौणिः क्रोधसमाविष्टः पितुर्वधमनुस्मरन्॥ 1-2-291
पाञ्चालानां प्रसुप्तानां वधं प्रति मनो दधे।
गत्वा च शिविरद्वारि दुर्दशं तत्र राक्षसम्॥ 1-2-292
घोरूपमपश्यत्स दिवमावृत्य धिष्ठितम्।
तेन व्याघातमस्त्राणां क्रियमाणमवेक्ष्य च॥ 1-2-293
द्रौणिर्यत्र विरूपाक्षं रुद्रमाराध्य सत्वरः।
प्रसुप्तान्निशि विश्वस्तान्धृष्टद्युम्नपुरोगमान्॥ 1-2-294
पाञ्चालान्सपरीवारान्द्रौपदेयांश्च सर्वशः।
कृतवर्मणा च सहितः कृपेण च निजघ्निवान्॥ 1-2-295
यत्रामुच्यन्त ते पार्थाः पञ्च कृष्णबलाश्रयात्।
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः॥ 1-2-296
पाञ्चालानां प्रसुप्तानां यत्र द्रोणसुताद्वधः।
धृष्टद्युम्नस्य सूतेन पाण्डवेषु निवेदितः॥ 1-2-297
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता।
कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत्॥ 1-2-298
द्रौपदीवचनात्यत्र भीमो भीमपराक्रमः।
प्रियं तस्याश्चिकीर्षन्वै गदामादाय वीर्यवान्॥ 1-2-299
अन्वधावत्सुसंक्रुद्धो भारद्वाजं गुरोः सुतम्।
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः॥ 1-2-300
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत्।
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः॥ 1-2-301
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः।
द्रौणेश्च द्रोहबुद्धित्वं वीक्ष्य पापात्मनस्तदा॥ 1-2-302
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः।
मणिं तथा समादाय द्रोणपुत्रान्महारथात्॥ 1-2-303
पाण्डवाः प्रददुर्हृष्टा द्रौपद्यै जितकाशिनः।
एतद्वै दशमं पर्व सौप्तिकं समुदाहृतम्॥ 1-2-304
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना।
श्लोकानां कथितान्यत्र शतान्यष्टौ प्रसंख्यया॥ 1-2-305
श्लोकाश्च सप्ततिः प्रोक्ता मुनिना ब्रह्मवादिना।
सौप्तिकैषीके सम्बद्धे पर्वण्युत्तमतेजसा॥ 1-2-306
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्।
पुत्रशोकाभिसंतप्तः प्रज्ञाचक्षुर्नराधिपः॥ 1-2-307
कृष्णोपनीतां यत्रासावायसीं प्रतिमां दृढाम्।
भीमसेनद्रोहबुद्धिर्धृतराष्ट्रो बभञ्ज ह॥ 1-2-308
तथा शोकाभितप्तस्य धृतराष्ट्रस्य धीमतः।
संसारगहनं बुद्ध्या हेतुभिर्मोक्षदर्शनैः॥ 1-2-309
विदुरेण च यत्रास्य राज्ञ आश्वासनं कृतम्।
धृतराष्ट्रस्य चात्रैव कौरवायोधनं तथा॥ 1-2-310
सान्तःपुरस्य गमनं शोकार्तस्य प्रकीर्तितम्।
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः॥ 1-2-311
क्रोधावेशः प्रमोहश्च गान्धारीधृतराष्ट्रयोः।
यत्र तान्क्षत्रियान्शूरान्संग्रामेष्वनिवर्तिनः॥ 1-2-312
पुत्रान्भ्रातॄन्पितृंश्चैव ददृशुर्निहतान्रणे।
पुत्रपौत्रवधार्तायास्तथात्रैव प्रकीर्तिता॥ 1-2-313
गान्धार्याश्चापि कृष्णेन क्रोधोपशमनक्रिया।
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः॥ 1-2-314
राज्ञां तानि शरीराणि दाहयामास शास्त्रतः।
तोयकर्मणि चारब्धे राज्ञामुदकदानिके॥ 1-2-315
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयाऽऽत्मनः।
सुतस्यैतदिह प्रोक्तं व्यासेन परमर्षिणा॥ 1-2-316
एतदेकादशं पर्व शोकवैक्लव्यकारणम्।
प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम्॥ 1-2-317
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्प्रकीर्तिताः।
श्लोकसप्तशती चापि पञ्चसप्ततिसंयुता॥ 1-2-318
संख्यया भारताख्यानमुक्तं व्यासेन धीमता।
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्॥ 1-2-319
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः।
घातयित्वा पितॄन्भ्रातॄन्पुत्रान्सम्बन्धिमातुलान्॥ 1-2-320
शान्तिपर्वणि धर्माश्च व्याख्याताः शारतल्पिकाः।
राजभिर्वेदितव्यास्ते सम्यग्ज्ञात[न]बुभुत्सुभिः॥ 1-2-321
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शिनः।
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्॥ 1-2-322
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः।
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्॥ 1-2-323
अत्र पर्वणि विज्ञेयमध्यायानां शतत्रयम्।
त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः॥ 1-2-324
चतुर्दश सहस्राणि तथा सप्त शतानि च।
सप्त श्लोकास्तथैवात्र पञ्चविंशतिसंख्यया॥ 1-2-325
अत ऊर्ध्वं च विज्ञेयमनुशासनमुत्तमम्।
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्॥ 1-2-326
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः।
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थी यः प्रकीर्तितः॥ 1-2-327
विविधानां च दानानां फलयोगाः प्रकीर्तिताः।
तथा पात्रविशेषाश्च दानानां च परो विधिः॥ 1-2-328
आचारविधियोगश्च सत्यस्य च परा गतिः।
महाभाग्यं गवां चैव ब्राह्मणानां तथैव च॥ 1-2-329
रहस्यं चैव धर्माणां देशकालोपसंहितम्।
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्॥ 1-2-330
भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता।
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्॥ 1-2-331
अध्यायानां शतं त्वत्र षट्चत्वारिंशदेव तु।
श्लोकानां तु सहस्राणि प्रोक्तान्यष्टौ प्रसंख्यया॥ 1-2-332
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्।
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्॥ 1-2-333
सुवर्णकोषसम्प्राप्तिर्जन्म चोक्तं परीक्षितः।
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः॥ 1-2-334
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः।
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः॥ 1-2-335
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः।
संग्रामे बभ्रुवाहेण संशयं चात्र दर्शितः॥ 1-2-336
अश्वमेधे महायज्ञे नकुलाख्यानमेव च।
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्॥ 1-2-337
अध्यायानां शतं चैव त्रयोऽध्यायाश्च कीर्तिताः।
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च॥ 1-2-338
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना।
ततस्त्वाश्रमवासाख्यं पर्व पञ्चदशं स्मृतम्॥ 1-2-339
यत्र राज्यं समुत्सृज्य गान्धार्या सहितो नृपः।
धृतराष्ट्रोऽऽश्रमपदं विदुरश्च जगाम ह॥ 1-2-340
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा।
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता॥ 1-2-341
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्।
लोकान्तरगतान्वीरानपश्यत्पुनरागतान्॥ 1-2-342
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्।
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः॥ 1-2-343
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः।
संजयश्च सहामात्यो विद्वान्गावल्गणिर्वशी॥ 1-2-344
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः।
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्॥ 1-2-345
एतदाश्रमवासाख्यं पर्वोक्तं महदद्भुतम्।
द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया॥ 1-2-346
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च।
षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना॥ 1-2-347
अतः परं निबोधेदं मौसलं पर्व दारुणम्।
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा[हता] युधि॥ 1-2-348
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः।
आपाने पानकलिता दैवेनाभिप्रचोदिताः॥ 1-2-349
एरकारूपिभिर्वर्ज्रैर्निजघ्नुरितरेतरम्।
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ।
नातिचक्रामतुः कालं प्राप्तं सर्वहरं महत्॥ 1-2-350
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्।
दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः॥ 1-2-351
स संस्कृत्य नरश्रेष्ठं मातुलं शौरिमात्मनः।
ददर्श यदुवीराणामापाने वैशसं महत्॥ 1-2-352
शरीरं वासुदेवस्य रामस्य च महात्मनः।
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः॥ 1-2-353
स वृद्धबालमादाय द्वारवत्यास्ततो जनम्।
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्॥ 1-2-354
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्।
नाशं वृष्णिकलत्राणां प्रबावाणामनित्यताम्॥ 1-2-355
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः।
धर्मराजं समासाद्य संन्यासं समरोचयत्॥ 1-2-356
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्।
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्॥ 1-2-357
श्लोकानां विंशतिश्चैव संख्यातास्तत्त्वदर्शिना।
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्॥ 1-2-358
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः।
द्रौपद्या सहिता देव्या महाप्रस्थानमास्थिताः॥ 1-2-359
यत्र तेऽग्निं ददृशिरे लौहित्यं प्राप्य सागरम्।
यत्राग्निना चोदितश्च पार्थस्तस्मै महात्मने॥ 1-2-360
ददौ सम्पूज्य तद्दिव्यं गाण्डीवं धनुरुत्तमम्।
यत्र भ्रातॄन्निपतितान्द्रौपदीं च युधिष्ठिरः॥ 1-2-361
दृष्ट्वा हित्वा जगामैव सर्वाननवलोकयन्।
एतत्सप्तदशं पर्व महाप्रस्थानिकं स्मृतम्॥ 1-2-362
यत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतत्रयम्।
विंशतिश्च तता श्लोकाः संख्यातास्तत्त्वदर्शिना॥ 1-2-363
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्।
प्राप्तं दैवरथं स्वर्गान्नेष्टवान्यत्र धर्मराट्॥ 1-2-364
आरोढुं सुमहाप्राज्ञ आनृशंस्याच्छुना विना।
तामस्याविचलां ज्ञात्वा स्थितिं धर्मे महात्मनः॥ 1-2-365
श्वरूपं यत्र तत्त्यक्त्वा धर्मेणासौ समन्वितः।
स्वर्गं प्राप्तः स च तथा यातनां विपुलां भृशम्॥ 1-2-366
देवदूतेन नरकं यत्र व्याजेन दर्शितम्।
शुश्राव यत्र धर्मात्मा भ्रातॄणां करुणा गिरः॥ 1-2-367
निदेशे वर्तमानानां देशे तत्रैव वर्तताम्।
अनुदर्शितश्च धर्मेण देवराजेन पाण्डवः॥ 1-2-368
आप्लुत्याकाशगङ्गायां देहं त्यक्त्वा स मानुषम्।
स्वधर्मनिर्जितं स्थानं स्वर्गे प्राप्य स धर्मराट्॥ 1-2-269
मुमुदे पूजितः सर्वैः सेन्द्रैः सुरगणैः सह।
एतदष्टादशं पर्व प्रोक्तं व्यासेन धीमता॥ 1-2-370
अध्यायाः पञ्च संख्याताः पर्वण्यस्मिन्महात्मना।
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः॥ 1-2-371
नव श्लोकास्तथैवान्ये संख्याताः परमर्षिणा।
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः॥ 1-2-372
खिलेषु हरिवंशश्च भविष्यं च प्रकीर्तितम्।
दशश्लोकसहस्राणि विंशच्छ्लोकशतानि च॥ 1-2-373
खिलेषु हरिवंशे च संख्यातानि महर्षिणा।
एतत्सर्वं समाख्यातं भारते पर्वसंग्रहः॥ 1-2-374
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया।
तन्महादारुणं युद्धमहान्यष्टादशाभवत्॥ 1-2-375
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदो द्विजः।
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः॥ 1-2-376
अर्थशास्त्रमिदं प्रोक्तं धर्मशास्त्रमिदं महत्।
कामशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना॥ 1-2-377
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते।
पुंस्कोकिलगिरं[रुतं] श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव॥ 1-2-378
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः।
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः॥ 1-2-379
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः।
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः॥ 1-2-380
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः।
इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः॥ 1-2-381
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते।
आहारमनपाश्रित्य शरीरस्येव धारणम्॥ 1-2-382
इदं कविवरैः सर्वैराख्यानमुपजीव्यते।
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः॥ 1-2-383
अस्य काव्यस्य कवयो न समर्था विशेषणे।
साधोरिव गृहस्थस्य शेषास्त्रय इवाश्रमाः॥ 1-2-384
धर्मे मतिर्भवतु वः सततोत्थितानां स ह्येक एव परलोकगतस्य बन्धुः।
अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना नैवाप्तभावमुपयान्ति न च स्थिरत्वम्॥ 1-2-385
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं पुण्यं पवित्रमथ पापहरं शिवं च।
यो भारतं समधिगच्छति वाच्यमानं किं तस्य पुष्करजलैरभिषेचनेन॥ 1-2-386
यदह्ना कुरुते पापं ब्राह्मणस्त्विन्द्रियैश्चरन्।
महाभारतमाख्याय संध्यां मुच्यति पश्चिमाम्॥ 1-2-387
यद्रात्रौ कुरुते पापं कर्मणा मनसा गिरा।
महाभारतमाख्याय पूर्वां संध्यां प्रमुच्यते॥ 1-2-388
यो गोशतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय।
पुण्यां च भारतकथां शृणुयाच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव॥ 1-2-389
आख्यानं तदिदमनुत्तमं महार्थं विज्ञेयं महदिह पर्वसंग्रहेण।
श्रुत्वादौ भवति नृणां सुखावगाहं विस्तीर्णं लवणजलं यथा प्लवेन॥ 1-2-390
इति श्रीमहाभारते आदिपर्वणि पर्वसङ्ग्रहपर्वणि द्वितीयोऽध्यायः॥ 2 ॥
तृतीयोऽध्यायः
पौष्यपर्व
जनमेजयं प्रति सरमायाः शापः जनमेजयकर्तृकं सोमश्रवसः पौरोहित्ये वरणम् आरुण्युपमन्युवेदोद्दङ्कानां गुरुभक्तेर्वर्णनम् उदङ्केन सर्पयज्ञार्थं जनमेजयप्रोत्साहनं च
सौतिरुवाच
जनमेजयः पारीक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते॥ तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति॥ तेषु तत्सत्रमुपासीनेष्वागच्छत्सारमेयः॥ 1-3-1
स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत्॥ 1-3-2
तं माता रोरूयमाणमुवाच॥ किं रोदिषि केनास्यभिहत इति॥ 1-3-3
स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति॥ 1-3-4
तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति॥ 1-3-5
स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति॥ 1-3-6
तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते॥ 1-3-7
स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति॥ 1-3-8
न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति॥ 1-3-9
[जनमेजय] एवमुक्तो देवशुन्या सरमया भृशं सम्भ्रान्तो विषण्णश्चासीत्॥ 1-3-10
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति॥ 1-3-11
स कदाचिन्मृगयां गतः पारीक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत्॥ 1-3-12
तत्र कश्चिदृषिरासांचक्रे श्रुतश्रवा नाम॥ तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम॥ 1-3-13
तस्य तं पुत्रमभिगम्य जनमेजयः पारीक्षितः पौरोहित्याय वव्रे॥ 1-3-14
स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति॥ 1-3-15
स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्पाज्ज्या[सर्प्याजा]तो महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः॥ 1-3-16
समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम्॥ 1-3-17
अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति॥ 1-3-18
तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति॥ 1-3-19
स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच मयायं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति॥ तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः॥ स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास॥ 1-3-20
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदस्तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति॥ 1-3-21
स एकं शिष्यमारुणिं पाञ्चालं[ल्यं] प्रेषयामास गच्छ केदारखण्डं बधानेति॥ 1-3-22
स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशकत्॥ स क्लिश्यमानोऽपश्यदुपायं भवत्वेवं करिष्यामि॥ 1-3-23
त तत्र संविवेश केदारखण्डे शयाने च तथा तस्मिंस्तदुदकं तस्थौ॥ 1-3-24
ततः कदाचिदुपाध्याय अयोदो[आयोदो] धौम्यः शिष्यानपृच्छत्क्व आरुणिः पाञ्चाल्यो गत इति॥ 1-3-25
ते तं प्रत्यूचुर्भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति॥ स एवमुक्तस्ताञ्छिष्यान्प्रत्युवाच तस्मात्तत्र सर्वे गच्छामो यत्र स गत इति॥ 1-3-26
स तत्र गत्वा तस्याह्वानाय शब्दं चकार॥ भो आरुणे पाञ्चल्य क्वासि वत्सैहीति॥ 1-3-27
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे॥ 1-3-28
प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भगवन्तमुपस्थितः॥ 1-3-29
तदभिवादये भगवन्तमाज्ञापयतु भवान्कमर्थं करवाणीति॥ 1-3-30
स एवमुक्त उपाध्यायः प्रत्युवाच यस्माद्भवान्केदारखण्डं विदार्योत्थितस्तस्मातुद्दालक एव नाम्ना भवान्भविष्यतीत्युपाध्यायेनानुगृहीतः॥ 1-3-31
यस्माच्च त्वया मद्वचनमनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि॥ सर्व एव[सर्वे च ते] वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति॥ 1-3-32
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम॥ अथापरः शिष्यस्तस्यैव अयोदस्य धौम्यस्योपमन्युः नाम॥ 1-3-33
तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो गा रक्षस्वेति॥ 1-3-34
स उपाध्यायवचनादरक्षद्गाः; स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ 1-3-35
तमुवाच चैनं[तमुपाध्यायः पीवानमपश्यदुवाच चैनं] वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति॥ 1-3-36
स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति॥ 1-3-37
तमुपाध्यायः प्रत्युवाच मय्यनिवेद्य भैक्ष्यं नोपयोक्तव्यमिति॥ स तथेत्युक्त्वा भैक्ष्यं चरित्वोपाध्यायाय न्यवेदयत्॥ 1-3-38
स तस्मादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात्॥ स तथेत्युक्त्वा पुनररक्षद्गाः॥ अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतः स्थित्वा नमश्चक्रे॥ 1-3-39
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति॥ 1-3-40
स एवमुक्त उपाध्यायं प्रत्युवाच भगवते निवेद्य पूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति॥ 1-3-41
तमुपाध्यायः प्रत्युवाच नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि इत्येवं वर्तमानो लुब्धोऽसीति ॥ 1-3-42
स तथेत्युक्त्वा गा अरक्षत्॥ रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ 1-3-43
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच वत्सोपमन्यो अहं ते सर्वं भैक्ष्यं गृह्णामि न चान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति॥ 1-3-44
स एवमुक्तस्तमुपाध्यायं प्रत्युवाच भो एतासां गवां पयसा वृत्तिं कल्पयामीति॥ तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं मया नाभ्यनुज्ञातमिति॥ 1-3-45
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे॥ 1-3-46
तमुपाध्यायः पीवानमेव दृष्ट्वोवाच वत्सोपमन्यो भैक्ष्यं नाश्नासि न चान्यच्चरसि पयो न पिबसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति॥ 1-3-47
स एवमुक्त उपाध्यायं प्रत्युवाच भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनात्पिबन्त उद्गिरन्ति॥ 1-3-48
तमुपाध्यायः प्रत्युवाच--एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति॥ तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः॥ फेनमपि भवान्न पातुमर्हतीति॥ स तथेति प्रतिश्रुत्य पुनररक्षद्गाः॥ 1-3-49
तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति न चान्यच्चरति पयो न पिबति फेनं नोपयुङ्क्ते॥ स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्॥ 1-3-50
स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव॥ ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपे पपात॥ 1-3-51
अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत्--नायात्युपमन्युस्त ऊचुर्वनं गतो गा रक्षितुमिति॥ 1-3-52
तानाह उपाध्यायो मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरं ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार भो उपमन्यो क्वासि वत्सैहीति॥ 1-3-53
स उपाध्यायवचनं श्रुत्वा प्रत्युवाचोच्चैरयमस्मिन्कूपे पतितोऽहमिति तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन्कूपे पतित इति॥ 1-3-54
स उपाध्यायं प्रत्युवाच--अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्म्यतः कूपे पतित इति॥ 1-3-55
तमुपाध्यायः प्रत्युवाच--अश्विनौ स्तुहि॥ तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्ताराविति॥ स एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिरृग्भिः॥ 1-3-56
प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वाऽऽशंसामि तपसा ह्यनन्तौ।
दिव्यौ सुपर्णौ विरजौ विमानावधिक्षिपन्तौ भुवनानि विश्वा॥ 1-3-57
हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुनसौ वै जयन्तौ।
शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः॥ 1-3-58
ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतामश्विनौ सौभगाय।
तावत्सुवृत्तावनमन्त मायया वसत्तमा गा अरुणा उदावहन्॥ 1-3-59
षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति।
नानागोष्ठा विहिता एकदोहनास्तावश्विनौ दुहतो धर्ममुक्थ्यम्॥ 1-3-60
एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः।
अनेमि चक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी॥ 1-3-61
एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षमृतस्य धारणम्।
यस्मिन्देवा अधि विश्वे विषक्तास्तावश्विनौ मुञ्चतं मा विषीदतम्॥ 1-3-62
अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी।
हित्वा गिरिमश्विनौ गा मुदा चरन्तौ तद्वृष्टिमह्ना प्रस्थितौ बलस्य॥ 1-3-63
युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति।
तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति॥ 1-3-64
युवां वर्णान्विकुरुथोनिश्वरूपास्तेऽधिक्षिपन्ते भुवनानि विश्वा।
ते मानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति॥ 1-3-65
तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां बिभृथः पुष्करस्य।
तौ नासत्यावमृतावृतावृधावृते देवास्तत्प्रपदे न सूते॥ 1-3-66
मुखेन गर्भं लभेतां युवानौ गतासुरेतत्प्रपदेन सूते।
सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाः॥ 1-3-67
स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि सम्प्रमोहः।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपेयुवां शरण्यौ शरणं प्रपद्ये॥ 1-3-68
इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैनं प्रीतौ स्व एष तेऽपूपोऽशानैनमिति॥ 1-3-69
स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भगवन्तौ न त्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति॥ 1-3-70
ततस्तमश्विनावूचतुः-- आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपो दत्त उपयुक्तः स तेनानिवेद्य गुरवे त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति॥ 1-3-71
स एवमुक्तः प्रत्युवाच-एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुमिति॥ 1-3-72
तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसीति श्रेयश्चावाप्स्यसीति॥ 1-3-73
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत्॥ 1-3-74
आचचक्षे च स चास्य प्रीतिमान्बभूव॥ 1-3-75
आह चैनं यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसि॥ 1-3-76
सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति॥ एषा तस्यापि परीक्षोपमन्योः॥ 1-3-77
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम तमुपाध्यायः समादिदेश वत्स वेद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति॥ 1-3-78
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसद्गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महता कालेन गुरुः परितोषं जगाम॥ 1-3-79
तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप॥ एषा तस्यापि परीक्षा वेदस्य॥ 1-3-80
स उपाध्यायेनानुज्ञातः समावृतस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत॥ तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा चेति॥ दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष॥ 1-3-81
अथ कस्मिंश्चित्काले वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्य वरयित्वोपाध्यायं चक्रतुः॥ 1-3-82
स कदाचिद्याज्यकार्येणाभिप्रस्थित उद[त्त]ङ्कनामानं शिष्यं नियोजयामास॥ 1-3-83
भो यत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणमिति स एवं प्रतिसंदिश्योद[त्त]ङ्कं वेदः प्रवासं जगाम॥ 1-3-84
अथोद[त्त]ङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्म॥ स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः॥ 1-3-85
उपाध्यायानी ते ऋतुमती उपाध्यायश्चोषितोऽस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियतामेषा विषीदतीति॥ 1-3-86
एवमुक्तस्ताः स्त्रियः प्रत्युवाच न मया स्त्रीणां वचनादिदमकार्यं करणीयम्॥ न ह्यहमुपाध्यायेन संदिष्टोऽकार्यमपि त्वया कार्यमिति॥ 1-3-87
तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात्॥ 1-3-88
(स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत्॥)
उवाच चैनं वत्सोद[त्त]ङ्क किं ते प्रियं करवाणीति॥ धर्मतो हि शुश्रूषितोऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तदनुजाने भवन्तं सर्वानेव कामानवाप्स्यसि गम्यतामिति॥ 1-3-89
स एवमुक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवमाह॥ 1-3-90
यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति।
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति॥ 1-3-91
सोऽहमनुज्ञातो भवतेच्छामीष्टं गुर्वर्थमुपहर्तुमिति॥ तेनैवमुक्त उपाध्यायः प्रत्युवाच वत्सोद[त्त]ङ्क उष्यतां तावदिति॥ 1-3-92
स कदाचिदुपाध्यायमाहोद[त्त]ङ्क आज्ञापयतु भवान्किं ते प्रियमुपाहरामि गुर्वर्थमिति॥ 1-3-93
तमुपाध्यायः प्रत्युवाच वत्सोद[त्त]ङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायानीं पृच्छ किमुपाहरामीति॥ एषा यद्ब्रवीति तदुपाहरस्वेति॥ 1-3-94
स एवमुक्त उपाध्यायेनोपाध्यायानीमपृच्छद्भगवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुमिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुमिति॥ तदाज्ञापयतु भवती किमुपाहरामि गुर्वर्थमिति॥ 1-3-95
सैवमुक्तोपाध्यायानी तमुद[त्त]ङ्कं प्रत्युवाच गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे॥ 1-3-96
ते आनयस्व चतुर्थेऽहनि पुण्यकं भविता ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि॥ तत्सम्पादयस्व एवं हि कुर्वतः श्रेयो भवितान्यथा कुतः श्रेय इति॥ 1-3-97
स एवमुक्तस्तया प्रातिष्ठतोद[त्त]ङ्कः स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव स पुरुष उद[त्त]ङ्कमभ्यभाषत॥ 1-3-98
भो उद[त्त]ङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत्॥ 1-3-99
तमाह पुरुषो भूयो भक्षयस्वोत्तङ्का मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति॥ 1-3-100
स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृषभस्य मूत्रं पुरीषं च भक्षयित्वोद[त्त]ङ्कः सम्भ्रमादुत्थित एवाप उपस्पृश्य प्रतस्थे॥ 1-3-101
यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुद[त्त]ङ्कः॥ स उद[त्त]ङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच॥ 1-3-102
अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच भगवन्पौष्यः खल्वहं किं करवाणीति॥ 1-3-103
तमुवाच गुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मीति॥ ये वै ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति॥ 1-3-104
तं प्रत्युवाच पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति॥ स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्॥ 1-3-105
स पौष्यं पुनरुवाच न युक्तं भवताहमनृतेनोपचरितुं न हि तेऽन्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि॥ 1-3-106
स एवमुक्तः पौष्यः क्षणमात्रं विमृश्योत्तङ्कं प्रत्युवाच नियतं भवानुच्छिष्टः स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति॥ 1-3-107
(अथैवमुक्त उद[त्त]ङ्कः स्मृत्वोवाचास्ति खलु मयोत्थितेनोपस्पृष्टं गच्छता चेति॥ तं पौष्यः प्रत्युवाच-- एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवतीति शीघ्रं गच्छता चेति॥)
अथोद[त्त]ङ्कस्तं तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्य चान्तःपुरं प्रविवेश॥ 1-3-108
ततस्तां क्षत्रियामपश्यत् सा च दृष्ट्वैवोत्तङ्कं प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति॥ 1-3-109
स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति॥ सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डलेऽवमुच्यास्मै प्रायच्छदाह चैन मेते कुण्डले तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति॥ 1-3-110
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भगवति सुनिर्वृत्ता भव॥ न मां शक्तस्तक्षको नागराजो धर्षयितुमिति॥ 1-3-111
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत्॥ आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तङ्कं पौष्यः प्रत्युवाच॥ 1-3-112
भगवंश्चिरेण पात्रमासाद्यते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति॥ 1-3-113
तमुद[त्त]ङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि यथोपपन्नमन्नमुपस्कृतं भवतेति स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास॥ 1-3-114
अथोद[त्त]ङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच यस्मान्मेऽशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति॥ 1-3-115
तं पौष्यः प्रत्युवाच यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मात्त्वमनपत्यो भविष्यसीति तमुद[त्त]ङ्कः प्रत्युवाच॥ 1-3-116
न युक्तं भवतान्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु॥ ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास॥ 1-3-117
अथ तदन्नं मुक्तकेश्या स्त्रिया यत्कृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुद[त्त]ङ्कं प्रसादयामास॥ 1-3-118
भगवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं तत्क्षामये भवन्तं न भवेयमन्ध इति तमुद[त्त]ङ्कः प्रत्युवाच॥ 1-3-119
न मृषा ब्रवीमि भूत्वा त्वमन्धो न चिरादनन्धो भविष्यसीति॥ ममापि शापो भवता दत्तो न भवेदिति॥ 1-3-120
तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरद्याप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते यथा--॥ 1-3-121
नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः।
तदुभयमेतद्विपरीतं क्षत्रियस्य वाङ्नवनीतं हृदयं तीक्ष्णधारम्। इति॥ 1-3-122
तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुं गम्यतामिति॥ तमुद[त्त]ङ्कः प्रत्युवाच भवताहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः प्राक्च तेऽभिहितम्॥ 1-3-123
यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति॥ दुष्टे चान्ने नैष मम शापो भविष्यतीति॥ 1-3-124
साधयामस्तावदित्युक्त्वा प्रातिष्ठतोद[त्त]ङ्कस्ते कुण्डले गृहीत्वा सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च॥ 1-3-125
अथोद[त्त]ङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे॥ एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्॥ 1-3-126
तमुद[त्त]ङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात्॥ 1-3-127
तस्य तक्षको दृढमासन्नः स तं जग्राह गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश॥ 1-3-128
प्रविश्य च नागलोकं स्वभवनमगच्छत्॥ अथोद[त्त]ङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत्॥ 1-3-129
स तद्बिलं दण्डकाष्ठेन चखान न चाशकत्॥ तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास॥ 1-3-130
गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति॥ अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत्॥ 1-3-131
तमुद[त्त]ङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत्॥ 1-3-132
स तत्र नागांस्तानस्तुवदेभिः श्लोकैः-
य ऐरावतराजानः सर्पाः समितिशोभनाः।
क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः॥ 1-3-133
सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः।
आदित्यवन्नागलोके रेजुरैरावतोद्भवाः॥ 1-3-134
बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे।
तत्रस्थानपि संस्तौमि महतः पन्नगानहम्॥ 1-3-135
इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना।
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः॥ 1-3-136
सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रोऽयमेजति।
ये चैनमुपसर्पन्ति ये च दूरपथं गताः॥ 1-3-137
अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः।
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा॥ 1-3-138
तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम्।
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ॥ 1-3-139
कुरुक्षेत्रे च वसतां नदीमिक्षुमतीमनु।
जघन्यजस्तक्षकस्य श्रुतसेनेति यः सुतः॥ 1-3-140
अवसद्यो महद्युम्नि प्रार्थयन्नागमुख्यताम्।
करवाणि सदा चाहं नमस्तस्मै महात्मने॥ 1-3-141
एवं स्तुत्वा स विप्रर्षिरुद[त्त]ङ्को भुजगोत्तमान्।
नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत्॥ 1-3-142
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत तदापश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ॥ तस्मिंस्तन्त्रे कृष्णाः सिताञ्च तन्तवश्चक्रं चापश्यद्द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम्॥ 1-3-143
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवाद[वदेव] श्लोकैः॥ 1-3-144
त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्।
चक्रे चतुर्विंशतिपर्वयोगे षड्वै कुमाराः परिवर्तयन्ति॥ 1-3-145
तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ।
कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव॥ 1-3-146
वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता।
कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके॥ 1-3-147
यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपैति।
नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरन्दराय॥ 1-3-148
ततः स एनं पुरुषः प्राह प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण किं ते प्रियं करवाणीति स तमुवाच॥ 1-3-149
नागा मे वशमीयुरिति स चैनं पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति॥ 1-3-150
ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्रोतोभ्यः पावकार्चिष सधूमा निष्पेतुः॥ 1-3-151
ताभिर्नागलोक उपधूपितेऽथ सम्भ्रान्तस्तक्षकोऽग्नेस्तेजोभयाद्विषण्णः कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योद[त्त]ङ्कमुवाच॥ 1-3-152
इमे कुण्डले गृह्णातु भवानिति स ते प्रतिजग्राहोद[त्त]ङ्कः प्रतिगृह्य च कुण्डलेऽचिन्तयत्॥ 1-3-153
अद्य तत्पुण्यकमुपाध्यायान्या दूरं चाहमभ्यागतः स कथं सम्भावयेयमिति तत एनं चिन्तयानमेव स पुरुष उवाच॥ 1-3-154
उद[त्त]ङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति॥ 1-3-155
स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलमुपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोद[त्त]ङ्को नागच्छतीति शापायास्य मनो दधे॥ 1-3-156
अथ तस्मिन्नन्तरे स उद[त्त]ङ्कः प्रविश्य उपाध्यायगृहे उपाध्यायानीमभ्यवादयत्ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच॥ 1-3-157
उद[त्त]ङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स अनागतोऽसि यदि मूहूर्तं मया शप्तो भविष्यसि॥ श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति॥ 1-3-158
अथोद[त्त]ङ्क उपाध्यायमभ्यवादयत्॥ तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतमिति॥ 1-3-159
तमुद[त्त]ङ्क उपाध्यायं प्रत्युवाच भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनास्मि नागलोकं गतः॥ 1-3-160
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिश्च कृष्णा सिताश्च तन्तवः किं तत्॥ 1-3-161
तत्र च मया चक्रं दृष्टं द्वादशारं षट्चैनं कुमाराः परिवर्तयन्ति तदपि किम्॥ पुरुषश्चापि मया दृष्टः स चापि कः॥ 1-3-162
पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनास्मि सोपचारमुक्त उद[त्त]ङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति॥ 1-3-163
ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः॥ तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति स तेनैवमुक्त उपाध्यायः प्रत्युवाच॥ 1-3-164
ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी॥ तदपि तच्चक्रं द्वादशारं षड्वै कुमाराः परिवर्तयन्ति तेऽपि षडृतवः द्वादशारा द्वादश मासाः संवत्सरश्चक्रम्॥ 1-3-165
यः पुरुषः स पर्जन्यो योऽश्वः सोऽग्निर्य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट्॥ 1-3-166
यश्चैनमधिरूढः पुरुषः च चेन्द्रो यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम्॥ 1-3-167
स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनग्रहं कृतवान्॥ तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि॥ 1-3-168
तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति॥ स उपाध्यायेनानुज्ञातो भगवानुद[त्त]ङ्कः क्रुद्धस्तक्षकं प्रति चिकीर्षमाणो हास्तिनपुरं प्रतस्थे॥ 1-3-169
स हास्तिनपुरं प्राप्य नचिराद्विप्रसत्तमः।
समागच्छत राजानमुद[त्त]ङ्को जनमेजयम्॥ 1-3-170
पुरा तक्षशिलासंस्थं निवृत्तमपराजितम्।
सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥ 1-3-171
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः।
उवाचैनं वचः काले शब्दसम्पन्नया गिरा॥ 1-3-172
उद[त्त]ङ्क उवाच
अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम।
बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम॥ 1-3-173
सौतिरुवाच
एवमुक्तस्तु विप्रेण स राजा जनमेजयः।
अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्॥ 1-3-174
जनमेजय उवाच
आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि।
प्रब्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम्॥ 1-3-175
सौतिरुवाच
स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः।
उवाच राजानमदीनसत्त्वं स्वमेव कार्यं नृपते कुरुष्व॥ 1-3-176
उद[त्त]ङ्क उवाच
तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता।
तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने॥ 1-3-177
कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः।
तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः॥ 1-3-178
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना।
पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः॥ 1-3-179
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः।
अकार्यं कृतवान्पापो योऽदशत्पितरं तव॥ 1-3-180
राजर्षिवंशगोप्तारममरप्रतिमं नृपम्।
यियासुं काश्यपं चैव न्यवर्तयत्पापकृत्॥ 1-3-181
होतुमर्हसि तं पापं ज्वलिते हव्यवाहने।
सर्पसत्रे महाराज त्वरितं तद्विधीयताम्॥ 1-3-182
एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि।
मम प्रियं च सुमहत्कृतं राजन्भविष्यसि॥ 1-3-183
कर्मणः पृथिवीपाल मम येन दुरात्मना।
विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ॥ 1-3-184
सौतिरुवाच
एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप ह।
उद[त्त]ङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा॥ 1-3-185
अपृच्छत्स तदा राजा मन्त्रिणस्तान्सुदुःखितः।
उद[त्त]ङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति॥ 1-3-186
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत्।
यदैव वृत्तं पितरमुद[त्त]ङ्कादशृणोत्तदा॥ 1-3-187
इति श्रीमहाभारते आदिपर्वणि पौष्यपर्वणि उदङ्कोपाख्यानं नाम तृतीयोऽध्यायः॥ 3 ॥
चतुर्थोऽध्यायः
पौलोमपर्व
कथाप्रवेशः
रो[लो]महर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे॥ 1-4-1
पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच॥ किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति॥ 1-4-2
तमृषय ऊचुः परमं रौ[लौ]महर्षणे वक्ष्यामस्त्वां न प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे॥ 1-4-3
तत्र भवान्कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते॥ 1-4-4
योऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः।
मनुष्योरगगन्धर्वकथा वेद च सर्वशः॥ 1-4-5
स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः।
दक्षो धृतव्रतो धीमाञ्छास्त्रे चारण्यके गुरुः॥ 1-4-6
सत्यवादी शमपरस्तपस्वी नियतव्रतः।
सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्॥ 1-4-7
तस्मिन्नध्यासति गुरावासनं परमार्चितम्।
ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तम॥ 1-4-8
सौतिरुवाच
एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि।
तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः॥ 1-4-9
सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि।
देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह॥ 1-4-10
यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः।
यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः॥ 1-4-11
ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा।
उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्॥ 1-4-12
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि कथाप्रवेशो नाम चतुर्थोऽध्यायः॥ 4 ॥
पञ्चमोऽध्यायः
पौलोमपर्व
भृगोराश्रमे पुलोमनाम्नो दानवस्यागमनमग्निदेवेन सह तस्य संवादश्च
शौनक उवाच
पुराणमखिलं तात पिता तेऽधीतवान्पुरा।
कच्चित्त्वमपि तत्सर्वमभीषे लौमहर्षणे॥ 1-5-1
पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्।
कथ्यन्ते ये पुरास्माभिः श्रुतपूर्वाः पितुस्तव॥ 1-5-2
तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्।
कथयस्व कथामेतां कल्याः स्म श्रवणे तव॥ 1-5-3
सौतिरुवाच
यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः।
वैशम्पायनविप्राग्र्यैस्तैश्चापि कथितं यथा॥ 1-5-4
यदधीतं च पित्रा मे सम्यक्चैव ततो मया।
तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः॥ 1-5-5
पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन।
इमं वंशमहं पूर्वं भार्गवं ते महामुने॥ 1-5-6
निगदामि यथा युक्तं पुराणाश्रयसंयुतम्।
भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयम्भुवा॥ 1-5-7
वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्।
भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः॥ 1-5-8
च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः।
प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत॥ 1-5-9
रुरोरपि सुतो जज्ञे शुनको वेदपारगः।1-5-10
प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः॥ 1-5-10
तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः।
धार्मिकः सत्यवादी च नियतो नियताशनः॥ 1-5-11
शौनक उवाच
सूतपुत्र यथा तस्य भार्गवस्य महात्मनः।
च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः॥ 1-5-12
सौतिरुवाच
भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता।
तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः॥ 1-5-13
तस्मिन्गर्भेऽथ सम्भूते पुलोमायां भृगूद्वहः।
समये समशीलिन्यां धर्मपत्न्यां यशस्विनः॥ 1-5-14
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे।
आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह॥ 1-5-15
तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्।
हृच्छयेन समाविष्टो विचेताः समपद्यत॥ 1-5-16
अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना।
न्यमन्त्रयत वन्येन फलमूलादिना तदा॥ 1-5-17
तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम्।
दृष्ट्वा हृष्टमभूद्राजन्जिहीर्षुस्तामनिन्दिताम्॥ 1-5-18
जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम्।
सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता॥ 1-5-19
तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा।
तस्य तत्किल्बिषं नित्यं हृद्यवर्तति भार्गव॥ 1-5-20
इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा।
अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम्॥ 1-5-21
तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा।
शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै॥ 1-5-22
मुखं त्वमसि देवानां वद पावक पृच्छते।
मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी॥ 1-5-23
पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारिणे।
सेयं यदि वरारोहा भृगोर्भार्या रहोगता॥ 1-5-24
तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्।
स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति॥ 1-5-25
मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम्।
सौतिरुवाच
एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्॥ 1-5-26
शङ्कमानं भृगोर्भार्यां पुनः पुनरपृच्छत।
त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा॥ 1-5-27
साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः।
मत्पूर्वापहृता भार्या भृगुणानृतकारिणा॥ 1-5-28
सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि।
श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम्॥ 1-5-29
जातवेदः पश्यतस्ते वद सत्यां गिरं मम।
सौतिरुवाच
तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत्॥ 1-5-30
भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः।
अग्निरुवाच
त्वया वृता पुलोमेयं पूर्वं दानवनन्दन॥ 1-5-31
किन्त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया।
पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी॥ 1-5-32
प्रदत्ता न तु वै [ददाति न पिता] तुभ्यं वरलोभान्महायशाः।
अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्॥ 1-5-33
भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव।
सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे।
नानृतं हि सदा लोके पूज्यते दानवोत्तम॥ 1-5-34
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि पुलोमाग्निसंवादे पञ्चमोऽध्यायः॥ 5 ॥
षष्ठोऽध्यायः
पौलोमपर्व
च्यवनस्योत्पत्तिस्तद्दर्शनेन रक्षसो भस्मीभावो भृगुकर्तृकमग्नये शापदानं च
सौतिरुवाच
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम्।
ब्रह्मन्वराहरूपेण मनोमारुतरंहसा॥ 1-6-1
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वहः।
रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्॥ 1-6-2
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम्।
तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम्॥ 1-6-3
सा तमादाय सुश्रोणी ससार भृगुनन्दनम्।
च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता॥ 1-6-4
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः।
रुदन्तीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम्॥ 1-6-5
सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः।
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी॥ 1-6-6
अनुवर्त्माश्रिता[आवर्तन्ती सृतिं] तस्या भृगोः पत्न्यास्तपस्विनः।
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा॥ 1-6-7
नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः।
वधूसरा इति भगवांश्च्यवनस्याश्रमं प्रति॥ 1-6-8
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान्।
तं ददर्श पिता तत्र च्यवनं तां च भामिनीम्।
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः॥ 1-6-9
भृगुः उवाच
केनासि रक्षसे तस्मै कथिता त्वं जिहीर्षते।
न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम्॥ 1-6-10
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा।
बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः॥ 1-6-11
पुलोमोवाच
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता।
ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव॥ 1-6-12
साहं तव सुतस्यास्य तेजसा परिमोक्षिता।
भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै॥ 1-6-13
सौतिरुवाच
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान्।
शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि॥ 1-6-14
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापे षष्ठोऽध्यायः॥ 6 ॥
सप्तमोऽध्यायः
पौलोमपर्व
भृगुं निर्भर्त्स्य कुपितस्याग्नेरन्तर्धानं ब्रह्मणा शापं सङ्कोच्य वह्नेः प्रसादनं च
सौतिरुवाच
शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत्।
किमिदं साहसं ब्रह्मन्कृतवानसि मां प्रति॥ 1-7-1
धर्मे प्रयतमानस्य सत्यं च वदतः समम्।
पृष्टो यदब्रवं सत्यं व्यभिचारोऽत्र को मम॥ 1-7-2
पृष्टो हि साक्षी यः साक्ष्यं जानानोऽप्यन्यथावदेत्।
स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान्॥ 1-7-3
यश्च कार्यार्थतत्त्वज्ञो जानानोऽपि न भाषते।
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः॥ 1-7-4
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम।
जानतोऽपि च ते ब्रह्मन्कथयिष्ये निबोध तत्॥ 1-7-5
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु।
अग्निहोत्रेषु सत्रेषु क्रियासु च मखेषु च॥ 1-7-6
वेदोक्तेन विधानेन मयि यद्धूयते हविः।
देवताः पितरश्चैव तेन तृप्ता भवन्ति वै॥ 1-7-7
आपो देवगणाः सर्वे आपः पितृगणास्तथा।
दर्शश्च पौर्णमासश्च देवानां पितृभिः सह॥ 1-7-8
देवताः पितरस्तस्मात्पितरश्चापि देवताः।
एकीभूताश्च दृश्यन्ते[पूज्यन्ते] पृथक्त्वेन च पर्वसु॥ 1-7-9
देवताः पितरश्चैव भुञ्जते मयि यद्धुतम्।
देवतानां पितॄणां च मुखमेतदहं स्मृतम्॥ 1-7-10
अमावास्यां हि पितरः पौर्णमास्यां हि देवताः।
मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः॥ 1-7-11
सर्वभक्षः कथं त्वेषां भविष्यामि मुखं त्वहम्।
सौतिरुवाच
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः॥ 1-7-12
द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च।
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः॥ 1-7-13
विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः।
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः॥ 1-7-14
अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः।
विधद्ध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा॥ 1-7-15
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु।
अग्नेरावेदयञ्छापं क्रियासंहारमेव च॥ 1-7-16
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे।
कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा॥ 1-7-17
हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति।
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय विश्वकृत्॥ 1-7-18
उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम्।
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च॥ 1-7-19
त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः।
स तथा कुरु लोकेश नोच्छिद्येरन्यथा क्रियाः॥ 1-7-20
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशन।
त्वं पवित्रं सदा लोके सर्वभूतगतिश्च ह॥ 1-7-21
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि।
अपाने ह्यर्चिषो यास्ते सर्वं भोक्ष्यन्ति ताः शिखिन्॥ 1-7-22
क्रव्यादा च तनुर्या ते सा सर्वं भक्षयिष्यति।
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते॥ 1-7-23
तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति।
त्वमग्ने परमं तेजः स्वप्रभावाद्विनिर्गतम्॥ 1-7-24
स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो।
देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम्॥ 1-7-25
सौतिरुवाच
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम्।
जगाम शासनं कर्तुं देवस्य परमेष्ठिनः॥ 1-7-26
देवर्षयः च मुदितास्ततो जग्मुर्यथागतम्।
ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे॥ 1-7-27
दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः।
अग्निश्च परमां प्रीतिमवाप हतकल्मषः॥ 1-7-28
एवं स भगवाञ्छापं लेभेऽग्निर्भृगुतः पुरा।
एवमेष पुरावृत्त इतिहासोऽग्निशापजः।
पुलोम्नश्च विनाशोऽयं च्यवनस्य च सम्भवः॥ 1-7-29
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि अग्निशापमोचने सप्तमोऽध्यायः॥ 7 ॥
अष्टमोऽध्यायः
पौलोमपर्व
प्रमद्वरायाः प्रादुर्भावस्तां रुरवे दातुं पितुः प्रतिज्ञानं तस्याः सर्पदंशनेन पञ्चत्वप्राप्तिश्च
सौतिरुवाच
स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्।
सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्॥ 1-8-1
प्रमतिः तु रुरुं नाम घृताच्यां समजीजनत्।
रुरुः प्रमद्वरायां तु शुनकं समजीजनत्॥ 1-8-2
(शौनकस्तु महाभाग शुनकस्य सुतो भवान्।
शुनकस्तु महासत्त्वः सर्वभार्गवनन्दनः।
जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः॥)
तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः।
विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः॥ 1-8-3
ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः।
स्थूलकेश इति ख्यातः सर्वभूतहिते रतः॥ 1-8-4
एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्।
गन्धर्वराजो विप्रर्षे विश्वावसुः इति स्मृतः॥ 1-8-5
अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन।
उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति॥ 1-8-6
उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा।
अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥ 1-8-7
कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया।
तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः॥ 1-8-8
स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्।
स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः॥ 1-8-9
जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च।
ववृधे सा वरारोहा तस्याश्रमपदे शुभे॥ 1-8-10
जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्।
स्थूलकेशो महाभागश्चकार सुमहानृषिः॥ 1-8-11
प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता।
ततः प्रमद्वरा इत्यस्या नाम चक्रे महानृषिः॥ 1-8-12
तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्।
बभूव किल धर्मात्मा मदनोपहतस्तदा॥ 1-8-13
पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्।
प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्॥ 1-8-14
ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्।
विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते॥ 1-8-15
ततः कतिपयाहस्य विवाहे समुपस्थिते।
सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी॥ 1-8-16
नापश्यत्सम्प्रसुप्तं वै भुजङ्गं तिर्यगायतम्।
पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता॥ 1-8-17
स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा।
विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्॥ 1-8-18
सा दष्टा तेन सर्पेण पपात सहसा भुवि।
विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥ 1-8-19
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा।
व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाभवत्॥ 1-8-20
प्रसुप्ते वाभवच्चापि भुवि सर्वविषार्दिता।
भूयो मनोहरतरा बभूव तनुमध्यमा॥ 1-8-21
ददर्श तां पिता चैव ये चैवान्ये तपस्विनः।
विचेष्टमानां पतितां भूतले पद्मवर्चसम्॥ 1-8-22
ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः।
स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः॥ 1-8-23
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः।
भरद्वाजः कौणकुत्स्य आर्ष्टिषेणोऽथ गौतमः॥ 1-8-24
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः।
तां ते कन्यां व्यसुं दृष्ट्वा भुजङ्गस्य विषार्दिताम्।
रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ॥ 1-8-25
(ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा।)
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वरासर्पदंशेऽष्टमोऽध्यायः॥ 8 ॥
नवमोऽध्यायः
पौलोमपर्व
रुरोरायुषोऽर्धेन प्रमद्वरायाः पुनरुज्जीवनं रुरुणा सह तस्या विवाहः रुरोर्भुजङ्गानां वधार्थमुद्योगश्च
सौतिरुवाच
तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु।
रुरुश्चुक्रोश गहनं वनं गत्वातिदुःखितः॥ 1-9-1
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु।
अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्॥ 1-9-2
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी।
बान्धवानां च सर्वेषां किं नु दुःखमतः परम्॥ 1-9-3
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि।
सम्यगाराधितास्तेन संजीवतु मम प्रिया॥ 1-9-4
यथा च जन्मप्रभृति यतात्माहं धृतव्रतः।
प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी॥ 1-9-5
(कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि।
यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया॥)
एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च।
देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं वने॥ 1-9-6
देवदूत उवाच
अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा।
यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥ 1-9-7
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता।
तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥ 1-9-8
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः।
तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥ 1-9-9
रुरुरुवाच
क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर।
करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥ 1-9-10
देवदूत उवाच
आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन।
एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा॥ 1-9-11
रुरुरुवाच
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम।
शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥ 1-9-12
सौतिरुवाच
ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ।
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥ 1-9-13
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा।
समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥ 1-9-14
धर्मराज उवाच
प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि।
उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥ 1-9-15
सौतिरुवाच
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा।
रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥ 1-9-16
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः।
आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥ 1-9-17
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा।
विवाहं तौ च रेमाते परस्परहितैषिणौ॥ 1-9-18
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्।
व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥ 1-9-19
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः।
अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा॥ 1-9-20
स कदाचिद्वनं विप्रो रुरुभ्यागमन्महत्।
शयानं तत्र चापश्यद्डुण्डुभं वयसान्वितम्॥ 1-9-21
तत उद्यम्य दण्डं स कालदण्डोपमं तदा।
जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः॥ 1-9-22
नापराध्यामि ते किंचिदहमद्य तपोधन।
संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः॥ 1-9-23
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वराजीवने नवमोऽध्यायः॥ 9 ॥
दशमोऽध्यायः
पौलोमपर्व
रुरुडुण्डुभसंवादः
रुरुरुवाच
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह।
तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1
भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत।
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2
डुण्डुभ उवाच
अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3
एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4
सौतिरुवाच
इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा।
नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5
उवाच चैनं भगवान्रुरुः संशमयन्निव।
कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6
डुण्डुभ उवाच
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7
रुरुरुवाच
किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम।
कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥
एकादशोऽध्यायः
पौलोमपर्व
डुण्डुभस्यात्मनः पूर्ववृत्तान्तनिवेदनपूर्वकं रुरवेऽहिंसोपदेशः
डुण्डुभ उवाच
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः।
भृशं संशितवाक्तात तपोबलसमन्वितः॥ 1-11-1
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजङ्गमम्।
अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै॥ 1-11-2
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः।
निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः॥ 1-11-3
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया।
तथावीर्यो भुजङ्गस्त्वं मम शापाद्भविष्यसि॥ 1-11-4
तस्याहं तपसो वीर्यं जानन्नासं तपोधन।
भृशमुद्विग्नहृदयस्तमवोचमहं तदा॥ 1-11-5
प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः।
सखेति सहसेदं ते नर्मार्थं वै कृतं मया॥ 1-11-6
क्षन्तुमर्हसि मे ब्रह्मन्शापोऽयं विनिवर्त्यताम्।
सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्॥ 1-11-7
मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः।
नानृतं वै मया प्रोक्तं भवितेदं कथंचन॥ 1-11-8
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन।
श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदानघ॥ 1-11-9
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः।
तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव॥ 1-11-10
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च।
स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्॥ 1-11-11
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा।
स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः॥ 1-11-12
इदं चोवाच वचनं रुरुमप्रतिमौजसम्।
अहिंसा परमो धर्मः सर्वप्राणभृतां वर॥ 1-11-13
तस्मात्प्राणभृतः सर्वान्नहिंस्याद्ब्राह्मणः क्वचित्।
ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः॥ 1-11-14
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः।
अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्॥ 1-11-15
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च।
क्षत्रियस्य हि यो धर्मः स हि नेष्येत वै तव॥ 1-11-16
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्।
तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो॥ 1-11-17
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा।
परित्राणां च भीतानां सर्पाणां ब्राह्मणादपि॥ 1-11-18
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्।
आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम॥ 1-11-19
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि डुण्डुभशापमोक्ष एकादशोऽध्यायः॥ 11 ॥
द्वादशोऽध्यायः
पौलोमपर्व
रुरोः सर्पसत्रविषयकजिज्ञासायास्तत्पित्रा समाधानम्
रुरुरुवाच
कथं हिंसितवान्सर्पान्स राजा जनमेजयः।
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम॥ 1-12-1
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः॥ 1-12-2
ऋषिरुवाच
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्।
ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत॥ 1-12-3
सौतिरुवाच
रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि॥ 1-12-4
स मोहं परमं गत्वा नष्टसंज्ञ इवाभवत्।
तदृषेर्वचनं तथ्यं चिन्तयानः पुनः पुनः॥ 1-12-5
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा।
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्॥ 1-12-6
इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि सर्पसत्रप्रस्तावनायां द्वादशोऽध्यायः॥ 12 ॥
त्रयोदशोऽध्यायः
आस्तीकपर्व
जरत्कारोः स्वपितॄणामनुरोधेन समयेन पत्नीपरिग्रहस्वीकरणम्
शौनक उवाच
किमर्थं राजशार्दूलः स राजा जनमेजयः।
सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे॥ 1-13-1
निखिलेन यथातत्त्वं सौते सर्वमशेषतः।
आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः॥ 1-13-2
मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः।
कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्।
स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे॥ 1-13-3
सौतिरुवाच
महदाख्यानमास्तीकं यथैतत्प्रोच्यते द्विज।
सर्वमेतदशेषेण शृणु मे वदतां वर॥ 1-13-4
शौनक उवाच
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्।
आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः॥ 1-13-5
सौतिरुवाच
@महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते बुधैः।
सर्वमेतदशेषेण शृणु मे वेदतां वर।@
इतिहासमिमं विप्राः पुराणं परिचक्षते।
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु॥ 1-13-6
पूर्वं प्रचोदितः सूतः पिता मे रो[लो]महर्षणः।
शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्॥ 1-13-7
तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्।
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते॥ 1-13-8
कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्।
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः॥ 1-13-9
ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा।
जरत्कारुः इति ख्यात ऊर्ध्वरेता महातपाः॥ 1-13-10
यायावराणां प्रवरो धर्मज्ञः संशितव्रतः।
स कदाचिन्महाभागस्तपोबलसमन्वितः॥ 1-13-11
चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः।
तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः॥ 1-13-12
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।
वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः॥ 1-13-13
इतस्ततः परिचरन्दीप्तपावकसप्रभः।
अटमानः कदातित्स्वान्स ददर्श पितामहान्॥ 1-13-14
लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्।
तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान्॥ 1-13-15
के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः।
वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते।
मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना॥ 1-13-16
पितर ऊचुः
यायावरा नाम वयमृषयः संशितव्रताः।
संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्॥ 1-13-17
अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः।
मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः॥ 1-13-18
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति।
तेन लम्बामहे गर्ते संतानस्य क्षयादिह॥ 1-13-19
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा।
कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम॥ 1-13-20
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः।
किमर्थं चैव नः शोष्याननुशोचसि सत्तम॥ 1-13-21
जरत्कारुरुवाच
मम पूर्वे भवन्तो वै पितरः सपितामहाः।
ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्॥ 1-13-22
पितर ऊचुः
यतस्व यत्नवांस्तात संतानाय कुलस्य नः।
आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो॥ 1-13-23
न हि धर्मफलैस्तात न तपोभिः सुसंचितैः।
तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै॥ 1-13-24
तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु।
पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्॥ 1-13-25
जरत्कारुरुवाच
न दारान्वै करिष्येऽहं न धनं जीवितार्थतः।
भवतां तु हितार्थाय करिष्ये दारसंग्रहम्॥ 1-13-26
समयेन च कर्ताहमनेन विधिपूर्वकम्।
तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्॥ 1-13-27
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः।
भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः॥ 1-13-28
दरिद्राय हि मे भार्यां को दास्यति विशेषतः।
प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति॥ 1-13-29
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः।
अनेन विधिना शश्वन्न करिष्येऽहमन्यथा॥ 1-13-30
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै।
शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम॥ 1-13-31
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुतत्पितृसंवादे त्रयोदशोऽध्यायः॥ 13 ॥
चतुर्दशोऽध्यायः
आस्तीकपर्व
जरत्कारकर्तृकं वासुकेः स्वसुः पाणिग्रहणम्
सौतिरुवाच
ततो निवेशाय तदा स विप्रः संशितव्रतः।
महीं चचार दारार्थी न च दारानविन्दत॥ 1-14-1
स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन्।
चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव॥ 1-14-2
तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनी तदा।
न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्॥ 1-14-3
सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि।
मनो निविष्टमभवज्जरत्कारोर्महात्मनः॥ 1-14-4
तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः।
किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम॥ 1-14-5
वासुकिरुवाच
जरत्कारो जरत्कारुः स्वसेयमनुजा मम।
प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्॥ 1-14-6
त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम।
एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्।
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥ 1-14-7
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुकिस्वसृवरणे चतुर्दशोऽध्यायः॥ 14 ॥
पञ्चदशोऽध्यायः
आस्तीकपर्व
आस्तीकस्य जन्म मातृशापेन सर्पसत्रे विनश्यतां नागानां तत्कर्तृकं संरक्षणमभूदिति समासतः सूचनं च
सौतिरुवाच
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर।
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ 1-15-1
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः।
स्वसारमृषये तस्मै सुव्रताय महात्मने॥ 1-15-2
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।
आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥ 1-15-3
तपस्वी च महात्मा च वेदवेदाङ्गपारगः।
समः सर्वस्य लोकस्य पितृमातृभयापहः॥ 1-15-4
अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः।
आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ 1-15-5
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै।
मोचयामास तान्नागानास्तीकः सुमहातपाः॥ 1-15-6
भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्।
पितॄंश्च तारयामास संतत्या तपसा तथा॥ 1-15-7
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्।
देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥ 1-15-8
ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्।
अपहृत्य गुरुं भारं पितॄणां संशितव्रतः॥ 1-15-9
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः।
आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ 1-15-10
जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्।
एतदाख्यानमास्तीकं यथावत्कथितं मया।
प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥ 1-15-11
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पाणां मातृशापप्रस्तावे पञ्चदशोऽध्यायः॥ 15 ॥
षोडशोऽध्यायः
आस्तीकपर्व
कश्यपस्य वरेण कद्रूविनतयोरभीष्टपुत्रप्राप्तिः
शौनक उवाच
सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः।
आस्तीकस्य कवेः साधोः शुश्रुषा परमा हि नः॥ 1-16-1
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव।
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ 1-16-3
सौतिरुवाच
आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते।
यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह।
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः।
वरातिसर्गं श्रुत्वैवं कश्यपाद् उत्तमं च ते॥ 1-16-7
हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ।
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले।
तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9
तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्।
एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10
यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा।
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्।
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः।
ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्॥ 1-16-12
सौतिरुवाच
कालेन महता कद्रूरण्डानां दशतीर्दश।
जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ 1-16-13
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः।
सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ 1-16-14
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः।
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ 1-16-15
ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी।
अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ 1-16-16
पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता।
स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ 1-16-17
योऽहमेवं कृतो मातस्त्वया लोभपरीतया।
शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ 1-16-18
पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह।
एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ 1-16-19
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्।
न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ 1-16-20
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया।
विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ 1-16-21
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः।
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा॥ 1-16-22
आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्।
गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ 1-16-23
स जातमात्रो विनतां परित्यज्य खमाविशत्।
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्।
विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ 1-16-24
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥ 16 ॥
सप्तदशोऽध्यायः
आस्तीकपर्व
मेरावमृतोपलब्धये विमृशद्भ्यो देवेभ्यो भगवतो नारायणस्य समुद्रमन्थनायादेशः
सूत उवाच
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।
अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥ 1-17-1
यं तं देवगणाः सर्वे हृष्टरूपमपूजयन्।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2
अमोघबलमश्वानामुत्तमं जगतां वरम्।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3
शौनक उवाच
कथं तदमृतं देवैर्मथितं क्व च शंस मे।
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4
सौतिरुवाच
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गेः काञ्चनोज्ज्वलैः॥ 1-17-5
कनकाभरणं चित्रं देवगन्धर्वसेवितम्।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।
नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।
अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः॥ 1-17-9
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।
अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥ 1-17-13
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने सप्तदशोऽध्यायः॥ 17 ॥
अष्टादशोऽध्यायः
आस्तीकपर्व
अमृतलिप्सुभिर्देवासुरैः समुद्रमन्थनम् अनेकविधरत्नानाममृतस्य चोत्पत्तिः भगवता धृतमोहिनीरूपेण दैत्यगणसकाशादमृतहरणं च
सौतिरुवाच
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्।
मन्दरं पर्वतवरं लताजालसमाकुलम्॥ 1-18-1
नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम्।
किन्नरैरप्सरोभिश्च देवैरपि च सेवितम्॥ 1-18-2
एकादश सहस्राणि योजनानां समुच्छ्रितम्।
अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्॥ 1-18-3
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्॥ 1-18-4
भवन्तावत्र कुर्वातां वुद्धिं नैःश्रेयसीं पराम्।
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः॥ 1-18-5
सौतिरुवाच
तथेति चाव्रवीद्विष्णुर्ब्रह्मणा सह भार्गव।
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः॥ 1-18-6
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्॥ 1-18-7
अथ पर्वतराजानं तमनन्तो महाबलः।
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्॥ 1-18-8
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे।
तमूचुरमृतस्यार्थे निर्मथिप्यामहे जलम्॥ 1-18-9
अपां पतिरथोवाच ममाप्यंशो भवेत्ततः।
सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति॥ 1-18-10
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः।
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति॥ 1-18-11
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्।
तं शैलं तस्य पृष्ठस्थं वज्रेण इन्द्रो न्यपीडयत्॥ 1-18-12
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम्।
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्॥ 1-18-13
अमृतार्थे पुरा ब्रह्मंस्तथैवासुरदानवाः।
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः॥ 1-18-14
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।
@वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।@
अनन्तो भगवान्देवो यतो नारायणस्ततः॥ 1-18-15
शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपत्।
वासुकेरथ नागस्य सहसाऽऽक्षिप्यतः सुरैः॥ 1-18-16
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।
@विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्॥
देवाश्च दानवाश्चैव दग्धास्तेन विषेण ह।
अपाक्रामंस्ततो भीत्या विषादमगमंस्तदा॥
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुङ्गवैः।
मथ्यमानेऽमृते जातं विषं कालानलप्रभम्॥
तेनवै तापिता लोकाः तत्र प्रतिकुरुष्व ह।
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्॥
त्र्यक्षं त्रिशूलिनं रुद्रं देवदेवमुमापतिम्।
तदाऽथ चिन्तितो देवः तज्ज्ञात्वा द्रुतमाययौ॥
तस्याथ देवस्तत्सर्वं आचचक्षे प्रजापतिः।
तच्छ्रुत्वा देवदेवेशो लोकस्यास्य हितेप्सया॥
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्।
कण्ठे निहितवान्देवो देवानां हितकाम्यया॥
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः।
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा॥
देवाः प्रीताः पुनर्जग्मुः चक्रुर्वै कर्म तत्तथा।
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः॥
वासुकेरथ नागस्य सहसा क्षिप्यतस्तु तैः।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्॥@
ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः॥ 1-18-17
अभ्यवर्षन्सुरगणाञ्छ्रमसंतापकर्शितान्।
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः॥ 1-18-18
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्।
बभूवात्र महानादो महामेघरवोपमः॥ 1-18-19
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः।
तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा॥ 1-18-20
विलयं समुपाजग्मुः शतशो लवणाम्भसि।
वारुणानि च भूतानि विविधानि महीधरः॥ 1-18-21
पातालतलवासीनि विलयं समुपानयत्।
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्॥ 1-18-22
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः।
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः॥ 1-18-23
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्।
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्॥ 1-18-24
विगतासूनि सर्वाणि सत्त्वानि विविधानि च।
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः॥ 1-18-25
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः।
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि॥ 1-18-26
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः।
तेषाममृतवीर्याणां रसानां पयसैव च॥ 1-18-27
अमरत्वं सुरा जग्प्नुः काञ्चनस्य च निःस्रवात्।
ततस्तस्य समुद्रस्य तज्जातमुदकं पयः॥ 1-18-28
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम्।
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्॥ 1-18-29
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्।
विना नारायणं देवं सर्वेऽन्ये देवदानवाः॥ 1-18-30
चिरारब्धमिदं चापि सागरस्यापि मन्थनम्।
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत्॥ 1-18-31
विधत्स्वैषां बलं विष्णो भवानत्र परायणम्।
विष्णुरुवाच
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः॥ 1-18-32
क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम्।
सौतिरुवाच
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः॥ 1-18-33
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्।
@तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः।
प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।
कृष्णाम्बरधरा देवी सर्वाभरणभूषिता।@
ततः शतसहस्रांशुर्मध्यमानात्तु सागरात्॥ 1-18-34
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः।
श्रीः अनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी॥ 1-18-35
सुरादेवी समुत्पन्ना तुरगः पाण्डुरस्तथा।
कौस्तुभः तु मणिर्दिव्यः उत्पन्नो धृतसम्भवः॥ 1-18-36
मरीचिविकचः श्रीमान्नारायणउरोगतः।
(पारिजातश्च तत्रैव सुरभिश्च महामुने।
जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ॥)
@ततो जज्ञे महाकायश्चतुर्दन्तो महागजः।
विषं ज्येष्ठा च सोमश्च श्रीः सुरा तुरगस्तथा।
कपिला कामवृक्षश्च कौस्तुभश्च महागजः।@
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः॥ 1-18-37
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः।
धन्वन्तरिः ततो देवो वपुष्मानुदतिष्ठत॥ 1-18-38
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः॥ 1-18-39
अमृतार्थे महान्नादो ममेदमिति जल्पताम्।
श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततः परम्॥ 1-18-40
ऐरावतो महानागोऽभवद्वज्रभृता धृतः।
अतिनिर्मथनादेव कालकूटस्ततः परः॥ 1-18-41
जगदावृत्य सहसा सधूमोऽग्निरिव ज्वलन्।
त्रैलोक्यं मोहितं यस्य गन्धमाघ्राय तद्विषम्॥ 1-18-42
प्राग्रसल्लोकरक्षार्थं ब्रह्मणो वचनाच्छिवः।
दधार भगवान्कण्ठे मन्त्रमूर्तिर्महेश्वरः॥ 1-18-43
तदाप्रभृति देवस्तु नीलकण्ठ इति श्रुतिः।
एतत्तदद्भुतं दृष्ट्वा निराशा दानवाः स्थिताः॥ 1-18-44
अमृतार्थे च लक्ष्म्यर्थे महान्तं वैरमाश्रिताः।
ततो नारायणो मायां मोहिनीं समुपाश्रितः॥ 1-18-45
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः।
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः।
स्त्रिये दानवदैतेयाः सर्वे तद्गतमानसाः॥ 1-18-46
(सा तु नारायणी माया धारयन्ती कमण्डलुम्।
आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः।
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः॥)
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनेऽष्टादशोऽध्यायः॥ 18 ॥
एकोनविंशोऽध्यायः
आस्तीकपर्व
देवैरमृतपानम् देवासुरसङ्ग्रामे तेषां विजयश्च
सौतिरुवाच
अथावरणमुख्यानि नानाप्रहरणानि च।
प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः॥ 1-19-1
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान्।
जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः॥ 1-19-2
ततो देवगणाः सर्वे पपुस्तदमृतं तदा।
विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति॥ 1-19-3
@पाययत्यमृतं देवान्हरौ बाहुबलेन च।
निरोधयति चापेन दूरीकृत्य धनुर्धरान्॥@
ततः पिबत्सु तत्कालं देवेष्वभृतमीप्सितम्।
राहुः विबुधरूपेण दानवः प्रापिबत्तदा॥ 1-19-4
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा।
आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया॥ 1-19-5
ततो भगवता तस्य शिरश्छिन्नमलंकृतम्।
चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा॥ 1-19-6
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत्।
चक्रच्छिन्नं खमुत्पत्य ननादातिभयंकरम्॥ 1-19-7
तत्कबन्धं पपातास्य विस्फुरद्धरणीतले।
सपर्वतवनद्वीपां दैत्यस्याकम्पयन्महीम्॥ 1-19-8
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै।
शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ॥ 1-19-9
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः।
नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत्॥ 1-19-10
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः।
सुराणामसुराणां च सर्वघोरतरो महान्॥ 1-19-11
प्रासाः च विपुलास्तीक्ष्णा न्यपतन्त सहस्रशः।
तोमराः च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च॥ 1-19-12
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु।
असिशक्तिगदारुग्णा निपेतुर्धरणीतले॥ 1-19-13
छिन्नानि पट्टिशैः चैव शिरांसि युधि दारुणैः।
तप्तकाञ्चनमालीनि निपेतुरनिशं तदा॥ 1-19-14
रुधिरेणानुलिप्ताङ्गा निहताश्च महासुराः।
अद्रीणामिव कूटानि धातुरक्तानि शेरते॥ 1-19-15
हाहाकारः समभवत्तत्र तत्र सहस्रशः।
अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति॥ 1-19-16
परिघैः आयसैस्तीक्ष्णैः संनिकर्षे च मुष्टिभिः।
निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत्॥ 1-19-17
छिन्धि भिन्धि प्रधाव त्वं पातयाभिसरेति च।
व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः॥ 1-19-18
एवं सुतुमुले युद्धे वर्तमाने महाभये।
नरनारायणौ देवौ समाजग्मतुराहवम्॥ 1-19-19
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि।
चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम्॥ 1-19-20
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम्।
विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं संयति भीमदर्शनम्॥ 1-19-21
तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः।
मुमोच वै प्रबलवदुग्रवेगवान्महाप्रभं परनगरावदारणम्॥ 1-19-22
तदन्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा।
विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे॥ 1-19-23
दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत।
प्रवेरितं वियति मुहुः क्षितौ तथा पपौ रणे रुधिरमथो पिशाचवत्॥ 1-19-24
तथासुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमार्दयंस्तदा।
महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह॥ 1-19-25
अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः।
महाद्रयः परिगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः॥ 1-19-26
ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः।
परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसम्प्रवर्तिते॥ 1-19-27
नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत्।
विदारयन्गिरिशिखराणि पत्रिभिः महाभयेऽसुरगणविग्रहे तदा॥ 1-19-28
ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः।
वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशम्य ते॥ 1-19-29
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः।
विनाद्य खं दिवमपि चैव सर्वशः ततो गताः सलिलधरा यथागतम्॥ 1-19-30
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम्।
ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिद् अथामरैः सह॥ 1-19-31
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थनसमाप्तिर्नामैकोनविंशोऽध्यायः॥ 19 ॥
विंशोऽध्यायः
आस्तीकपर्व
कद्रूविनतयोः पणबन्धः कद्र्वा सर्पाणां शपनम् ब्रह्मणा तदनुमोदनं च
सौतिरुवाच
एतत्ते कथितं सर्वममृतं मथितं यथा।
यत्र सोऽस्वः समुत्पन्नः श्रीमानतुलविक्रमः॥ 1-20-1
यं निशम्य तदा कद्रूर्विनताम् इदमब्रवीत्।
उच्चैःश्रवा हि किं वर्णो भद्रे प्रब्रूहि माचिरम्॥ 1-20-2
विनतोवाच
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे।
ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे॥ 1-20-3
कद्रूरुवाच
कृष्णवालमहं मन्ये हयमेन शुचिस्मिते।
एहि सार्धं मया दीव्य दासीभावाय भामिनि॥ 1-20-4
सौतिरुवाच
एवं ते समयं कृत्वा दासीभावाय वै मिथः।
जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह॥ 1-20-5
ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती।
आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः॥ 1-20-6
आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा।
नावपद्यन्त ये वाक्यं ताञ्छशाप भुजङ्गमान्॥ 1-20-7
सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति।
जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः॥ 1-20-8
शापमेनं तु शुश्राव स्वयमेव पितामहः।
अतिक्रूरं समुत्सृष्टं कद्र्वा दैवादतीव हि॥ 1-20-9
सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत।
बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया॥ 1-20-10
तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः।
तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय च॥ 1-20-11
युक्तं मात्रा कृतं तेषां परपीडोपसर्पिणाम्।
अन्येषामपि सत्त्वानां नित्यं दोषपरास्तु ये॥ 1-20-12
तेषां प्राणान्तको दण्डो दैवेन विनिपात्यते।
एवं सम्भाष्य देवस्तु पूज्य कद्रूं च तां तदा॥ 1-20-13
आहूय कश्यपं देव इदं वचनमब्रवीत्।
यदेते दन्दशूकाश्च सर्पा जातास्त्वयानघ॥ 1-20-14
विषोल्बणा महाभोगा मात्रा शप्ताः परंतप।
तत्र मन्युस्त्वया तात न कर्तव्यः कथंचन॥ 1-20-15
दृष्टं पुरातनं ह्येतद्यज्ञे सर्पविनाशनम्।
इत्युक्त्वा सृष्टिकृद्देवस्तं प्रसाद्य प्रजापतिम्।
प्रादाद्विषहरीं विद्यां कश्यपाय महात्मने॥ 1-20-16
(एवं शप्तेषु नागेषु कद्रूवा च द्विजसत्तम्।
उद्विग्नः शापतस्तस्याः कद्रूं कर्कोटकः अऽब्रवीत्॥
मातरं परमप्रीतस्तदा भुजगसत्तमः।
आविश्य वाजिनं मुख्यं वालो भूत्वाञ्जनप्रभः॥
दर्शयिष्यामि तत्राहमात्मानं काममाश्वस।
एवमस्त्विति तं पुत्रं प्रत्युवाच यशस्विनी॥)
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे विंशोऽध्यायः॥ 20 ॥
एकविंशोऽध्यायः
आस्तीकपर्व
समुद्रवर्णनम्
सौतिरुवाच
ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ।
कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥ 1-21-1
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा।
जग्मतुस्तुरगं द्रष्टुमुच्चैः श्रवसमन्तिकात्॥ 1-21-2
ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्।
महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥ 1-21-3
तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा।
सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्॥ 1-21-4
भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा।
उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥ 1-21-5
आकरं सर्वरत्नानामालयं वरुणस्य च।
नागानामालयं रम्यमुत्तमं सरितां पतिम्॥ 1-21-6
पातालज्वलनावासमसुराणां च बान्धवम्।
भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥ 1-21-7
शुभं दिव्यममर्त्यानाममृतस्याकरं परम्।
अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥ 1-21-8
घोरं जलचरारावरौद्रं भैरवनिःस्वनम्।
गम्भीरावर्तकलिलं सर्वभूतभयंकरम्॥ 1-21-9
वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्।
वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥ 1-21-10
चन्द्रवृद्धिक्षयवशादुद्वत्तोर्मिसमाकुलम्।
पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥ 1-21-11
गां विन्दता भगवता गोविन्देनामितौजसा।
वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥ 1-21-12
ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा।
अनासादितगाधं च पातालतलमव्ययम्॥ 1-21-13
अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः।
युगादिकालशयनं विष्णोरमिततेजसः॥ 1-21-14
वज्रपातनसंत्रस्तमैनाकस्य अभयप्रदम्।
डिम्बाहवार्दितानां च असुराणां परायणम्॥ 1-21-15
वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्।
अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्॥ 1-21-16
महानदीभिर्वह्वीभिः स्पर्धयेव सहस्रशः।
अभिसार्यमाणमनिशं ददृशाते महार्णवम्।
आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥ 1-21-17
गम्भीरं तिमिमकर उग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः।
विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्॥ 1-21-18
@इत्येवं झषमकरोर्मिसङ्कुलं तं गम्भीरं विकसितमम्बरप्रकाशम्।
पातालज्वलनशिखाविदीपितान्तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम्॥@
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकविंशतितमोऽध्यायः॥ 21 ॥
द्वाविंशोऽध्यायः
आस्तीकपर्व
सर्पैरुच्चैःश्रवःपुच्छवेष्टनम् कद्रूविनतयोः समुद्रदर्शनं च
सौतिरुवाच
नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः।
निःस्नेहा वै दहेन्माता असम्प्राप्तमनोरथा॥ 1-22-1
प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी।
कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः॥ 1-22-2
तथा हि गत्वा ते तस्य पुच्छे वाला इव स्थिताः।
एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा॥ 1-22-3
ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम।
जग्मतुः परया प्रीत्या परं पारं महोदधेः॥ 1-22-4
कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा।
आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्॥ 1-22-5
वायुनातीव सहसा क्षोभ्यमाणं महास्वनम्।
तिमिङ्गिलसमाकीर्णं मकरैरावृतं तथा॥ 1-22-6
संयुतं बहुसाहस्रैः सत्त्वैर्नानाविधैरपि।
घोरैर्घोरमनाधृष्यं गम्भीरमतिभैरवम्॥ 1-22-7
आकरं सर्वरत्नानामालयं वरुणस्य च।
नागानामालयं चापि सुरम्यं सरितां पतिम्॥ 1-22-8
पातालज्वलनावासमसुराणां तथाऽऽलयम्।
भयंकराणां सत्त्वानां पयसो निधिमव्ययम्॥ 1-22-9
शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्।
अप्रमेयमचिन्त्यं च सुपुण्यजलसम्मितम्॥ 1-22-10
महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः।
आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः॥ 1-22-11
इत्येवं तरलतरोर्मिसंकुलं तं गम्भीरं विकसितमम्बरप्रकाशम्।
पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते॥ 1-22-12
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे समुद्रदर्शनं नाम द्वाविंशोऽध्यायः॥ 22 ॥
त्रयोविंशोऽध्यायः
आस्तीकपर्व
पणितपराजितया विनतया कद्र्वा दास्याङ्गीकरणम् गरुडोत्पत्तिः देवैस्तत्स्तवनं च
सौतिरुवाच
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह।
न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा॥ 1-23-1
ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम्।
शशाङ्ककिरणप्रख्यं कालवालमुभे तदा॥ 1-23-2
निशम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान्।
विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत्॥ 1-23-3
ततः सा विनता तस्मिन्पणितेन पराजिता।
अभवद्दुःखसंतप्ता दासीभावं समास्थिता॥ 1-23-4
एतस्मिन्नन्तरे चापि गरुडः काल आगते।
विना मात्रा महातेजा विदार्याण्डमजायत॥ 1-23-5
महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः।
कामरूपः कामगमः कामवीर्यो विहंगमः॥ 1-23-6
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः।
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः॥ 1-23-7
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः।
घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः॥ 1-23-8
तं दृष्ट्वा शरणं जग्मुर्देवा सर्वे विभावसुम्।
प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम्॥ 1-23-9
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि।
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति॥ 1-23-10
अग्निः उवाच
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः।
गरुडो बलवानेष मम तुल्यश्च तेजसा॥ 1-23-11
जातः परमतेजस्वी विनतानन्दवर्धनः।
तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत्॥ 1-23-12
नागक्षयकरश्चैव काश्यपेयो महाबलः।
देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम्॥ 1-23-13
न भीः कार्या कथं चात्र पश्यध्वं सहिता मम।
एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन्।
ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा॥ 1-23-14
@सूतः--
एवमुक्तास्ततो देवा गारुडं वाग्भिरस्तुवन्।
अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा।@
देवा ऊचुः
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः।
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः॥ 1-23-15
त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः।
त्वं मुखं पद्मजो विप्रस्त्वमग्निः पवनस्तथा॥ 1-23-16
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः।
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः॥ 1-23-17
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम्।
बलोर्मिमान्साधुरदीनसत्त्वः समृद्धिमान्दुर्विषहस्त्वमेव॥ 1-23-18
त्वत्तः सृतं सर्वमहीनकीर्ते ह्यनागतं चोपगतं च सर्वम्।
त्वमुत्तमः सर्वमिदं चराचरं गभस्तिभिर्भानुरिवावभाससे॥ 1-23-19
समाक्षिपन्भानुमतः प्रभां मुहुस्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम्।
दिवाकरः परिकुपितो यथा दहेत्प्रजास्तथा दहसि हुताशनप्रभ।
भयंकरः प्रलय इवाग्निरुत्थितो विनाशयन्युगपरिवर्तनान्तकृत्॥ 1-23-20
खगेश्वरं शरणमुपागता वयं महौजसं ज्वलनसमानवर्चसम्।
तडित्प्रभं वितिमिरमभ्रगोचरं महाबलं गरुडमुपेत्य खेचरम्॥ 1-23-21
परावरं वरदमजय्यविक्रमं तवौजसा सर्वमिदं प्रतापितम्।
जगत्प्रभो तप्तसुवर्णवर्चसा त्वं पाहि सर्वांश्च सुरान्महात्मनः॥ 1-23-22
भयान्विता नभसि विमानगामिनो विमानिता विपथगतिं प्रयान्ति ते।
ऋषेः सुतस्त्वमसि दयावतः प्रभो महात्मनः खगवर कश्यपस्य ह॥ 1-23-23
स मा क्रुधः कुरु जगतो दयां परां त्वमीश्वरः प्रशममुपैहि पाहि नः।
महाशनिस्फुरितसमस्वनेन ते दिशोऽम्बरं त्रिदिवमियं च मेदिनी॥ 1-23-24
चलन्ति नः खग हृदयानि चानिशं निगृह्यतां वपुरिदमग्निसंनिभम्।
तव द्युतिं कुपितकृतान्तसंनिभां निशम्य नश्चलति मनोऽव्यवस्थितम्।
प्रसीद नः पतगपते प्रयाचतां शिवश्च नो भव भगवन्सुखावहः॥ 1-23-25
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा।
तेजसः प्रतिसंहारमात्मनः स चकार ह॥ 1-23-26
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयोविंशोऽध्यायः॥ 23 ॥
चतुर्विंशोऽध्यायः
आस्तीकपर्व
गरुडेन स्वतेजःप्रतिसंहारः राहुपीडाकुपितस्य सूर्यस्य प्रचण्डतेजःशमनार्थमरुणेन तस्य सारथ्यकरणम्
सौतिरुवाच
स श्रुत्वाथात्मनो देहं सुपर्णः प्रेक्ष्य च स्वयम्।
शरीरप्रतिसंहारमात्मनः सम्प्रचक्रमे॥ 1-24-1
सुपर्ण उवाच
न मे सर्वाणि भूतानि बिभियुर्देहदर्शनात्।
भीमरूपात्समुद्विग्नास्तस्मात्तेजस्तु संहरे॥ 1-24-2
सौतिरुवाच
ततः कामगमः पक्षी कामवीर्यो विहंगमः।
अरुणं चात्मनः पृष्टमारोप्य स पितुर्गृहात्॥ 1-24-3
मातुरन्तिकमागच्छत्परं तीरं महोदधेः।
तत्रारुणश्च निक्षिप्तो दिशं पूर्वां महाद्युतिः॥ 1-24-4
सूर्यस्तेजोभिरत्युग्रैर्लोकान्दग्धुमना यदा।
रुरुरुवाच
किमथ भगवान्सूर्यो लोकान्दग्धुमनास्तदा॥ 1-24-5
किमस्यापहृतं देवैर्येनेमं मन्युराविशत्।
प्रमातिरुवाच
चन्द्रार्काभ्यां यदा राहुराख्यातो ह्यमृतं पिवन्॥ 1-24-6
वैरानुबन्धं कृतवांश्चन्द्रादित्यौ तदानघ।
वध्यमाने ग्रहेणाथ आदित्ये मन्युराविशत्॥ 1-24-7
सुरार्थाय समुत्पन्नो रोषो राहोस्तु मां प्रति।
बह्वनर्थकरं पापमेकोऽहं समवाप्नुयाम्॥ 1-24-8
सहाय एव कार्येषु न च कृच्छ्रेषु दृश्यते।
पश्यन्ति ग्रस्यमानं मां सहन्ते वै दिवौकसः॥ 1-24-9
तस्माल्लोकविनाशार्थं ह्यवतिष्ठे न संशयः।
एवं कृतमतिः सूर्यो ह्यस्तमभ्यगमद्गिरिम्॥ 1-24-10
तस्माल्लोकविनाशाय संतापयत भास्करः।
ततो देवानुपागम्य प्रोचुरेवं महर्षयः॥ 1-24-11
अद्यार्धरात्रसमये सर्वलोकभयावहः।
उत्पत्स्यते महान्दाहस्त्रैलोक्यस्य विनाशनः॥ 1-24-12
ततो देवाः सर्पिगणा उपगम्य पितामहम्।
अब्रुवन्किमिवेहाद्य महद्दाहकृतं भयम्॥ 1-24-13
न तावद्दृश्यते सूर्यः क्षयोऽयं प्रतिभाति च।
उदिते भगवन्भानौ कथमेतद्भविष्यति॥ 1-24-14
पितामह उवाच
एष लोकविनाशाय रविरुद्यन्तुमुद्यतः।
दृश्यन्नेव हि लोकान्स भस्मराशीकरिष्यति॥ 1-24-15
तस्य प्रतिविधानं च विहितं पूर्वमेव हि।
कश्यपस्य सुतो धीमानरुणेत्यभिविश्रुतः॥ 1-24-16
महाकायो महातेजाः स स्थास्यति पुरो रवेः।
करिष्यति च सारथ्यं तेजश्चास्य हरिष्यति।
लोकानां स्वस्ति चैवं स्यादृषीणां च दिवौकसाम्॥ 1-24-17
प्रमतिरुवाच
ततः पितामहाज्ञातः सर्वं चक्रे तदारुणः।
उदितश्चैव सविता ह्यरुणेन समावृतः।
एतत्ते सर्वमाख्यातं यत्सूर्यं मन्युराविशत्॥ 1-24-18
अरुणश्च यथैवास्य सारथ्यमकरोत्प्रभुः।
भूय एवापरं प्रश्नं शृणु पूर्वमुदाहृतम्॥ 1-24-19
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुर्विंशोऽध्यायः॥ 24 ॥
पञ्चविंशोऽध्यायः
आस्तीकपर्व
सूर्यतापमूर्छितानां सर्पाणां रक्षायै कद्रूकृतशक्रस्तवः
सौतिरुवाच
ततः कामगमः पक्षी महावीर्यो महाबलः।
@अरुणं चात्मनः पृष्ठमुपारोप्य पितुर्गृहात्।@
मातुरन्तिकमागच्छत्परं पारं महोदधेः॥ 1-25-1
यत्र सा विनता तस्मिन्पणितेन पराजिता।
अतीव दुखसंतप्ता दासीभावमुपागता॥ 1-25-2
ततः कदाचिद्विनतां प्रणतां पुत्रसंनिधौ।
काले चाहूय वचनं कद्रूरिदमभाषत॥ 1-25-3
नागानामालयं भद्रे सुरम्यं चारुदर्शनम्।
समुद्रकुक्षावेकान्ते तत्र मां विनते नय॥ 1-25-4
ततः सुपर्णमाता तामवहत्सर्पमातरम्।
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः॥ 1-25-5
स सूर्यमभितो याति वैनतेयो विहंगमः।
सूर्यरश्मिप्रतप्ताश्च मूर्छिताः पन्नगाभवन्॥ 1-25-6
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्।
नमस्ते सर्वदेवेश नमस्ते बलसूदन॥ 1-25-7
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते।
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव॥ 1-25-8
त्वमेव परमं त्राणमस्माकममरोत्तम।
ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरन्दर॥ 1-25-9
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे।
त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्॥ 1-25-10
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः।
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥ 1-25-11
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः।
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥ 1-25-12
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्।
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः॥ 1-25-13
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः।
शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा।
संवत्सरर्तवो मासा रजन्यश्च दिनानि च॥ 1-25-14
त्वमुत्तमा सगिरिवना वसुन्धरा सभास्करं वितिमिरमम्बरं तथा।
महोदधिः सतिमितिमिंगिलस्तथा महोर्मिमान्बहुमकरो झषाकुलः॥ 1-25-15
महायशास्त्वमिति सदाभिपूज्यसे मनीषिभिर्मुदितमना महर्षिभिः।
अभिष्टुतः पिबसि च सोममध्वरे वषट्कृतान्यपि च हवींषि भूतये॥ 1-25-16
त्वं विप्रैः सततमिहेज्यसे फलार्थं वेदाङ्गेष्वतुलबलौघ गीयसे च।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः॥ 1-25-17
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे पञ्चविंशोऽध्यायः ॥ 25 ॥
षड्विंशोऽध्यायः
आस्तीकपर्व
इन्द्रकृतजलवर्षणेन सर्पाणां प्रहर्षः
सौतिरुवाच
एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः।
नीलजीमूतसंघातैः सर्वमम्बरमावृणोत्॥ 1-26-1
मेघानाज्ञापयामास वर्षध्वममृतं शुभम्।
ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः॥ 1-26-2
परस्परमिवात्यर्थं गर्जन्तः सततं दिवि।
संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः॥ 1-26-3
सृजद्भिरतुलं तोयमजस्रं सुमहारवैः।
सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः॥ 1-26-4
मेघस्तनितनिर्घोषैर्विद्युत्पवनकम्पितैः।
तैर्मेघैः सततासारं वर्षद्भिरनिशं तदा॥ 1-26-5
नष्टचन्द्रार्ककिरणमम्बरं समपद्यत।
नागानामुत्तमो हर्षस्तथा वर्षति वासवे॥ 1-26-6
आपूर्यत मही चापि सलिलेन समन्ततः।
रसातलमनुप्राप्तं शीतलं विमलं जलम्॥ 1-26-7
तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः।
रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः॥ 1-26-8
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे षड्विंशोऽध्यायः॥ 26 ॥
सप्तविंशोऽध्याय
आस्तीकपर्व
रामणीयकद्वीपस्थकाननसौन्दर्यवर्णनं गरुडस्य सर्पान्प्रति तद्दास्यभावतो विमोक्षणोपायस्य जिज्ञासा च
सौतिरुवाच
सम्प्रहृष्टास्ततो नागा जलधाराप्लुतास्तदा।
सुपर्णेनोह्यमानास्ते जग्मुस्तं द्वीपमाशु वै॥ 1-27-1
तं द्वीपं मकरावासं विहितं विश्वकर्मणा।
तत्र ते लवणं घोरं ददृशुः पूर्वमागताः॥ 1-27-2
सुपर्णसहिताः सर्पाः काननं च मनोरमम्।
सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम्॥ 1-27-3
विचित्रफलपुष्पाभिर्वनराजिभिरावृतम्।
भवनैरावृतं रम्यैस्तथा पद्माकरैरपि॥ 1-27-4
प्रसन्नसलिलैश्चापि ह्रदैर्दिव्यैर्विभूषितम्।
दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम्॥ 1-27-5
उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि।
शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धतैः॥ 1-27-6
वायुविक्षिप्तकुसुमैस्तथान्यैरपि पादपैः।
किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः॥ 1-27-7
मनःसंहर्षजं दिव्यं गन्धर्वाप्सरसां प्रियम्।
मत्तभ्रमरसंघुष्टं मनोज्ञाकृतिदर्शनम्॥ 1-27-8
रमणीयं शिवं पुण्यं सर्वैर्जनमनोहरैः।
नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम्॥ 1-27-9
तत्ते वनं समासाद्य विजह्रुः पन्नगास्तदा।
अब्रुवंश्च महावीर्यं सुपर्णं पतगेश्वरम्॥ 1-27-10
वहास्मानपरं द्वीपं सुरम्यं विमलोदकम्।
त्वं हि देशान्बहून्रम्यान्व्रजन्पश्यसि खेचर॥ 1-27-11
स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा।
किं कारणं मया मातः कर्तव्यं सर्पभाषितम्॥ 1-27-12
विनतोवाच
दासीभूतास्मि दुर्योगात्सपत्न्याः पतगोत्तम।
पणं वितथमास्थाय सर्पैरुपधिना कृतम्॥ 1-27-13
तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः।
उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः॥ 1-27-14
किमाहृत्य विदित्वा वा किं कृत्वेह पौरुषम्।
दास्याद्वो विप्रमुच्येयं तथ्यं वदत लेलिहाः॥ 1-27-15
सौतिरुवाच
श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा।
ततो दास्याद्विप्रमोक्षो भवति तव खेचर॥ 1-27-16
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे सप्तविंशोऽध्यायः॥ 27 ॥
अष्टाविंशोऽध्यायः
आस्तीकपर्व
अमृतमानेतुं गमिष्यतो गरुडस्य मातुराज्ञया निषादभक्षणम्
सौतिरुवाच
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्।
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्॥ 1-28-1
विनतोवाच
समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्।
निषादानां सहस्राणि तान्भुक्त्वामृतमानय॥ 1-28-2
न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन।
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः॥ 1-28-3
अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः।
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः॥ 1-28-4
एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः।
स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा॥ 1-28-5
ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन।
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ॥ 1-28-6
यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः।
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्।
भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः॥ 1-28-7
गरुड उवाच
किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः।
किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः॥ 1-28-8
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः।
तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि॥ 1-28-9
विनतोवाच
यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा।
दहेदङ्गारवत्पुत्रं तं विद्या ब्राह्मणर्षभम्॥ 1-28-10
विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा।
प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः॥ 1-28-11
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्।
पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः॥ 1-28-12
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा।
प्रीता परमदुःखार्ता नागैर्विप्रकृता सती॥ 1-28-13
विनतोवाच
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः।
शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्॥ 1-28-14
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा।
इहासीना भविष्यामि स्वस्तिकारे रता सदा।
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये॥ 1-28-15
सौतिरुवाच
ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात।
ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः॥ 1-28-17
स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत्।
समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन्॥ 1-28-18
ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्।
ततो निषादास्त्वरिताः प्रवव्रजुः यतो मुखं तस्य भुजङ्गभोजिनः॥ 1-28-19
तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः।
सहस्रशः पवनरजोविमोहिता यथानिलप्रचलितपादपे वने॥ 1-28-20
ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः।
निषूदयन्बहुविधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरस्तदा॥ 1-28-21
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे अष्टाविंशोऽध्यायः॥ 28 ॥
एकोनत्रिंशोऽध्यायः
आस्तीकपर्व
कश्यपस्य गरुडं प्रति गजकच्छपयोः पूर्वजन्मवृत्तान्तवर्णनं गरुडस्य तावुभौ गृहीत्वा दिव्यवटवृक्षशाखायामानयनं तच्छाखाया भङ्गश्च
सौतिरुवाच
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया।
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः॥ 1-29-1
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्।
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा॥ 1-29-2
ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत।
निषादी मम भार्येयं निर्गच्छतु मया सह॥ 1-29-3
गरुड उवाच
एतामपि निषादीं त्वं परिगृह्याशु निष्पत।
तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा॥ 1-29-4
सौतिरुवाच
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा।
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह॥ 1-29-5
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे च पक्षिराट्।
वितत्य पक्षावाकाशमुत्पपात मनोजवः॥ 1-29-6
ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः।
यथान्यायममेयात्मा तं चोवाच महानृषिः॥ 1-29-7
कश्यप उवाच
कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत।
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु॥ 1-29-8
गरुड उवाच
माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्।
न हि मे कुशलं तात भोजने बहुले सदा॥ 1-29-9
अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम्।
मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै॥ 1-29-10
मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह।
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः॥ 1-29-11
तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे।
यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो।
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्॥ 1-29-12
कश्यप उवाच
इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्।
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः।
तयोर्जन्मान्तरे वैरं सम्प्रवक्ष्याम्यशेषतः॥ 1-29-13
तन्मे तत्त्वं निबोधस्व यत्प्रमाणौ च तावुभौ।
आसीद्विभावसुः नाम महर्षिः कोपनो भृशम्॥ 1-29-14
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः।
स नेच्छति धनं भ्राता सहैकस्थं महामुनिः॥ 1-29-15
विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः।
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः॥ 1-29-16
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः।
ततो विभक्तास्त्वन्योन्यं विक्रुध्यन्तेऽर्थमोहिताः॥ 1-29-17
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः।
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः॥ 1-29-18
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ।
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते॥ 1-29-19
तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः।
@एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम्।
एवं निर्बध्यमानस्तु शशापैनं विभावसुः।@
गुरुशास्त्रे निबद्धानामन्योन्येनाभिशङ्किनाम्॥ 1-29-20
नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि।
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि॥ 1-29-21
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्।
त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि॥ 1-29-22
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू।
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ॥ 1-29-23
रोषदोषानुषङ्गेण तिर्यग्योनिगतावुभौ।
परस्परद्वेषरतौ प्रमाणबलदर्पितौ॥ 1-29-24
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ।
तयोरन्यतरः श्रीमान्समुपैति महागजः॥ 1-29-25
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः।
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः॥ 1-29-26
यं दृष्ट्वा वेष्टितकरः पतत्येष गजो जलम्।
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्॥ 1-29-27
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्।
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्॥ 1-29-28
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः।
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः॥ 1-29-29
तावुभौ युद्धसम्मत्तौ परस्परवधैषिणौ।
उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः॥ 1-29-30
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय।
महागिरिसमप्रख्यं घोररूपं च हस्तिनम्॥ 1-29-31
सौतिरुवाच
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा।
युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्॥ 1-29-32
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किञ्चिदुत्तमम्।
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डज॥ 1-29-33
युध्यमानस्य संग्रामे देवैः सार्धं महाबल।
ऋचो यजूंषि सामानि पवित्राणि हवींषि च॥ 1-29-34
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम्।
इत्युक्तो गरुडः पित्रा गतस्तं ह्रदमन्तिकात्॥ 1-29-35
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्।
स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः॥ 1-29-36
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्।
समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः॥ 1-29-37
सः अलम्बं तीर्थमासाद्य देववृक्षानुपागमत्।
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः॥ 1-29-38
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः।
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्॥ 1-29-39
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः।
काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः॥ 1-29-40
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्।
तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः।
अतिप्रवृद्धः सुमहानापतन्तं मनोजवम्॥ 1-29-41
रौहिण उवाच
यैषा मम महाशाखा शतयोजनमायता।
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ॥ 1-29-42
ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन्।
खगोत्तमो द्रुतमभिपत्य वेगवान्बभञ्ज तामविरलपत्रसंचयाम्॥ 1-29-43
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकोनत्रिंशोऽध्यायः॥ 29 ॥
त्रिंशोऽध्यायः
आस्तीकपर्व
गजकच्छपवृक्षशाखासहितस्य गरुडस्य कश्यपसन्निधौ गमनं कश्यपस्य प्रार्थनया तां शाखां परित्यज्य वालखिल्यानां तपसे प्रस्थानं गरुडस्य निर्जनपर्वतमूर्धनि शाखायाः परित्यागश्च
सौतिरुवाच
स्पृष्टमात्रा तु पद्म्यां सा गरुडेन बलीयसा।
अभज्यत तरोः शाखा भग्नां चैनामधारयत्॥ 1-30-1
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्।
अथात्र लम्बतोऽपश्यद्वालखिल्यान् अधोमुखान्॥ 1-30-2
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्।
तपोरतान्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥ 1-30-3
हन्यादेतान्सम्पतन्ती शाखेत्यथ विचिन्त्य सः।
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ॥ 1-30-4
स तद्विनाशसंत्रासादभिपत्य खगाधिपः।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥ 1-30-5
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः।
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥ 1-30-6
गुरुं भारं समासाद्योड्डीन एष विहंगमः।
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥ 1-30-7
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्।
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥ 1-30-8
दयार्थं वालखिल्यानां न च स्थानमविन्दत।
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥ 1-30-9
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्।
ददर्श तं पिता चापि दिव्यरूपं विहंगमम्॥ 1-30-10
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्।
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥ 1-30-11
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्।
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥ 1-30-12
अप्रधृष्यमजेयं च देवदानवराक्षसैः।
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥ 1-30-13
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्।
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा।
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत्॥ 1-30-14
कश्यप उवाच
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्।
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥ 1-30-15
सौतिरूवाच
ततः प्रसादयामास कश्यपः पुत्रकारणात्।
वालखिल्यान्महाभागांस्तपसा हतकल्मषान्॥ 1-30-16
कश्यप उवाच
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥ 1-30-17
सौतिरुवाच
एवमुक्ता भगवता मुनयस्ते समभ्ययुः।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोऽर्थिनः।
ततस्तेष्वपयातेषु पितरं विनतासुतः॥ 1-30-18
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्।
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्॥ 1-30-19
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम।
ततो निष्पु[निःपुं]रुषं शैलं हिमसंरुद्धकन्दरम्॥ 1-30-20
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः।
तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः॥ 1-30-21
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः।
न तां वध्री परिणहेच्छतचर्मा महातनुम्॥ 1-30-22
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः।
स ततः शतसाहस्रं योजनान्तरमागतः॥ 1-30-23
कालेन नातिमहता गरुडः पतगेश्वरः।
स तु [तं] गत्वा क्षणेनैव पर्वतं वचनात्पितुः॥ 1-30-24
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः।
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्॥ 1-30-25
मुमोच पुष्पवर्षं च समागलितपादपः।
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः॥ 1-30-26
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्।
शाखिनो बहवश्चापि शाखयाभिहतास्तया॥ 1-30-27
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः।
ते हेमविकचा भूमौ युताः पर्वतधातुभिः॥ 1-30-28
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः।
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः॥ 1-30-29
भक्षयामास गरुडस्तावुभौ गजकच्छपौ।
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ॥ 1-30-30
ततः कपर्वतकूटाग्रादुत्पपात महाजवः।
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः॥ 1-30-31
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः।
सधूमान्यपतत्सार्चिर्दिवोल्का नभसश्च्युता॥ 1-30-32
तथा वसूनां रुद्राणामादित्यानां च सर्वशः।
साध्यानां मरुतां चैव ये चान्ये देवतागणाः॥ 1-30-33
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्।
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च॥ 1-30-34
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः।
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्॥ 1-30-35
देवानामपि यो देवः सोऽप्यवर्षत शोणितम्।
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि॥ 1-30-36
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु।
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्॥ 1-30-37
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः।
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥ 1-30-38
इन्द्र उवाच
किमर्थं भगवन्घोरा उत्पाताः सहसा स्थिताः [सहसोत्थिताः]।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्॥ 1-30-39
बृहस्पतिरुवाच
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो।
तपसा वालखिल्यानां महर्षीणां महात्मनाम्॥ 1-30-40
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः।
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृत्॥ 1-30-41
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः।
सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत्॥ 1-30-42
सौतिरुवाच
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः॥ 1-30-43
युष्मान्सम्बोधयाम्येष यथा न स हरेद्बलात्।
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥ 1-30-44
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः।
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः प्रतापवान्॥ 1-30-45
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः।
कवचानि महार्हाणि वैडू[दू]र्यविकृतानि च॥ 1-30-46
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च।
विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥ 1-30-47
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमाः।
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥ 1-30-48
चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान्।
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्॥ 1-30-49
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः।
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः।
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥ 1-30-50
अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य।
असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः॥ 1-30-51
इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्।
विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे॥ 1-30-52
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रिंशोऽध्यायः॥ 30 ॥
एकत्रिंशोऽध्यायः
आस्तीकपर्व
इन्द्रकर्तृकं वालखिल्यानामपमानं तेषां तपसः प्रभावेणारुणगरुडयोरुत्पत्तिश्च
शौनक उवाच
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज।
तपसा वालखिल्यानां सम्भूतो गरुडः कथम्॥ 1-31-1
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः।
अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम्॥ 1-31-2
कथं च कामचारी स कामवीर्यश्च खेचरः।
एतदिच्छाम्यहं श्रोतुं पुराणो[णे] यदि पठ्यते॥ 1-31-3
सौतिरुवाच
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि।
शृणु मे वदतः सर्वमेतत्संक्षेपतो द्विज॥ 1-31-4
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः।
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल॥ 1-31-5
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह।
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः॥ 1-31-6
शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम्।
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः॥ 1-31-7
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष[र्ष्म]णः।
पलाशवृत्ति[वर्ति]कामेकां वहतः संहतान्पथि॥ 1-31-8
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्।
क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके॥ 1-31-9
तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः।
अप[व]हस्याभ्यगाच्छीघ्रं लङ्घयित्वावमन्य च॥ 1-31-10
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः।
आरेभिरे महत्कर्म तदा शक्रभयंकरम्॥ 1-31-11
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्।
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु॥ 1-31-12
कामवीर्यः कामगमो देवराजभयप्रदः।
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः॥ 1-31-13
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः।
तपसां[सो] नः फलेनाद्य दारुणः सम्भवत्विति॥ 1-31-14
तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः।
जगाम शरणं तत्र कश्यपं संशितव्रतम्॥ 1-31-15
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः।
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत॥ 1-31-16
एवमस्त्विति तच्चापि [तं चापि] प्रत्यूचुः सत्यवादिनः।
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः॥ 1-31-17
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः।
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः॥ 1-31-18
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः।
भवतां हि न मिथ्यायं संकल्पो वै चिकीर्षितः॥ 1-31-19
भवत्वेष पतदत्त्रीणामिन्द्रोऽतिबलसत्त्ववान्।
प्रसादः क्रियतामस्य देवराजस्य याचतः॥ 1-31-20
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः।
प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम्॥ 1-31-21
वालखिल्या ऊचुः
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः॥ 1-31-22
तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम्।
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि॥ 1-31-23
सौतिरुवाच
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा।
विनता नाम कल्याणी पुत्रकामा यशस्विनी॥ 1-31-24
तपस्तप्ता[प्त्वा] व्रतपरा स्नाता पुंसवने शुचिः।
उपचक्राम भर्तारं तामुवाचाथ कश्यपः॥ 1-31-25
आरम्भः सफलो देवि भविता यस्त्वयेप्सितः।
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ॥ 1-31-26
तपसा वालखिल्यानां मम संकल्पजौ तथा।
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ॥ 1-31-27
उवाच चैनां भगवान्कश्यपः पुनरेव ह।
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः॥ 1-31-28
एतौ सर्वपतत्त्रीणामिन्द्रत्वं कारयिष्यतः।
लोकसम्भावितौ वीरौ कामरूपौ विहंगमौ॥ 1-31-29
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः।
त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः॥ 1-31-30
नैताभ्यां भविता दोषः सकाशात्ते पुरन्दर।
व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि॥ 1-31-31
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः।
न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः॥ 1-31-32
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्।
विनता चापि सिद्धार्था बभूव मुदिता तथा॥ 1-31-33
जनयामास पुत्रौ द्वावरुणं गरुडं तथा।
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः॥ 1-31-34
पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत।
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन॥ 1-31-35
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकत्रिंशोऽध्यायः॥ 31 ॥
द्वात्रिंशोऽध्यायः
आस्तीकपर्व
गरुडस्य देवैः सह युद्धं देवानां पराजयश्च
सौतिरुवाच
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे।
गरुडः पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति॥ 1-32-1
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः।
परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत॥ 1-32-2
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः।
भौमनः सुमहावीर्यः सोमस्य परिरक्षिता॥ 1-32-3
स तेन पतगेन्द्रेण पक्षतुण्डनखक्षतः।
मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि॥ 1-32-4
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः।
कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्॥ 1-32-5
तेनावकीर्णा रजसा देवा मोहमुपागमन्।
न चैवं ददृशुश्छन्ना रजसामृतरक्षिणः॥ 1-32-6
एवं संलोडयामास गरुडस्त्रिदिवालयम्।
पक्षतुण्डप्रहारैस्तु देवान्स विददार ह॥ 1-32-7
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्।
विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत॥ 1-32-8
अथ वायुरपोवाह तद्रजस्तरसा बली।
ततो वितिमिरे जाते देवाः शकुनिमार्दयन्॥ 1-32-9
ननादोच्चैः स बलवान्महामेघ इवाम्बरे।
वध्यमानः सुरगणैः सर्वभूतानि भीषयन्॥ 1-32-10
उत्पपात महावीर्यः पक्षिराट्परवीरहा।
समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्॥ 1-32-11
न[व]र्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्।
पट्टनैः[ट्टिशैः] परिघैः शूलैर्गदाभिश्च सवासवाः॥ 1-32-12
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः।
नानाशस्त्रविसर्गैस्तैर्ब[र्व]ध्यमानः समन्ततः॥ 1-32-13
कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत।
निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्॥ 1-32-14
पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान्।
ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः॥ 1-32-15
नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु।
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्॥ 1-32-16
प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः।
दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्॥ 1-32-17
मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसः।
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्॥ 1-32-18
क्रथनेन च शूरेण तपनेन च खेचरः।
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्॥ 1-32-19
@क्रथनेन च शूरेण पतनेन च खेचरः@
प्ररुजेन च संग्रामं चकार पुलिनेन च।
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः॥ 1-32-20
युगान्तकाले संक्रुद्धः पिनाकीव परन्तपः।
महाबला महोत्साहास्तेन ते बहुधा क्षताः॥ 1-32-21
रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः।
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्॥ 1-32-22
अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत।
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरे[रम्]।
दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्॥ 1-32-23
ततो नवत्या नवतीर्मुखानां कृत्वा महात्मा गरुडस्तपस्वी।
नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन॥ 1-32-24
ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः।
ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य॥ 1-32-25
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे द्वात्रिंशोऽध्यायः॥ 32 ॥
त्रयस्त्रिंशोऽध्यायः
आस्तीकपर्व
स्वर्गादमृतमादाय गरुडस्य प्रत्यागमनं पथि विष्णोर्वरप्राप्तिर्गरुडोपरि देवेन्द्रकर्तृको वज्रप्रहारश्च
सौतिरुवाच
जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः।
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्॥ 1-33-1
सचक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्॥ 1-33-2
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्॥ 1-33-3
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः।
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह॥ 1-33-4
अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती।
विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ॥ 1-33-5
चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ।
रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ॥ 1-33-6
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ।
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्॥ 1-33-7
तयोश्चक्षूंषि रजसा सुपर्णः सहसावृणोत्।
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्॥ 1-33-8
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः।
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः॥ 1-33-9
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्॥ 1-33-10
अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः।
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः॥ 1-33-11
विष्णुना च तदाकाशे वैनतेयः समेयिवान्।
तस्य नाराणस्तुष्टस्तेनालौल्येन कर्मणा॥ 1-33-12
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः॥ 1-33-13
उवाच चैनं भूयोऽपि नारायणमिदं वचः।
अजरश्चामरश्च स्याममृतेन विनाप्यहम्॥ 1-33-14
एवमस्त्विति तं विष्णुरुवाच विनतासुतम्।
प्रतिगृह्य वरौ तो च गरुडो विष्णुमब्रवीत्॥ 1-33-15
भवतेऽपि वरं दद्यां वृणोतु भगवानपि।
तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम्॥ 1-33-16
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्।
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः॥ 1-33-17
वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः।
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्॥ 1-33-18
हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्।
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः॥ 1-33-19
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः।
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम्॥ 1-33-20
वज्रस्य च करिष्यामि तवैव च शतक्रतो।
एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे॥ 1-33-21
न च वज्रनिपातेन रुजा मेऽस्तीह काचन।
एवमुक्त्वा ततः पत्रमुत्ससर्ज स पक्षिराट्॥ 1-33-22
तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम्।
हृष्टानि सर्वभूतानि नाम चक्रुर्गरुत्मतः॥ 1-33-23
सुरूपं पत्रमालक्ष्य सुपर्णः अयं भवत्विति।
तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरन्दरः।
खगो महदिदं भूतमिति मत्वाभ्यभाषत॥ 1-33-24
शक्र उवाच
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्।
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम॥ 1-33-25
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयस्त्रिंशोऽध्यायः॥ 33 ॥
चतुस्त्रिंशोऽध्यायः
आस्तीकपर्व
इन्द्रगरुडयोर्मैत्री गरुडस्यामृतमादाय नागानां सन्निधावागमनं विनताया दासीभावान्मोक्षणमिन्द्रकर्तृकममृतस्यापहरणं च
गरुड उवाच
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर।
बलं तु मम जानीहि महच्चासह्यमेव च॥ 1-34-1
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्।
गुणसंकीर्तनं चापि स्वयमेव शतक्रतो॥ 1-34-2
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया।
स ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः॥ 1-34-3
सपर्वतवनामुर्वीं ससागरजलामिमाम्।
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्॥ 1-34-4
सर्वान्सम्पिण्डितान्वापि लोकान्सस्था[संस्था]णुजङ्गमान्।
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्॥ 1-34-5
सौतिरुवाच
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः।
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः॥ 1-34-6
एवमेव यथात्थ त्वं सर्वं सम्भाव्यते त्वयि।
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्॥ 1-34-7
न कार्यं यदि सोमेन मम सोमः प्रदीयताम्।
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्॥ 1-34-8
गरुड उवाच
किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया।
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम्॥ 1-34-9
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम्।
त्वमादाय ततस्तूर्णं हरेथास्त्रिदिवेश्वर॥ 1-34-10
शक्र उवाच
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज।
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम॥ 1-34-11
सौतिरुवाच
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन्।
स्मृत्वा चैवोपधिकृतं मातुर्दास्यं[स्य]निमित्ततः॥ 1-34-12
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम्।
भवेयुर्भजगाः शक्र मम भक्ष्या महाबलाः॥ 1-34-13
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः।
देवदेवं महात्मानं योगिनामीश्वरं हरिम्॥ 1-34-14
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै।
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः॥ 1-34-15
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम्।
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिके[कम्]॥ 1-34-16
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत्।
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः॥ 1-34-17
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः।
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा॥ 1-34-18
अदासी चैव मातेयमद्यप्रभृति चास्तु मे।
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्॥ 1-34-19
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत।
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः॥ 1-34-20
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा।
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः॥ 1-34-21
यत्रेतदमृतं चापि स्थापितं कुशसंस्तरे।
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत्॥ 1-34-22
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा।
ततो द्विधाकृता जिह्वाः सर्पाणां तेन कर्मणा॥ 1-34-23
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः।
एवं तदमृतं तेन हृतमाहृतमेव च।
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना॥ 1-34-24
ततः सुपर्णः परमप्रहर्षवान्विहृत्य मात्रा सह तत्र कानने।
भुजङ्गभक्षः परमार्चितः खगैरहीनकीर्तिर्विनतामनन्दयत्॥ 1-34-25
इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि।
असंशयं त्रिदिवमियात्स पुण्यभाक्महात्मनः पतगपतेः प्रकीर्तनात्॥ 1-34-26
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुस्त्रिंशोऽध्यायः॥ 34 ॥
पञ्चत्रिंशोऽध्यायः
आस्तीकपर्व
प्राधान्येन नागानां नामानि
शौनक उवाच
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च।
विनतायास्त्वया प्रोक्त कारणं सूतनन्दन॥ 1-35-1
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा।
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः॥ 1-35-2
पन्नगानां तु नामानि न कीर्तयसि सूतज।
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम्॥ 1-35-3
सौतिरुवाच
बहुत्वान्नामधेयानि पन्नगानां तपोधन।
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु॥ 1-35-4
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्।
ऐरावतस्तक्षकश्च कर्कोटकधनंजयौ॥ 1-35-5
कालियो मणिनागश्च नागश्चः अपूरणस्तथा।
नागस्तथा पिञ्जरक एलापुत्रोऽथ [एलापत्रोऽथ] वामनः॥ 1-35-6
नीलानीलौ तथा नागौ कल्माषशबलौ तथा।
आर्यकश्चोग्रकश्चैव नागः कलशपोतकः॥ 1-35-7
सुरामुखो [सुमनाख्यो] दधिमुखस्तथा विमलपिण्डकः।
@सुमुखो दुर्मुखश्चैव विमुखोऽसिमुखस्तथा।@
आप्तः क[र्को]रोटकश्चैव शङ्खो वालिशिखस्तथा॥ 1-35-8
निष्टानको हेमगुहो नहुषः पिङ्गिलस्तथा।
बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः॥ 1-35-9
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा।
वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ॥ 1-35-10
नागः शङ्खमुखश्चैव तथा कूष्माण्डकोऽपरः।
क्षेमकश्च तथा नागो नागः पिण्डारकस्तथा॥ 1-35-11
करवीरः पुष्पदंष्ट्रो बिल्वको बिल्वपाण्डुरः।
मूषकादः शङ्खशिराः पूर्णभद्रो हरिद्रकः॥ 1-35-12
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा।
कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्यवान्॥ 1-35-13
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्।
हस्तिपिण्डः पिठरकः सुमुखः कौणपाशनः॥ 1-35-14
कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः।
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा॥ 1-35-15
कर्दमश्च महानागो नागश्च बहुमूलकः।
कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ॥ 1-35-16
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम।
बहुत्वान्नामधेयानामितरे नानुकीर्तिताः॥ 1-35-17
एतेषां प्रसवो यश्च प्रसवस्य च संततिः।
असंङ्ख्या इति [असंख्येयेति] मत्वा तान्न ब्रवीमि तपोधन॥ 1-35-18
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च।
अशक्यान्येव संख्यातुं पन्नगानां तपोधन॥ 1-35-19
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पनामकथने पञ्चत्रिंशोऽध्यायः॥ 35 ॥
षट्त्रिंशोऽध्यायः
आस्तीकपर्व
शेषनागस्य तपस्या ब्रह्मणस्तस्य वरप्राप्तिः तत्कर्तृकं पृथिव्याः शिरसि धारणं च
शौनक उवाच
आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः।
शापं तं तेऽभिविज्ञाय कृतवन्तः किमुत्तरम्॥ 1-36-1
सूत उवाच [सौतिरुवाच]
तेषां तु भगवाञ्च्छेषः कद्रूं त्यक्त्वा महायशाः।
उग्रं तपः समातस्थे वायुभक्षो यतव्रतः॥ 1-36-2
गन्धमादनमासाद्य बदर्यां च तपोरतः।
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे॥ 1-36-3
तेषु तेषु च पुण्येषु तीर्थष्वायतनेषु च।
एकान्तशीलो नियतः सततं विजितेन्द्रियः॥ 1-36-4
तप्यमानं तपो घोरं तं ददर्श पितामहः।
संशुष्कमांसत्वक्स्नायुं जटाचीरधरं मुनिम्॥ 1-36-5
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः।
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु॥ 1-36-6
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ।
ब्रूहि कामं च मे शेष यस्ते हृदि व्यवस्थितः॥ 1-36-7
शेष उवाच
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः।
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम्॥ 1-36-8
अभ्यसूयन्ति सततं परस्परममित्रवत्।
ततोऽहं तप आतिष्ठं नैतान्पश्येयमित्युत॥ 1-36-9
न मर्षयन्ति ससुतां सततं विनतां च ते।
अस्माकं चापरो भ्राता वैनतेयोऽन्तरिक्षगः॥ 1-36-10
तं च द्विषन्ति सततं स चापि बलवत्तरः।
वरप्रदानात्स पितुः कश्यपस्य महात्मनः॥ 1-36-11
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम्।
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः॥ 1-36-12
तमेवंवादिनं शेषं पितामह उवाच ह।
जानामि शेष सर्वेषां भ्रातॄणां ते विचेष्टितम्॥ 1-36-13
मातुश्चाप्यपराधाद्वै भ्रातॄणां ते महद्भयम्।
कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम॥ 1-36-14
भ्रातॄणां तव सर्वेषां न शोकं कर्तुमर्हसि।
@शापादस्मान्महाघोरादुक्तान्मात्रा महाबल।@
वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम्॥ 1-36-15
दास्यामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि।
दिष्ट्या बुद्धिश्च ते धर्मे निविष्टा पन्नगोत्तम।
भूयो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा॥ 1-36-16
शेष उवाच
एष एव वरो देव काङ्क्षितो मे पितामह।
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर॥ 1-36-17
ब्रह्मोवाच
प्रीतोऽस्म्यनेन ते शेष दमेन प्रश्रयोण च [च शमेन च]।
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम्॥ 1-36-18
इमां महीं शैलवनोपपन्नां ससागरग्रामविहारपत्तनाम्।
त्वं शेष सम्यक्चलितां यथावत्संगृह्य तिष्ठस्व यथाचला स्यात्॥ 1-36-19
शेष उवाच
यथाह देवो वरदः प्रजापतिर्महीपतिर्भूतपतिर्जगत्पतिः।
तथा महीं धारयितास्मि निश्चलां प्रयच्छतां मे शिरसि प्रजापते॥ 1-36-20
ब्रह्मोवाच
अधो महीं गच्छ भुजङ्गमोत्तम स्वयं तवैषा विवरं प्रदास्यति।
इमां धरां धारयता त्वया हि मे महत्प्रियं शेष कृतं भविष्यति॥ 1-36-21
सौतिरुवाच
तथैव कृत्वा विवरं प्रविश्य स प्रभुर्भुवो भुजगवराग्रजः स्थितः।
बिभर्ति देवीं शिरसा महीमिमां समुद्रनेमिं परिगृह्य सर्वतः॥ 1-36-22
ब्रह्मोवाच
शेषोऽसि नागोत्तम धर्मदेवो महीमिमां धारयसे यदेकः।
अनन्तभोगैः परिगृह्य सर्वां यथाहमेवं बलभिद्यथा वा॥ 1-36-23
सौतिरुवाच
अधोभूमौ वसत्येवं नागोऽनन्तः प्रतापवान्।
धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः॥ 1-36-24
सुपर्णं च सहायं वै भगवानमरोत्तमः।
प्रादादनन्ताय तदा वैनतेयं पितामहः॥ 1-36-25
(अनन्ते च प्रयाते तु वासुकिः सुमहाबलः।
अभ्यषिच्यत नागैस्तु दैवतैरिव वासवः॥)
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि शेषवृत्तकथने षट्त्रिंशोऽध्यायः॥ 36 ॥
सप्तत्रिंशोऽध्यायः
आस्तीकपर्व
मातुः शापात्परित्राणाय नागानां परस्परमन्त्रणा
सौतिरुवाच
मातुः सकाशात्तं शापं श्रुत्वा वै पन्नगोत्तमः।
वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम्॥ 1-37-1
ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः।
ऐरावतप्रभृतिभिः सर्वधर्मपरायणैः॥ 1-37-2
वासुकिरुवाच
अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः।
तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे॥ 1-37-3
सर्वेषामेव शापानां प्रतिघातो हि विद्यते।
न तु मात्राभिशप्तानां मोक्षः क्वचन विद्यते॥ 1-37-4
अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः।
शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः॥ 1-37-5
नूनं सर्वविनाशोऽयमस्माकं समुपागतः।
न ह्येतां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत्॥ 1-37-6
तस्मात्सम्मन्त्रयामोऽद्य भुजङ्गानामनामयम्।
यथा भवेद्धि सर्वेषां मा नः कालोऽत्यगादयम्॥ 1-37-7
सर्व एव हि नस्तावद्बुद्धिमन्तो विचक्षणाः।
अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे॥ 1-37-8
यथा नष्टं पुरा देवा गूढमग्निं गुहागतम्।
यथा स यज्ञो न भवेद्यथा वापि पराभवः॥ 1-37-9
जनमेजयस्य सर्पाणां विनाशकरणाय वै।
सौतिरुवाच
तथेत्युक्त्वा ततः सर्वे काद्रवेयाः समागताः॥ 1-37-10
समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः।
एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः॥ 1-37-11
जनमेजयं तु भिक्षामो यज्ञस्ते न भवेदिति।
अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः॥ 1-37-12
मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसम्मताः।
स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम्॥ 1-37-13
तत्र बुद्धिं प्रदास्यामो यथा यज्ञो निवर्त्स्यति।
स नो बहुमतान्राजा बुद्ध्या बुद्धिमतां वरः॥ 1-37-14
यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम्।
दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान्॥ 1-37-15
हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः।
अथवा य उपाध्यायः क्रतोस्तस्य भविष्यति॥ 1-37-16
सर्पसत्रविधानज्ञो राजकार्यहिते रतः।
तं गत्वा दशतां कश्चिद्भुजङ्गः स मरिष्यति॥ 1-37-17
तस्मिन्मृते यज्ञकारे क्रतुः स न भविष्यति।
ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य चर्त्विजः॥ 1-37-18
तांश्च सर्वान्दाशिष्यामः कृतमेवं भविष्यति।
अपरे त्वब्रुवन्नागा धर्मात्मानो दयालवः॥ 1-37-19
अबुद्धिरेषा भवतां ब्रह्महत्या न शोभनम्।
सम्यक्सद्धर्ममूला वै व्यसने शान्तिरुत्तमा॥ 1-37-20
अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत्।
अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम्॥ 1-37-21
वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः।
स्रुग्भाण्डं निशि गत्वा च ह्य[अ]परेभुजगोत्तमाः॥ 1-37-22
प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति।
यज्ञे वा भुजगास्तस्मिञ्छतशोऽथ सहस्रशः॥ 1-37-23
जनान्दशन्तु वै सर्वानेवं [सर्वे नैवं] त्रासो भविष्यति।
अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमः॥ 1-37-24
स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना।
अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे॥ 1-37-25
यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति।
वश्यतां च गतोऽसौ नः करिष्यति यथेप्सितम्॥ 1-37-26
अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम्।
गृहमानीय बध्नीमः क्रतुरेव भवेन्न सः॥ 1-37-27
अपरे त्वब्रुवंस्तत्र नागाः पण्डितमानिनः।
दशामस्तं प्रगृह्याशु कृतमेवं भविष्यति॥ 1-37-28
छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति।
एषा नो नैष्ठिकी बुद्धिः सर्वेषामीक्षणश्रवः॥ 1-37-29
अथ यन्मन्यसे राजन्द्रुतं तत्संविधीयताम्।
इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगोत्तमम्॥ 1-37-30
वासुकिश्चापि संचिन्त्य तानुवाच भुजङ्गमान्।
नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः॥ 1-37-31
सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते।
किं तत्र संविधातव्यं भवतां स्याद्धितं तु यत्॥ 1-37-32
श्रेयःप्रसाधनं मन्ये कश्यपस्य महात्मनः।
ज्ञातिवर्गस्य सौहार्दादात्मनश्च भुजङ्गमाः॥ 1-37-33
न च जानाति मे बुद्धिः किञ्चित्कर्तुं वचो हि वः।
मया हीदं विधातव्यं भवतां यद्धितं भवेत्।
अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ॥ 1-37-34
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुक्यादिमन्त्रणे सप्तत्रिंशोऽध्यायः॥ 37 ॥
अष्टत्रिंशोऽध्यायः
आस्तीकपर्व
एलापत्रमुखेन ब्रह्मणो वचनमाकर्ण्य जरत्कारुणा सह जरत्कारोर्विवाहार्थं नागानां निश्चयः
सौतिरुवाच
सर्पाणां तु वचः श्रुत्वा सर्वेषामिति चेति च।
वासुकेश्च वचः श्रुत्वा एलापुत्रो [एलापत्रो]ऽब्रवीदिदम्॥ 1-38-1
न स यज्ञो न भविता न स राजा तथाविधः।
जनमेजयः पाण्डवे[यो]षु यतोऽस्माकं महद्भयम्॥ 1-38-2
दे[दै]वेनोपहतो राजन्यो भवेदिह पूरुषः।
स दैवमेवाश्रयते नान्यत्तत्र परायणम्॥ 1-38-3
तदिदं चैवमस्माकं भयं पन्नगसत्तमाः।
दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम॥ 1-38-4
अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा।
मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः॥ 1-38-5
देवानां पन्नगाश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो।
पितामहमुपागम्य दुःखार्तानां महाद्युते॥ 1-38-6
देवा ऊचुः
का हि लब्ध्वा प्रियान्पुत्राञ्छपेदेवं पितामह।
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः॥ 1-38-7
तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह।
एतदिच्छाम विज्ञातुं कारणं यन्न वारिता॥ 1-38-8
ब्रह्मोवाच
बहवः पन्नगास्तीक्ष्णा घोररूपा विषोल्बणाः।
प्रजानां हितकामोऽहं न च वारितवांस्तदा॥ 1-38-9
ये दन्दशूकाः क्षुद्राश्च पापाचारा विषोल्बणाः।
तेषां विनाशो भविता न तु ये धर्मचारिणः॥ 1-38-10
यन्निमित्तं च भविता मोक्षस्तेषां महाभयात्।
पन्नगानां निबोधध्वं तस्मिन्काले समागते॥ 1-38-11
यायावरकुले धीमान्भविष्यति महानृषिः।
जरत्कारुरिति ख्यातस्तपस्वी नियतेन्द्रियः॥ 1-38-12
तस्य पुत्रो जरत्कारोर्भविष्यति तपोधनः।
आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा।
तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः॥ 1-38-13
देवा ऊचुः
स मुनिप्रवरो ब्रह्मञ्जरत्कारुर्महातपाः।
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान्॥ 1-38-14
ब्रह्मोवाच
सनामायां सनामा स कन्यायां द्विजसत्तमः।
अपत्यं वीर्यसम्पन्नं वीर्यवाञ्जनयिष्यति॥ 1-38-15
वासुकेः सर्पराजस्य जरत्कारुः स्वसा किल।
स तस्यां भविता पुत्रः शापान्नागांश्च मोक्ष्यति॥ 1-38-16
एलापुत्र[एलापत्र] उवाच
एवमस्त्विति तं देवाः पितामहमथाब्रुवन्।
उक्त्वैवं वचनं देवान्विरिञ्चिस्त्रिदिवं ययौ।
सोऽहमेवं प्रपश्यामि वासुके भगि[नीं]नी तव॥ 1-38-17
जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय।
भैक्षवद्भिक्षमाणाय नागानां भयशान्तये।
ऋषये सुव्रतायैनामेष मोक्षः श्रुतो मया॥ 1-38-18
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि एलापत्रवाक्ये अष्टत्रिंशोऽध्यायः॥ 38 ॥
एकोनचत्वारिंशोऽध्यायः
आस्तीकपर्व
ब्रह्मणोऽनुज्ञया वासुकेर्जरत्कारुणा सह स्वभगिन्या विवाहार्थमुद्यमः
सौतिरुवाच
एला[प]पुत्रवचः श्रुत्वा ते नागा द्विजसत्तम।
सर्वे प्रहृष्टमनसः साधु साध्वित्यथाब्रुवन्॥ 1-39-1
ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत।
जरत्कारुं स्वसारं वै परं हर्षमवाप च॥ 1-39-2
ततो नातिमहान्कालः समतीत इवाभवत्।
अथ देवासुराः सर्वे ममन्थुर्वरुणालयम्॥ 1-39-3
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः।
समाप्यैव च तत्कर्म पितामहमुपागमन्॥ 1-39-4
देवा वासुकिना सार्धं पितामहमथाब्रुवन्।
भगवञ्छापभीतोऽयं वासुकिस्तप्यते भृशम्॥ 1-39-5
अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि।
जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः॥ 1-39-6
हितो ह्ययं सदास्माकं प्रियकारी च नागराट्।
प्रसादं कुरु देवेश शमयास्य मनोज्वरम्॥ 1-39-7
ब्रह्मोवाच
मयैव तद्वितीर्णं वै वचनं मनसामराः।
एला[प]पुत्रेण नागेन यदस्याभिहितं पुरा॥ 1-39-8
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम्।
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः॥ 1-39-9
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः।
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु॥ 1-39-10
एला[प]पुत्रेण यत्प्रोक्तं वचनं भुजगेन ह।
पन्नगानां हितं देवास्तत्तथा न तदन्यथा॥ 1-39-11
सौतिरुवाच
एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा।
संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः॥ 1-39-12
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति।
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत्॥ 1-39-13
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः।
शीघ्रमेत्य तदाख्येयं तन्नः श्रेयो भविष्यति॥ 1-39-14
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कार्वन्वेषणे एकोनचत्वारिंशोऽध्यायः॥ 39 ॥
चत्वारिंशोऽध्यायः
आस्तीकपर्व
"जरत्कारु" पदनिर्वचनम् परिक्षित उपाख्यानम् राज्ञा मुनेः स्कन्धे मृतसर्पस्य स्थापनाच्चेखिद्यमानेन कृशेन शृङ्गिणो रोषवर्धनम्
शौनक उवाच
जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन।
इच्छामि तदहं श्रोतुं ऋषेस्तस्य महात्मनः॥ 1-40-1
किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि।
जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि॥ 1-40-2
सौतिरुवाच
जरेति क्षयमाहुर्वै दारुणं कारुसंज्ञितम्।
शरीरं कारु तस्यासीत्तत्स धीमाञ्छनैः शनैः॥ 1-40-3
क्षपयामास तीव्रेण तपसेत्यत उच्यते।
जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा॥ 1-40-4
एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा।
उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन्॥ 1-40-5
शौनक उवाच
उक्तं नाम यथापूर्वं सर्वं तच्छ्रुतवानहम्।
यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम्॥ 1-40-6
तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः।
सौतिरुवाच
संदिश्य पन्नगान्सर्वान्वासुकिः सुसमाहितः॥ 1-40-7
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति।
अथ कालस्य महतः स मुनिः संशितव्रतः।
तपस्यभिरतो धीमान्स दारान्नाभ्यकाङ्क्षत॥ 1-40-8
स तूर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयः कृतात्मा।
चचार सर्वां पृथिवीं महात्मा न चापि दारान्मनसाध्यकाङ्क्षत॥ 1-40-9
ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु।
परिक्षिन्नाम राजासीद्ब्रह्मन्कौरववंशजः॥ 1-40-10
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि।
@तथा विख्यातवाँल्लोके परीक्षिदभिमन्युजः।@
बभूव मृगयाशीलः पुरास्य प्रपितामहः॥ 1-40-11
मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा।
अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः॥ 1-40-12
स कदाचिन्मृगं विद्ध्वा बाणेनानतपर्वणा।
पृष्ठतो धनुरादाय ससार गहने वने॥ 1-40-13
यथैव भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि।
अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः॥ 1-40-14
न हि तेन मृगो विद्धो जीवन्गच्छति वै वने।
पूर्वरूपं तु तत्तूर्णं सोऽगात्स्वर्गगतिं प्रति॥ 1-40-15
परिक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान्मृगः।
दूरं चापहृतस्तेन मृगेण स महीपतिः॥ 1-40-16
परिश्रान्तः पिपासार्त आससाद मुनिं वने।
गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम्॥ 1-40-17
भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः।
तमभिद्रुत्य वेगेन स राजा संशितव्रतम्॥ 1-40-18
अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः।
भो भो ब्रह्मन्नहं राजा परीक्षिदभिमन्युजः॥ 1-40-19
मया विद्धो मृगो नष्टः कच्चित्तं दृष्टवानसि।
स मुनिस्तं तु नोवाच किञ्चिन्मौनव्रते स्थितः॥ 1-40-20
तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समा[स]सृजत्।
समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत॥ 1-40-21
न स किञ्चिदुवाचैनं शुभं वा यदि वाशुभम्।
स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम्॥ 1-40-22
दृष्ट्वा जगाम नगरमृषिस्त्वासीत्तथैव सः।
न हि तं राजशार्दूलं क्षमाशीलो महामुनिः॥ 1-40-23
स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्षयत्।
न हि तं राजशार्दूलस्तथा धर्मपरायणम्॥ 1-40-24
जानाति भरतश्रेष्ठस्तत एनमधर्षयत्।
तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः॥ 1-40-25
शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः।
सीदरं [स देवं] परमासीनं सर्वभूतहिते रतम्॥ 1-40-26
ब्रह्माणमुपतस्थे वै काले काले सुसंयतः।
स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान्॥ 1-40-27
सख्योक्तः क्रीडमानेन स तत्र हसता किल।
संरम्भात्कोपनोऽतीव विषकल्पो मुनेः सुतः॥ 1-40-28
उद्दिश्य पितरं तस्य यच्छ्रुत्वा रोषमाहरत्।
ऋषिपुत्रेण न[ध]र्मार्थे कृशेन द्विजसत्तम॥ 1-40-29
कृश उवाच
तेजस्विनस्तव पिता तथैव च तपस्विनः।
शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव॥ 1-40-30
व्याहरत्स्वृषिपुत्रेषु मा स्म कॢञ्चिद्वचो वद।
अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु॥ 1-40-31
क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः।
दर्पजाः पितरं द्र[ष्टा]ष्ट्वा यस्त्वं शवधरं तथा॥ 1-40-32
पित्रा च तव तत्कर्म नानुरूपमिवात्मनः।
कृतं मुनिजनश्रेष्ठ येनाहं भृशदुःखितः॥ 1-40-33
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि परिक्षिदुपाख्याने चत्वारिंशोऽध्यायः॥ 40 ॥
एकचत्वारिंशोऽध्यायः
आस्तीकपर्व
शृङ्गिणः परिक्षिते शापप्रदानम् स्वपुत्रं शमयता शमीकेन शापस्यानौचित्यप्रकाशनम्
सौतिरुवाच
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः।
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना॥ 1-41-1
स तं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन्।
अपृच्छत्तं कथं तातः स मेऽद्य मृतधारकः॥ 1-41-2
कृश उवाच
राज्ञा परिक्षिता तात मृगयां परिधावता।
अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः॥ 1-41-3
शृङ्ग्युवाच
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः।
ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम्॥ 1-41-4
कृश उवाच
स राजा मृगयां यातः प[रि]रीक्षिदभिमन्युजः।
ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम्॥ 1-41-5
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने।
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम्॥ 1-41-6
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः।
पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव॥ 1-41-7
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत।
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समा[स]सृजत्॥ 1-41-8
शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः।
सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम्॥ 1-41-9
सौतिरुवाच
श्रुत्वैवमृषिपुत्रस्तु शवं कन्धे प्रतिष्ठितम्।
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना॥ 1-41-10
आविष्टः स हि कोपेन शशाप नृपतिं तदा।
वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः॥ 1-41-11
शृङ्ग्युवाच
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह।
स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्बिषी॥ 1-41-12
तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः।
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः॥ 1-41-13
सप्तरात्रादितो नेता यमस्य सदनं प्रति।
द्विजानामवमन्तारं कुरूणामयशस्करम्॥ 1-41-14
सौतिरुवाच
इति शप्त्वातिसंक्रुद्धः शृङ्गी पितरमभ्यगात्।
आसीनं गोव्रजे तस्मिन्वहन्तं शवपन्नगम्॥ 1-41-15
स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै।
शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः॥ 1-41-16
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत्।
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना॥ 1-41-17
राज्ञा प[रि]रीक्षिता कोपादशपं तमहं नृपम्।
यथार्हति स एवोग्रं शापं कुरुकुलाधमः॥ 1-41-18
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः।
वैवस्वतस्य सदनं नेता परमदारुणम्।
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम्॥ 1-41-19
शमीक उवाच
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम्।
वयं तस्य नरेन्द्रस्य विषये निवसामहे॥ 1-41-20
न्यायतो रक्षितास्तेन तस्य शापं न रोचये।
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा।
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः॥ 1-41-21
यदि राजा न संरक्षेत्पीडा नः परमा भवेत्।
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम्॥ 1-41-22
रक्ष्यमा[णा व]णं च यं तात राजभिर्धर्मदृष्टिभिः।
चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः॥ 1-41-23
सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि।
प[रि]रीक्षित्तु विशेषेण यथास्य प्रपितामहः॥ 1-41-24
रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो।
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना॥ 1-41-25
अजानता कृतं मन्ये व्रतमेतदिदं मम।
अराजके जनपदे दोषा जायन्ति वै सदा॥ 1-41-26
उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै।
दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा॥ 1-41-27
नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम्।
राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः॥ 1-41-28
राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः।
देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः॥ 1-41-29
ओषधिभ्यो मनुष्याणां धार[यन्]येत्सततं हितम्।
मनुष्याणां च यो धाता राजा राज्यकरः पुनः॥ 1-41-30
दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत्।
तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना॥ 1-41-31
अजानता कृतं मन्ये व्रतमेतदिदं मम।
कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम्।
न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा॥ 1-41-32
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि परिक्षिच्छापे एकचत्वारिंशोऽध्यायः॥ 41 ॥
द्विचत्वारिंशोऽध्यायः
आस्तीकपर्व
शमीकस्य पुत्रं प्रत्युपदेशः राज्ञः सन्निधौ गौरमुखस्य प्रेषणम् राज्ञ आत्मरक्षणव्यवस्था तक्षककाश्यपसंवादश्च
शृङ्ग्युवाच
यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम्।
प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा भवेत्॥ 1-42-1
नैवान्यथेदं भविता पितरेष ब्रवीमि ते।
नाहं मृषा ब्रवीम्ये[वं]व स्वैरेष्वपि कुतः शपन्॥ 1-42-2
शमीक उवाच
जानाम्युग्रप्रभावं त्वां तात सत्यगिरं तथा।
नानृतं चोक्तपूर्वं ते नैतन्मिथ्या भविष्यति॥ 1-42-3
पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु।
यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः॥ 1-42-4
किं पुनर्बाल एव त्वं तपसा भावितः सदा।
वर्धते च प्रभवतां कोपोऽतीव महात्मनाम्॥ 1-42-5
सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर।
पुत्रत्वं बालतां चैव त[वावेक्ष्य च]दावैक्ष्यैव साहसम्॥ 1-42-6
स त्वं शमपरो भूत्वा वन्यमाहारमाचरन्।
चर क्रोधमिमं हृ[ह]त्वा नैवं धर्मं प्रहास्यसि॥ 1-42-7
क्रोधो हि धर्मं हरति यतीनां दुःखसंचितम्।
ततो धर्मविहीनानां गतिरिष्टा न विद्यते॥ 1-42-8
शम एव यतीनां हि क्षमिणां सिद्धिकारकः।
क्षमावतामयं लोकः परश्चैव क्षमावताम्॥ 1-42-9
तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः।
क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान्॥ 1-42-10
मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै।
तत्करिष्याम्यहं तात प्रेषयिष्ये नृपाय वै॥ 1-42-11
मम पुत्रेण शप्तोऽसि बाले[न कृश]नाऽकृतबुद्धिना।
ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा॥ 1-42-12
सूत उवाच [सौतिरुवाच]
एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः।
प[रि]रीक्षिते नृपतये दयापन्नो महातपाः॥ 1-42-13
संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च।
शिष्यं गौरमुखं नाम शीलवन्तं समाहितम्॥ 1-42-14
सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम्।
विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः॥ 1-42-15
पूजितस्तु नरेन्द्रेण द्विजो गौरमुखस्तदा।
आचख्यौ च परिश्रान्तो राज्ञः सर्वमशेषतः।
शमीक वचनं घोरं यथोक्तं मन्त्रिसन्निधौ॥ 1-42-16
गौरमुख उवाच
शमीको नाम राजेन्द्र विषये वर्तते [वर्तते विषये] तव।
ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः।
तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः॥ 1-42-17
अवसक्तो धनुष्कोट्या स्कन्धे मौनान्वितस्य च।
क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य च न [न च]क्षमे॥ 1-42-18
तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै।
तक्षकः सप्तरात्रेण मृत्युस्तव भविष्यति॥ 1-42-19
तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत्।
तदन्यथा न शक्यं च कर्तुं केनचिदप्युत॥ 1-42-20
न हि शक्नोति तं यन्तुं पुत्रं कोपसमन्वितम्।
ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना॥ 1-42-21
सूत उवाच [सौतिरुवाच]
इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः।
पर्यतप्यत तत्पापं कृत्वा राजा महातपाः॥ 1-42-22
तं च मौनव्रतं श्रुत्वा वने मुनिवरं तदा।
भूय एवाभवद्राजा शोकसंतप्तमानसः॥ 1-42-23
अनुक्रोशात्मतां तस्य शमीकस्यावधार्य च।
पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः॥ 1-42-24
न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत।
अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत्॥ 1-42-25
ततस्तं प्रेषयामास राजा गौरमुखं तदा।
भूयः प्रसादं भगवान्करोत्विह ममेति वै॥ 1-42-26
@श्रुत्वा तद्वचनं राज्ञो मुनिर्गौरमुखस्तदा।
तमनुज्ञाप्य वेगेन प्रजगाश्रमं गुरोः।@
तस्मिंश्च गतमात्रेऽथ राजा गौरमुखे तदा।
मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः॥ 1-42-27
सम्मन्त्र्य मन्त्रिभिश्चैव स तथा मन्त्रतत्त्ववित्।
प्रासादं कारयामास एकस्तम्भं सुरक्षितम्॥ 1-42-28
रक्षां च विदधे तत्र भिषजश्चौषधानि च।
ब्राह्मणान्मन्त्रसिद्धांश्च सर्वतो वै न्ययोजयत्॥ 1-42-29
राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः।
मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः॥ 1-42-30
न चैनं कश्चिदारूढं लभते राजसत्तमम्।
वातोऽपि निश्चरंस्तत्र प्रवेशे विनिवार्यते॥ 1-42-31
प्राप्ते च दिवसे तस्मिन्सप्तमे द्विजसत्तमः।
काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम्॥ 1-42-32
श्रुतं हि तेन तदभूद्यथा तं राजसत्तमम्।
तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम्॥ 1-42-33
तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम्।
तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन्॥ 1-42-34
तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि।
गच्छन्तमेकमनसं द्विजो भूत्वा वयोऽतिगः॥ 1-42-35
तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम्।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥ 1-42-36
काश्यप उवाच
नृपं कुरुकुलोत्पन्नं प[रि]रीक्षितमरिन्दमम्।
तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति॥ 1-42-37
तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा।
पाण्डवानां कुलकरं राजानममितौजसम्।
गच्छामि त्वरितं सौम्य सद्यः कर्तुमपज्वरम्॥ 1-42-38
तक्षक उवाच
अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम्।
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम्॥ 1-42-39
काश्यप उवाच
अहं तं नृपतिं गत्वा त्वया दष्टमपज्वरम्।
करिष्यामीति मे बुद्धिर्विद्याबलसमन्वितः॥ 1-42-40
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि काश्यपागमने द्विचत्वारिंशोऽध्यायः॥ 42 ॥
त्रिचत्वारिंशोऽध्यायः
आस्तीकपर्व
तक्षककर्तृकं धनदानपूर्वकं काश्यपस्य निवर्तनम् छलेनोपगम्य राज्ञः शरीरे दंशनं च
तक्षक उवाच
यदि दष्टो मयेह त्वं शक्तः किंचिच्चिकित्सितुम्।
ततो वृक्षं मया दष्टमिमं जीवय काश्यप॥ 1-43-1
परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च।
न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम॥ 1-43-2
काश्यप उवाच
दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे।
अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम॥ 1-43-3
सौतिरुवाच
एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना।
अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः॥ 1-43-4
स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना।
आशीविषविषोपेतः प्रजज्वाल समन्ततः॥ 1-43-5
तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्।
कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम्॥ 1-43-6
सौतिरुवाच
भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा।
भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्॥ 1-43-7
विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ।
अहं संजीवयाम्येनं पश्यतस्ते भुजङ्गम॥ 1-43-8
ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः।
भस्मराशीकृतं वृक्षं विद्यया समजीवयत्॥ 1-43-9
अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम्।
पलाशिनं शाखिनं च तथा विटपिनं पुनः॥ 1-43-10
तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना।
उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि॥ 1-43-11
द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा।
कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन॥ 1-43-12
यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्।
अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्॥ 1-43-13
विप्रशापाभिभूते च क्षीणायुषि नराधिपे।
घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्॥ 1-43-14
ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्।
निरंशुरिव घर्मांशुरन्तर्धानमितो [व्रजेत्]ऽब्रवीच्॥ 1-43-15
काश्यप उवाच
धनार्थी याम्यहं तत्र तन्मे देहि भुजङ्गम।
ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै॥ 1-43-16
तक्षक उवाच
यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्।
अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम॥ 1-43-17
सौतिरुवाच
तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः।
प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान्॥ 1-43-18
दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा।
क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः॥ 1-43-19
लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम्।
निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि॥ 1-43-20
जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्।
अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्।
मन्त्रैर्गदैर्विषहरै रक्ष्यमाणं प्रयत्नतः॥ 1-43-21
सूत उवाच [सौतिरुवाच]
स चिन्तयामास तदा मायायोगेन पार्थिवः।
मया वञ्चयितव्योऽसौ क उपायो भवेदिति॥ 1-43-22
ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान्।
फलदर्भोदकं गृह्य राज्ञे नागोऽथ तक्षकः॥ 1-43-23
तक्षक उवाच
गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया।
फलपुष्पोदकं नाम प्रतिग्राहयितुं नृपम्॥ 1-43-24
सौतिरुवाच
ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः।
उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च।
तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्॥ 1-43-25
कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान्।
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु॥ 1-43-26
अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः।
भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः॥ 1-43-27
तापसैरुपनीतानि फलानि सहिता मया।
ततो राजा ससचिवः फलान्यादातुमैच्छत॥ 1-43-28
विधिना सम्प्रयुक्तो वै ऋषिवाक्येन तेन तु।
यस्मिन्नेव पले नागस्तमेवाभक्षयत्स्वयम्॥ 1-43-29
ततो भक्षयतस्तस्य फलात्कृमिरभूदणुः।
ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक॥ 1-43-30
स तं गृह्य्नृपश्रेष्ठः सचिवानिदमब्रवीत्।
अस्तमभ्येति सविता विषादद्य न मे भयम्॥ 1-43-31
सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम्।
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्॥ 1-43-32
ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः।
एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह॥ 1-43-33
कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः।
प्रहसन्नेव भोगेन तक्षकेण त्ववेष्ट्यत॥ 1-43-34
तस्मात्फलाद्विनिष्क्रम्य [यत्तद्] तदा राज्ञे निवेदितम्।
वेष्टयित्वा च वेगेन विनद्य च महास्वनम्।
अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः॥ 1-43-35
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि तक्षकदंशे त्रिचत्वारिंशोऽध्यायः॥ 43 ॥
चतुश्चत्वारिंशोऽध्यायः
आस्तीकपर्व
जनमेजयस्य राज्येऽभिषेको विवाहश्च
सौतिरुवाच
ते तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम्।
विषण्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः॥ 1-44-1
तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः।
अपश्यन्त तथा यान्तमाकाशे नागमद्भुतम्॥ 1-44-2
सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम्।
तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः॥ 1-44-3
ततस्तु ते तद्गृहमग्निनाऽऽवृतं प्रदीप्यमानं विषजेन भोगिनः।
भयात्परित्यज्य दिशः प्रपेदिरे पपात राजाशनिताडितो यथा॥ 1-44-4
ततो नृपे तक्षकतेजसा हते प्रयुज्य सर्वाः परलोकसत्क्रियाः।
शुचिर्द्विजो राजपुरोहितस्तदा तथैव ते तस्य नृपस्य मन्त्रिणः॥ 1-44-5
नृपं शिशुं तस्य सुतं प्रचक्रिरे समेत्य सर्वे पुरवासिनो जनाः।
नृपं यमाहुस्तममित्रघातिनं कुरुप्रवीरं जनमेजयं जनाः॥ 1-44-6
स बाल एवार्यमतिर्नृपोत्तमः सहैव तैर्मन्त्रिपुरोहितैस्तदा।
शशास राज्यं कुरुपुङ्गवाग्रजो यथास्य वीरः प्रपितामहस्तथा॥ 1-44-7
ततस्तु राजानममित्रतापनं समीक्ष्य ते तस्य नृपस्य मन्त्रिणः।
सुवर्णवर्माणम् उपेत्य काशिपं वपुष्टमार्थं वरयाम्प्रचक्रमुः॥ 1-44-8
ततः स राजा प्रददौ वपुष्टमां कुरुप्रवीराय परीक्ष्य धर्मतः।
स चापि तां प्राप्य मुदायुतोऽभवन्न चान्यनारीषु मनो दधे क्वचित्॥ 1-44-9
सरःसु फुल्लेषु वनेषु चैव हि प्रसन्नचेता विजहार वीर्यवान्।
तथा स राजन्यवरो विजह्रिवान्यथोर्वशीं प्राप्य पुरा पुरूरवाः॥ 1-44-10
वपुष्टमा चापि वरं पतिव्रता प्रतीतरूपा समवाप्य भूपतिम्।
भावेन रामा रमयाम्बभूव [सा] तं विहारकालेष्ववरोधसुन्दरी॥ 1-44-11
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जनमेजयराज्याभिषेके चतुश्चत्वारिंशोऽध्यायः॥ 44 ॥
पञ्चचत्वारिंशोऽध्यायः
आस्तीकपर्व
जरत्कारुकर्तृकं स्वपितॄणां दर्शनं तैः सहालपनं च
सूत उवाच [सौतिरुवाच]
एतस्मिन्नेव काले तु जरत्कारुर्महातपाः।
चचार पृथिवीं कृत्स्नां यत्रसायंगृहो मुनिः॥ 1-45-1
चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः।
तीर्थेष्वाप्लवनं कृत्वा पुण्येषु विचचार ह॥ 1-45-2
वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः।
स ददर्श पितॄन्गर्ते लम्बमानानधोमुखान्॥ 1-45-3
एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान्।
तं तन्तुं [च श]दशनैराखुमाददानं बिलेशयम्॥ 1-45-4
निराहारान्कृशान्दीनान्गर्ते स्वत्राणमिच्छतः।
उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत॥ 1-45-5
के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः।
दुर्बलं खादितैर्मूलैराखुना बिलवासिना॥ 1-45-6
वीरणस्तम्बके मूलं यदप्येकमिह स्थितम्।
तदप्ययं शनैराखुरादत्ते दशनैः शितैः॥ 1-45-7
छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव।
ततस्तु पतितारोऽत्र गर्ते व्यक्तमधोमुखाः॥ 1-45-8
तस्य मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान्।
कृच्छ्रमापदमापन्नान्प्रियं किं करवाणि वः॥ 1-45-9
तपसोऽस्य चतुर्थेन तृतीयेनाथवा पुनः।
अर्धेन वापि निस्तर्तुमापदं ब्रूत मा चिरम्॥ 1-45-10
अथवापि समग्रेण तरन्तु तपसा मम।
भवन्तः सर्व एवेह काममेवं विधीयताम्॥ 1-45-11
पितर ऊचुः
वृद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छसि।
न तु विप्राग्र्य तपसा शक्यते तद्व्यपोहितुम्॥ 1-45-12
अस्ति नस्तात तपसः फलं प्रवदतां वर।
संतानप्रक्षयाद्ब्रह्मन्पताम निरयेऽशुचौ॥ 1-45-13
संतानं हि परो धर्म एवमाह पितामहः।
लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै॥ 1-45-14
येन त्वा नाभिजानीमो लोके विख्यातपौरुषम्।
वृद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान्॥ 1-45-15
शोचते चैव कारुण्याच्छृणु ये वै वयं द्विज।
यायावरा नाम वयमृषयः संशितव्रताः॥ 1-45-16
लोकात्पुण्यादिह भ्रष्टाः संतानप्रक्षयान्मुने।
प्रणष्टं नस्तपस्तीव्रं न हि नस्तन्तुरस्ति वै॥ 1-45-17
अस्तित्वेकोऽद्यनस्तन्तुः सोऽपि नास्ति यथा तथा।
मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः॥ 1-45-18
जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः।
नियतात्मा महात्मा च सुव्रतः सुमहातपाः॥ 1-45-19
तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम्।
न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन॥ 1-45-20
तस्माल्लम्बामहे गर्ते नष्टसंज्ञा ह्यनाथवत्।
स वक्तव्यस्त्वया दृ[ष्टो]ष्ट्वा ह्यस्माकं नाथवत्तया॥ 1-45-21
पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः।
साधु दारान्कुरुष्वेति प्रजामुत्पादयेति च॥ 1-45-22
कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन।
यस्त्वं पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान्॥ 1-45-23
एषोऽस्माकं कुलस्तम्ब आस्ते स्वकुलवर्धनः।
यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः॥ 1-45-24
एते नस्तन्तवस्तात कालेन परिभक्षिताः।
यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम्॥ 1-45-25
यत्र लम्बामहे गर्ते सोऽप्येकस्तप आस्थितः।
यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः॥ 1-45-26
स तं तपोरतं मन्दं शनैः क्षपयते तुदन्।
जरत्कारुं तपो[ल]लुब्धं मन्दात्मानमचेतसम्॥ 1-45-27
न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम।
छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः॥ 1-45-28
अधःप्रविष्टान्पश्यास्मान्यथा दुष्कृतिनस्तथा।
अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः॥ 1-45-29
छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः।
तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत्॥ 1-45-30
तत्सर्वमपरं तात न संतत्या समं मतम्।
स तात दृष्ट्वा ब्रूयास्तं जरत्कारुं तपोधन॥ 1-45-31
यथा दृष्टमिदं चात्र त्वयाख्येयमशेषतः।
यथा दारान्प्रकुर्यात्स पुत्रानुत्पादयेद्यथा॥ 1-45-32
तथा ब्रह्मं स्त्वया वाच्यः सोऽस्माकं नाथवत्तया।
बान्धवानां [हितस्येह] हि तस्येह यथा चात्मकुलं तथा॥ 1-45-33
कस्त्वं बन्धुमिवास्माकमनुशोचसि सत्तम।
श्रोतुमिच्छाम सर्वेषां को भवानिह तिष्ठति॥ 1-45-34
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुपितृदर्शने पञ्चचत्वारिंशोऽध्यायः॥ 45 ॥
षट्चत्वारिंशोऽध्यायः
आस्तीकपर्व
जरत्कारोः समयेन पत्नीपरिग्रहार्थमुद्यमनं जरत्कारुनाम्नीं स्वसारमादाय वासुकेरागमनं च
सौतिरुवाच
एतच्छ्रुत्वा जरत्कारुर्भृशं शोकपरायणः।
उवाच तान्पितॄन्दुःखाद्बाष्पसंदिग्धया गिरा॥ 1-46-1
जरत्कारुरुवाच
मम पूर्व भवन्तो वै पितरः सपितामहाः।
तद्ब्रूत यन्मया कार्यं भवतां प्रियकाम्यया॥ 1-46-2
अहमेव जरत्कारुः किल्बिषी भवतां सुतः।
ते दण्डं धारयत मे दुष्कृतेरकृतात्मनः॥ 1-46-3
पितर ऊचुः
पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया।
किमर्थं च त्वया ब्रह्मन्न कृतो दारसंग्रहः॥ 1-46-4
जरत्कारुरुवाच
ममायं पितरो नित्यं हृ[य]द्यर्थः परिवर्तते।
ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै॥ 1-46-5
न दारान्वै करिष्येऽहमिति मे भावितं मनः।
एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः॥ 1-46-6
मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः।
करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम्॥ 1-46-7
सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन।
भविष्यति च या काचिद्भैक्ष्यवत्स्वयमुद्यता॥ 1-46-8
प्रतिग्रहीता तामस्मि न भरेयं च यामहम्।
एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि॥ 1-46-9
अन्यथा न करिष्येऽहं सत्यमेतत्पितामहाः।
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै।
शाश्वताश्चाव्ययाश्चैव तिष्ठन्तु पितरो मम॥ 1-46-10
सौतिरुवाच
एवमुक्त्वा तु स पितॄंश्चचार पृथिवीं मुनिः।
न च स्म लभते भार्यां वृद्धोऽयमिति शौनक॥ 1-46-11
यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा॥ 1-46-11
तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः।
स त्वर[ण्य]ण्यंगतः प्राज्ञः पितॄणां हितकाम्यया॥ 1-46-12
उवाच कन्यां याचामि तिस्रो वाचः शनैरिमाः।
यानि भूतानि सन्तीह स्थावराणि चराणि च॥ 1-46-13
अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः।
उग्रे तपसि वर्त[न्ते]न्तं पितरश्चोदयन्ति माम्॥ 1-46-14
निविशस्वेति दुःखार्ताः सन्तानस्य चिकीर्षया।
निवेशायाखिलां भूमिं कन्याभैक्ष्यं चरामि भोः॥ 1-46-15
दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः।
यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः॥ 1-46-16
ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम्।
मम कन्या सनाम्नी या भैक्ष्यवच्चोदिता भवेत्॥ 1-46-17
भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत।
ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः॥ 1-46-18
तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन्।
तेषां श्रुत्वा स नागेन्द्रस्तां कन्यां समलंकृताम्॥ 1-46-19
प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः।
तत्र तां भैक्ष्यवत्कन्यां प्रादात्तस्मै महात्मने॥ 1-46-20
नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत।
असनामेति वै मत्वा भरणे चाविचारिते॥ 1-46-21
मोक्षभावे स्थितश्चापि द्वन्द्व[मन्दी]भूतः परिग्रहे।
ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन।
वासुकिं भरणं वास्या न कुर्यामित्युवाच ह॥ 1-46-22
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि वासुकिजरत्कारुसमागमे षट्चत्वारिंशोऽध्यायः॥ 46 ॥
सप्तचत्वारिंशोऽध्यायः
आस्तीकपर्व
जरत्कारोर्जरत्कार्वा सह विवाहः तत्कृता पतिसेवा पत्नीं परित्यज्य पत्युर्गमनं च
सौतिरुवाच
वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा।
सनाम्नी तव कन्येयं स्वसा मे तपसान्विता॥ 1-47-1
भरिष्यामि च ते भा[र्या]र्यां प्रतीच्छेमां द्विजोत्तम।
रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन॥ 1-47-2
त्वदर्थं रक्ष्यते चैषा मया मुनिवरोत्तम।
ऋषिरुवाच
न भरिष्येऽहमेतां वा[वै] एष मे समयः कृतः॥ 1-47-3
अप्रियं च न कर्तव्यं कृते चैनां त्यजाम्यहम्।
सौतिरुवाच
प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति॥ 1-47-4
जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह।
तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः॥ 1-47-5
जग्राह पाणिं धर्मात्मा विधिम[न्त्रपुर]न्त्रैः पुरस्कृतम्।
ततो वासगृहं रम्यं पन्नगेन्द्रस्य सम्मतम्॥ 1-47-6
जगाम भार्यामादाय स्तूयमानो महर्षिभिः।
शयनं तत्र संक्लृप्तं स्व[स्प]र्ध्यास्तरणसंवृतम्॥ 1-47-7
तत्र भार्यासहायो वै जरत्कारुरुवास ह।
स तत्र समयं चक्रे भार्यया सह सत्तमः॥ 1-47-8
विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन।
त्यजेयं विप्रिये च त्वां कृते वासं च ते गृहे॥ 1-47-9
एतद्गृहाण वचनं मया यत्समुदीरितम्।
ततः परमसंविग्ना स्वसा नागपतेस्तदा॥ 1-47-10
अतिदुःखान्विता वाक्यं तमुवाचैवमस्त्विति।
तथैव सा च भर्तारं दुःखशीलमुपाचरत्॥ 1-47-11
उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी।
ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा॥ 1-47-12
भर्तारं वै यथान्यायमुपतस्थे महामुनिम्।
तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः॥ 1-47-13
अतीवतेजसा युक्तो वैश्वानरसमद्युतिः।
शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः॥ 1-47-14
ततः कतिपयाह[स्य]स्सु जरत्कारुर्महायशाः।
उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत्॥ 1-47-15
तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम्।
अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा॥ 1-47-16
वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी।
किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा॥ 1-47-17
दुःखशीलो हि धर्मात्मा कथं नाम्यापराध्नुयाम्।
कोपो वा धर्मशीलस्य धर्मलोपोऽथवा पुनः॥ 1-47-18
धर्मलोपो गरीयान्वै स्यादित्यत्राकरोन्मतिम्।
उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति॥ 1-47-19
धर्मलोपो भवेदस्य संध्यातिक्रमणे ध्रुवम्।
इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा॥ 1-47-20
तमृषिं दीप्ततपसं शयानमनलोपमम्।
उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी॥ 1-47-21
उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति।
सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्र[तः]त॥ 1-47-22
प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः।
संध्या प्रवर्तते चेयं पश्चि[मायां]मस्यां दिशि प्रभो॥ 1-47-23
एवमुक्तः स भगवान्जरत्कारुर्महातपाः।
भार्यां प्रस्फुरमाणौष्ठ इदं वचनमब्रवीत्॥ 1-47-24
अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे।
समीपे ते न वत्स्यामि गमिष्यामि यथागतम्॥ 1-47-25
शक्तिरस्ति न वामोरु मयि सुप्ते विभावसोः।
अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते॥ 1-47-26
न वा[चा]प्यवमतस्येह वासो रोचेत कस्यचित्।
किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा॥ 1-47-27
एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम्।
अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने॥ 1-47-28
नावमानात्कृतवती तवाहं विप्र बोधनम्।
धर्मलोपो न ते विप्र स्यादित्येतन्मया कृतम्॥ 1-47-29
उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः।
ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम्॥ 1-47-30
न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे।
समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः॥ 1-47-31
सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे।
इतो मयि गते भीरु गतः स भगवानिति॥ 1-47-32
त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि।
इत्युक्ता सानवद्याङ्गी प्रत्युवाच मुनिं तदा॥ 1-47-33
जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा।
बाष्पगद्गदया वाचा मुखेन परिशुष्यता॥ 1-47-34
कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः।
धैर्यमालम्ब्य वामोरुर्हृदयेन प्रवेपता॥ 1-47-35
न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम्।
धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम्॥ 1-47-36
प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम।
@अपत्यार्थं तुमे भ्रात्रा ज्ञातीनां हितकाम्यया।@
तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुकिः॥ 1-47-37
मातृशापाभिभूतानां ज्ञातीनां मम सत्तम।
अपत्यमीप्सितं त्वत्तस्तच्च तावन्न दृश्यते॥ 1-47-38
त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत्।
सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज॥ 1-47-39
ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये।
इममव्यक्तरूपं मे गर्भमाधाय सत्तम॥ 1-47-40
कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम्।
एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत्॥ 1-47-41
यद्युक्तमनुरूपं च जरत्कारुं तपोधनः।
अस्त्ययं सुभगे गर्भस्तव वैश्वानरोपमः॥ 1-47-42
ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः।
एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः।
उग्राय तपसे भूयो जगाम कृतनिश्चयः॥ 1-47-43
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि जरत्कारुनिर्गमे सप्तचत्वारिंशोऽध्यायः॥ 47 ॥
अष्टचत्वारिंशोऽध्यायः
आस्तीकपर्व
वासुकेश्चिन्ताया भगिन्या निवारणम् आस्तीकस्य जन्म विद्याध्ययनं च
सौतिरुवाच
गतमात्रं तु भर्तारं जरत्कारुरवेदयत्।
भ्रातुः सकाशमागत्य याथातथ्यं तपोधन॥ 1-48-1
ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम्।
उवाच भगिनीं दीनां तदा दीनतरः स्वयम्॥ 1-48-2
वासुकिरुवाच
जानासि भद्रे तत्[यत्] कार्यं प्रदाने कारणं च यत्।
पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि॥ 1-48-3
स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान्।
एवं पितामहः पूर्वमुक्तवांस्तु सुरैः सह॥ 1-48-4
अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात्।
न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः॥ 1-48-5
का[र्यं]मं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम्।
किन्तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम्॥ 1-48-6
दुर्वार्यतां विदित्वा च भर्तुस्तेऽतितपस्विनः।
नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम्॥ 1-48-7
आचक्ष्व भद्रे भर्तुः स्वं सर्वमेव हि [वि]चेष्टितम्।
उद्धरस्व च शल्यं मे घोरं हृदि चिरस्थितम्॥ 1-48-8
जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत।
आश्वासयन्ती सततं[संतप्तं] वासुकिं पन्नगेश्वरम्॥ 1-48-9
जरत्कारुरुवाच
पृष्टो मयापत्यहेतोः स महात्मा महातपाः।
अस्तीत्युत्तरमुद्दिश्य ममेदं गतवांश्च सः॥ 1-48-10
स्वैरेष्वपि न तेनाहं स्मरामि वितथं वचः।
उक्तपूर्वं कुतो राजन्साम्परायेन [स] वक्ष्यति॥ 1-48-11
न संतापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे।
उत्पत्स्यति च ते पुत्रो ज्वलनार्कसमप्रभः॥ 1-48-12
इत्युक्त्वा स हि मां भ्रातर्गतो भर्ता तपोधनः।
तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम्॥ 1-48-13
सौतिरुवाच
एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा।
एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत॥ 1-48-14
सान्त्वमानार्थदानैश्च पूजया चानुरूपया।
सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः॥ 1-48-15
ततः प्रववृधे गर्भो महातेजा महाप्रभः।
यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि॥ 1-48-16
अथ काले तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा।
कुमारं देवगर्भाभं पितृमातृभयापहम्॥ 1-48-17
ववृधे स तु तत्रैव नागराजनिवेशने।
वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनान्मुनेः॥ 1-48-18
चीर्णव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः।
नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत॥ 1-48-19
अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम्।
वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम्॥ 1-48-20
स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान्।
गृहे पन्नगराजस्य प्रयत्नात्परिरक्षितः॥ 1-48-21
भगवानिव देवेशः शूलपाणिर्हिरण्मयः।
विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत्॥ 1-48-22
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि आस्तीकोत्पत्तौ अष्टचत्वारिंशोऽध्यायः॥ 48 ॥
एकोनपञ्चाशत्तमोऽध्यायः
आस्तीकपर्व
राज्ञः परिक्षितो धर्म्याचाराणां सद्गुणानां च वर्णनम् राज्ञो मृगयार्थं गमनम् तत्कर्तृकः शमीकमुनेस्तिरस्कारश्च
शौनक उवाच
यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः।
पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद॥ 1-49-1
सौतिरुवाच
शृणु ब्रह्मन्यथापृच्छन्मन्त्रिणो नृपतिस्तदा।
यथा चाख्यातवन्तस्ते निधनं तत्परीक्षितः॥ 1-49-2
जनमेजय उवाच
जानन्ति स्म भवन्तस्तद्यथा वृत्तं पितुर्मम।
आसीद्यथा स निधनं गतः काले महायशाः॥ 1-49-3
श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः।
कल्याणां प्रतिपत्स्या[मि]म विपरीतं न जातुचित्॥ 1-49-4
सौतिरुवाच
मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना।
सर्वे धर्मविदः प्राज्ञा राजानं जनमेजयम्॥ 1-49-5
मन्त्रिण ऊचुः।
शृणु पार्थिव यद्ब्रूषे पितुस्तव महात्मनः।
चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः॥ 1-49-6
धर्मात्मा च महात्मा च प्रजापालः पिता तव।
आसीदिह यथावृत्तः स महात्मा शृणुष्व तत्॥ 1-49-7
चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत।
धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव॥ 1-49-8
ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः।
द्वेष्टारस्तस्य नैवासन्स च द्वेष्टि न कञ्चन॥ 1-49-9
समः सर्वेषु भूतेषु प्रजापतिरिवाभवत्।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु॥ 1-49-10
स्थिताः सुमनसो राजंस्तेन राज्ञा स्वधिष्ठिताः।
विधवानाथविकलान्कृपणांश्च बभार सः॥ 1-49-11
सुदर्शः सर्वभूतानामासीत्सोम इवापरः।
तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः॥ 1-49-12
धनुर्वेदे तु शिष्योऽभून्नृपः शारद्वतस्य सः।
गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय॥ 1-49-13
लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः।
परिक्षीणेषु कुरुषु सोत्तरायामजीजनत्॥ 1-49-14
परीक्षिदभवत्तेन सौभद्रस्यात्मजो बली।
राजधर्मार्थकुशलो युक्तः सर्वगुणैर्वृतः॥ 1-49-15
जितेन्द्रियश्चात्मवांश्च मेधावी धर्मसेविता।
षड्वर्गजिन्महाबुद्धिर्नीतिशास्त्रविदुत्तमः॥ 1-49-16
प्रजा इमास्तव पिता षष्टिवर्षाण्यपालयत्।
ततो दिष्टान्तमापन्नः सर्वेषां दुःखमावहन्॥ 1-49-17
ततस्त्वं पुरुषश्रे[ष्ठ]ष्ठं धर्मेण प्रतिपेदिवान्।
इदं वर्षसहस्राणि राज्यं कुरुकुलागतम्।
बाल एवाभिषिक्तस्त्वं सर्वभूतानुपालकः॥ 1-49-18
जनमेजय उवाच
नास्मिन्कुले जातु बभूव राजा यो न प्रजानां प्रियकृत्प्रियश्च।
विशेषतः प्रेक्ष्य पितामहानां वृत्तं महाद्वृत्तपरायणानाम्॥ 1-49-19
कथं निधनमापन्नः पिता मम तथाविधः।
आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः॥ 1-49-20
सौतिरुवाच
एवं संञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम्।
ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहितैषिणः॥ 1-49-21
मन्त्रिण ऊचुः
स राजा पृथिवीपालः सर्वशस्त्रभृतां वरः।
बभूव मृगयाशीलस्तव राजन्पिता सदा॥ 1-49-22
यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि।
अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः॥ 1-49-23
स कदाचिद्वनगतो मृगं विव्याध पत्रिणाः।
विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने॥ 1-49-24
पदातिर्बद्धनिस्त्रिंशस्त[ता]थायुधकलापवान्।
न चाससाद गहने मृगं नष्टं पिता तव॥ 1-49-25
परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः।
क्षुधितः स महारण्ये ददर्श मुनिसत्तमम्॥ 1-49-26
स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रते स्थितम्।
न च किञ्चिदुवाचैनं पृष्टोऽपि स मुनिस्तदा॥ 1-49-27
ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम्।
मौनव्रतधरं शान्तं सद्यो मन्युवशं गतः॥ 1-49-28
न बुबोध च तं राजा मौनव्रतधरं मुनिम्।
स तं क्रोधसमाविष्टो धर्षयामास ते पिता॥ 1-49-29
मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात्।
तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम॥ 1-49-30
न चोवाच स मेधावी तमथो साध्वसाधु वा।
तस्थौ तथैव चाक्रुद्धः सर्पं स्कन्धेन धारयन्॥ 1-49-31
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि पारीक्षितीये एकोनपञ्चाशत्तमोऽध्यायः॥ 49 ॥
पञ्चाशत्तमोऽध्यायः
आस्तीकपर्व
परिक्षितमुद्दिश्य शृङ्गिणः शापः तक्षकेण काश्यपं निवर्त्य छलादुपगम्य परिक्षितो दंशनम् पितर्मरणवृत्तान्तमाकर्ण्यं जनमेजयस्य तक्षकाय प्रतिकर्तुं प्रतिश्रुतिः
मन्त्रिण ऊचुः
ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम्।
मुनेः क्षुत्क्षाम आसज्य स्वपुरं प्रययौ पुनः [पुनराययौ]॥ 1-50-1
ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः।
शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः॥ 1-50-2
ब्रह्माणं समुपागम्य मुनिः पूजां चकार ह।
सोऽनुज्ञातो मुनि [तस्तत]स्तत्र शृङ्गी शुश्राव तं तदा॥ 1-50-3
सख्युः सकाशात्पितरं पित्रा ते धर्षितं पुरा।
मृतं सर्पं समासक्तं स्थाणुभूतस्य तस्य तम्॥ 1-50-4
वहन्तं राजशार्दूल स्कन्धेनानपकारिणम्।
तपस्विनमतीवाथ तं मुनिप्रवरं नृप॥ 1-50-5
जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुतम्।
तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तदा॥ 1-50-6
शुभाचारं शुभकथं सुस्थितं तमलोलुपम्।
अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम्॥ 1-50-7
शरण्यं सर्वभूतानां पित्रा विनिकृतं तव।
शशापाथ महातेजाः पितरं ते रुषान्वितः॥ 1-50-8
ऋषेः पुत्रो महाते[जा]जाः बालोऽपि स्थविरद्युतिः।
स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच च[ह]॥ 1-50-9
पितरं तेऽभिसंधाय तेजसा प्रज्वलन्निव।
अनागसि गुरौ यो मे मृतं सर्पमवासृजत्॥ 1-50-10
तं नागस्तक्षकः क्रुद्धस्तेजसा प्रदहिष्यति।
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः॥ 1-50-11
सप्तरात्रादितः पापं पश्य मे तपसो बलम्।
इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत्॥ 1-50-12
दृष्ट्वा च पितरं तस्मै तं शापं प्रत्यवेदयत्।
स चापि मुनिशार्दूलः प्रेषयामास ते पितुः॥ 1-50-13
शिष्यं गौरमुखं नाम शीलवन्तं गुणान्वितम्।
आचख्यौ स च विश्रान्तो राज्ञः सर्वमशेषतः॥ 1-50-14
शप्तोऽसि मम पुत्रेण यत्तो भव महीपते।
तक्षकस्त्वां महाराज तेजसासौ दहिष्यति॥ 1-50-15
श्रुत्वा च तद्वचो घोरं पिता ते जनमेजय।
यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात्॥ 1-50-16
ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते।
राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत॥ 1-50-17
तं ददर्शाथ नागेन्द्रस्तक्षकः काश्यपं तदा।
तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं द्विजम्।
क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति॥ 1-50-18
काश्यप उवाच
यत्र राजा कुरुश्रेष्ठ परिक्षिन्नाम वै द्विज।
तक्षकेण भुजङ्गेन धक्ष्यते किल सोऽद्य वै॥ 1-50-19
गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम्।
मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति॥ 1-50-20
तक्षक उवाच
किमर्थं तं मया दष्टं संजीवयितुमिच्छसि।
@ब्रूहि काममहं तत्ते दद्द्मि स्वं वेश्म गम्यताम्।@
अहं स तक्षको ब्रह्मन्पश्य मे वीर्यमद्भुतम्॥ 1-50-21
न शक्तस्त्वं मया दृष्टं तं संजीवयितुं नृपम्।
इत्युक्त्वा तक्षकस्तत्र सोऽदशद्वै वनस्पतिम्॥ 1-50-22
स दष्टमात्रो नागेन भस्मीभूतोऽभवन्नगः।
काश्यपश्च ततो राजन्नजीवयत तं नगम्॥ 1-50-23
ततस्तं लोभयामास कामं ब्रूहीति तक्षकः।
स एवमुक्तस्तं प्राह काश्यपस्तक्षकं पुनः॥ 1-50-24
धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः।
तमुवाच महात्मानं तक्षकः श्लक्ष्णया गिरा॥ 1-50-25
यावद्धनं प्रार्थयसे राज्ञस्तस्मात्ततोऽधिकम्।
गृहाण मत्त एव त्वं संनिवर्तस्व चानघ॥ 1-50-26
स एवमुक्तो नागेन काश्यपो द्विपदां वरः।
लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम्॥ 1-50-27
तस्मिन्प्रतिगते विप्रे छ्दमनोपेत्य तक्षकः।
तं नृपं नृपतिश्रेष्ठं पितरं धार्मिकं तव॥ 1-50-28
प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना।
ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः॥ 1-50-29
एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम।
अस्माभिर्निखिलं सर्वं कथितं तेऽतिदारुणम्॥ 1-50-30
श्रुत्वा चै[नं न]तन्नरश्रेष्ठ पार्थिवस्य पराभवम्।
अस्य चर्षेरु[त]दङ्कस्य विधत्स्व यदनन्तरम्॥ 1-50-31
सौतिरुवाच
एतस्मिन्नेव काले तु स राजा जनमेजयः।
उवाच मन्त्रिणः सर्वानिदं वाक्यमरिन्दमः॥ 1-50-32
जनमेजय उवाच
अथ तत्कथितं केन यद्वृत्तं तद्वनस्पतौ।
आश्चर्यभूतं लोकस्य भस्मराशीकृतं तदा।
यद्वृक्षं जीवयामास काश्यपस्तक्षकेण वै॥ 1-50-33
नूनं मन्त्रैर्हतविषो न प्रणश्येत काश्यपात्।
चिन्तयामास पापात्मा मनसा पन्नगाधमः॥ 1-50-34
दष्टं यदि मया विप्रः पार्थिवं जीवयिष्यति।
तक्षकः संहतविषो लोके यास्यति हास्यताम्॥ 1-50-35
विचिन्त्यैवं कृता तेन ध्रुवं तुष्टिर्द्विजस्य वै।
भविष्यति ह्युपायेन यस्य दास्यामि यातनाम्॥ 1-50-36
एकं तु श्रोतुमिच्छामि तद्वृत्तं निर्जने वने।
संवादं पन्नगेन्द्रस्य काश्यपस्य वचस्तथा [च कस्तदा]॥ 1-50-37
श्रुतवान्दृष्टवांश्चापि भवत्सु कथमागतम्।
श्रुत्वा तस्य विधास्येऽहं पन्नगान्तकरीं मतिम्॥ 1-50-38
मन्त्रिण ऊचुः
शृणु राजन्यथास्माकं येन तत्कथितं पुरा।
समागतं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि॥ 1-50-39
तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव।
विचिन्वन्पूर्वमारूढः शुष्कशाखां वनस्पतौ॥ 1-50-40
न बुध्येतामुभौ तौ च नगस्थं पन्नगद्विजौ।
सह तेनैव वृक्षेण भस्मीभूतोऽभवन्नृप॥ 1-50-41
द्विजप्रभावाद्राजेन्द्र व्यजीवत्सवनस्पतिः।
तेनागम्य नरश्रेष्ठ पुंसास्मासु निवेदितम्॥ 1-50-42
यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च।
एतत्ते कथितं राजन्यथा दृष्टं श्रुतं च यत्।
श्रुत्वा च नृपशार्दूल विधत्स्व यदनन्तरम्॥ 1-50-43
सौतिरुवाच
मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः।
पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करं करे॥ 1-50-44
निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः।
मुमोचाश्रूणि च तदा नेत्राभ्यां प्ररुदन्नृपः॥ 1-50-45
उवाच च महीपालो दुःखशोकसमन्वितः।
दुर्धरं वाष्पमुत्सृज्य स्पृष्ट्वा चापो यथाविधि॥ 1-50-46
मुहूर्तमिव च ध्यात्वा निश्चित्य मनसा नृपः।
अमर्षी मन्त्रिणः सर्वानिदं वचनमब्रवीत्॥ 1-50-47
जनमेजय उवाच
श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति।
निश्चितेयं मम मतिर्या च तां मे निबोधत॥ 1-50-48
अनन्तरं च मन्येऽहं तक्षकाय दुरात्मने।
प्रतिकर्तव्यमित्येवं येन मे हिंसितः पिता।
शृङ्गिणं हेतुमात्रं यः कृत्वा दग्ध्वा च पार्थिवम्॥ 1-50-49
इयं दुरात्मता तस्य काश्यपं यो न्यवर्तयत्।
यद्या[दा]ऽऽगच्छेत्स वै विप्रो ननु जीवेत्पिता मम॥ 1-50-50
परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः।
काश्यपस्य प्रसादेन मन्त्रिणां विनयेन च॥ 1-50-51
स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम्।
सञ्जीजीवयिषुं प्राप्तं राजानमपराजितम्॥ 1-50-52
महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः।
द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति॥ 1-50-53
उद[त्त]ङ्कस्य प्रियं कर्तुमात्मनश्च महत्प्रियम्।
भवतां चैव सर्वेषां गच्छाम्यपचितिं पितुः॥ 1-50-54
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि पारिक्षिन्मन्त्रिसंवादे पञ्चाशत्तमोऽध्यायः॥ 50 ॥
एकपञ्चाशत्तमोऽध्याय
आस्तीकपर्व
जनमेजयसर्पयज्ञोपक्रमः
सौतिरुवाच
एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः।
आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः॥ 1-51-1
ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा।
पुरोहितमथाहूय ऋत्विजो वसुधाधिपः॥ 1-51-2
अब्रवीद्वाक्यसम्पन्नः कार्यसम्पत्करं वचः।
यो मे हिंसितवांस्तातं तक्षकः सु[स] दुरात्मवान्॥ 1-51-3
प्रतिकुर्यां तथा तस्य तद्भवन्तो ब्रुवन्तु मे।
अपि तत्कर्म विदितं भवतां येन पन्नगम्॥ 1-51-4
तक्षकं सम्प्रदीप्तेऽग्नौ प्रक्षिपेयं सबान्धवम्।
यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना॥ 1-51-5
तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम्।
ऋत्विज ऊचुः
अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम्॥ 1-51-6
सर्पसत्रमिति ख्यातं पुराणे परिपठ्यते।
आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप॥ 1-51-7
इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः।
सौतिरुवाच
एवमुक्तः स राजर्षिर्मेने दग्धं हि तक्षकम्॥ 1-51-8
हुताशनमुखे दीप्ते प्रविष्टमिति सत्तम।
ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा॥ 1-51-9
आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे।
ततस्त[स्ते] ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम॥ 1-51-10
तं देशं मापयामासुर्यज्ञायतनकारणात्।
यथावद्वेदविद्वांसः सर्वे बुद्धेः परं गताः॥ 1-51-11
ऋद्ध्या परमया युक्तमिष्टं द्विजगणैर्युतम्।
प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिषेवितम्॥ 1-51-12
निर्माय चापि विधिवद्यज्ञायतनमीप्सितम्।
राजानं दीक्षयामासुः सर्पसत्राप्तये तदा॥ 1-51-13
इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति।
निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा॥ 1-51-14
यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत्।
स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः॥ 1-51-15
इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा।
यस्मिन्देशे च काले च मापनेयं प्रवर्तिता॥ 1-51-16
ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः।
एतच्छ्रुत्वा तु राजासौ प्राग्दीक्षाकालमब्रवीत्।
क्षत्तारं न हि मे कश्चिदज्ञातः प्रविशेदिति॥ 1-51-17
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रोपक्रमे एकपञ्चाशत्तमोऽध्यायः॥ 51 ॥
द्विपञ्चाशत्तमोऽध्यायः
आस्तीकपर्व
सर्पसत्रसमारम्भस्तत्र सर्पाणां संहारश्च
सौतिरुवाच
ततः कर्म प्रववृते सर्पसत्रविधानतः।
पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः॥ 1-52-1
प्रावृत्य कृष्णवासांसि धूम्र[म]संरक्तलोचनाः।
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम्॥ 1-52-2
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च।
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा॥ 1-52-3
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने।
विचेष्टमानाः कृपणमाह्वयन्तः परस्परम्॥ 1-52-4
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम्।
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे॥ 1-52-5
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा।
नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ॥ 1-52-6
क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः।
पतन्त्यजस्रं वेगेन वह्नावग्निमतां वर॥ 1-52-7
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च।
अवशानि विनष्टानि पन्नगानां तु तत्र वै॥ 1-52-8
तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे।
मत्ता इव च मातङ्गा महाकाया महाबलाः॥ 1-52-9
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः।
घोराश्च परिघप्रख्या दन्दशूका महाबलाः।
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः॥ 1-52-10
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रोपक्रमे द्विपञ्चाशत्तमोऽध्यायः॥ 52 ॥
त्रिपञ्चाशत्तमोऽध्यायः
आस्तीकपर्व
सर्पसत्रे वृतानामृत्विजां नामानि सर्पाणां सङ्क्षयः इन्द्रं शरणमुपेतस्य तक्षकस्येन्द्रेणाश्वासनं वासुकेः स्वसारं प्रति सर्पमोक्षणायास्तीकं नियोक्तुमनुरोधः
शौनक उवाच
सपसत्रे तथा[दा] राज्ञः पाण्डवेयस्य धीमतः।
जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः॥ 1-53-1
के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे।
विषादजननेऽत्यर्थं पन्नगानां महाभये॥ 1-53-2
सर्वं विस्तरशस्तात भवाञ्छंसितुमर्हति।
सर्पसत्रविधानज्ञा विज्ञेयाः के च सूतज॥ 1-53-3
सौतिरुवाच
हन्त ते कथयिष्यामि नामानीह मनीषिणाम्।
ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा॥ 1-53-4
तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः।
च्यवनस्यान्वये ख्यातो विप्रो[जातो] वेदविदां वरः॥ 1-53-5
उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सोऽथ जैमिनिः।
ब्रह्माभवच्छार्ङ्गरवोऽथाध्वर्युश्चापि पिङ्गलः॥ 1-53-6
सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान्।
उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः॥ 1-53-7
असितो देवलश्चैव नारदः पर्वतस्तथा।
आत्रेयः कुण्डजठरौ द्विजः कालघटस्तथा॥ 1-53-8
वात्स्यः श्रुतश्रवा वृद्धो जपस्वाध्यायशीलवान्।
कोहलो देवशर्मा च मौद्गल्यः समसौरभः॥ 1-53-9
एते चान्ये च बहवो ब्राह्मणा वेदपारगाः।
सदस्याश्चाभवंस्तत्र सत्रे पारीक्षितस्य ह॥ 1-53-10
जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ।
अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः॥ 1-53-11
वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः।
ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा॥ 1-53-12
पततां चैव नागानां धिष्ठितानां तथाम्बरे।
अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम्॥ 1-53-13
तक्षकस्तु स नागेन्द्रः पुरन्दरनिवेशनम्।
गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम्॥ 1-53-14
ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः।
अगच्छच्छरणं भीत आगस्कृत्वा[आगः कृत्वा] पुरन्दरम्॥ 1-53-15
तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक।
भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कदाचन॥ 1-53-16
प्रसादितो मया पूर्वं तवार्थाय पितामहः।
तस्मात्तव भयं नास्ति व्येतु ते मानसोज्वरः॥ 1-53-17
सौतिरुवाच
एवमाश्वासितस्तेन ततः स भुजगोत्तमः।
उवास भवने तस्मिञ्छक्रस्य मुदितः सुखी॥ 1-53-18
अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः।
अल्पशेषपरीवारो वासुकिः पर्यतप्यत॥ 1-53-19
कश्मलं चाविशद्घोरं वासुकिं पन्नगोत्तमम्।
स घूर्णमानहृदयो भगिनीमिदमव्रवीत्॥ 1-53-20
दह्यन्त्यङ्गानि मे भद्रे न दिशः प्रतिभान्ति च।
सीदामीव च सम्मोहात्घूर्णतीव च मे मनः॥ 1-53-21
दृष्टिर्भ्राम्यति मेऽतीवि हृदयं दीर्यतीव च।
पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ॥ 1-53-22
पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया।
व्यक्तं मयापि गन्तव्यं प्रेतराजनिवेशनम्॥ 1-53-23
अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः।
जरत्कारौ मया दत्ता त्रायस्वास्मान्सबान्धवान्॥ 1-53-24
आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे।
प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः॥ 1-53-25
तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसम्मतम्।
ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम्॥ 1-53-26
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे वासुकिवाक्ये त्रिपञ्चाशत्तमोऽध्यायः॥ 53 ॥
चतुष्पञ्चाशत्तमोऽध्यायः
आस्तीकपर्व
मातुराज्ञया मातुलमाश्वास्यास्तीकस्य सर्पसत्रे गमनम्।
सौतिरुवाच
तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा।
वासुकेर्नागराजस्य वचनादिदमब्रवीत्॥ 1-54-1
अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः।
कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम्॥ 1-54-2
आस्तीक उवाच
किं निमित्तं मम पितुर्दत्ता त्वं मातुलेन मे।
तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा॥ 1-54-3
सौतिरुवाच
तत आचष्ट सा तस्मै बान्धवानां हितैषिणी।
भगिनी नागराजस्य जरत्कारुरविक्लवा॥ 1-54-4
जरत्कारुरुवाच
पन्नगानामशेषाणां माता कद्रूरिति श्रुता।
तया शप्ता रुषितया सुता यस्मान्निबोध तत्॥ 1-54-5
उच्चैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम।
विनतार्थाय पणितं[ते] दासीभावाय पुत्रकाः॥ 1-54-6
जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः।
तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ॥ 1-54-7
तां च शप्तवतीं देवः साक्षाल्लोकपितामहः।
एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च॥ 1-54-8
वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा।
अमृते मथिते तात देवाञ्छरणमीयिवान्॥ 1-54-9
सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम्।
भ्रातरं मे पुरस्कृत्य पितामहमुपागमन्॥ 1-54-10
ते तं प्रसादयामासुः सुराः सर्वेऽब्जसम्भवम्।
राज्ञा वासुकिना सार्धं शापोऽसौ न भवेदिति॥ 1-54-11
देवा ऊचुः
वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात्।
अभिशापः स मातुस्तु भगवन्न भवेत्कथम्॥ 1-54-12
ब्रह्मोवाच
जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति।
तत्र जातो द्विजः शापान्मोच[क्ष]यिष्यति पन्नगान्॥ 1-54-13
एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगोत्तमः।
प्रादान्माममरप्रख्य तव पित्रे महात्मने॥ 1-54-14
प्रागेवानागते काले तस्मात्त्वं मय्यजायथाः।
अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि॥ 1-54-15
भ्रातरं चापि मे तस्मात्त्रातुमर्हसि पावकात्।
न मोघं तु कृतं तत्स्याद्यदहं तव धीमते॥ 1-54-16
पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे।
सौतिरुवाच
एवमुक्तस्तथेत्युक्त्वा सो[सा]स्तीको मातरं तदा॥ 1-54-17
अब्रवीद्दुःखसंतप्तं वासुकिं जीवयन्निव।
अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम॥ 1-54-18
तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते।
भव स्वस्थमना नाग न हि ते विद्यते भयम्॥ 1-54-19
प्रयतिष्ये तथा राजन्यथा श्रेयो भविष्यति।
न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा॥ 1-54-20
तं वै नृपवरं गत्वा दीक्षितं जनमेजयम्।
वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल॥ 1-54-21
यथा स यज्ञो नृपतेर्निवर्तिष्यति सत्तम।
स सम्भावय नागेन्द्र मयि सर्वं महामते।
न ते मयि मनो जातु मिथ्या भवितुमर्हति॥ 1-54-22
वासुकिरुवाच
आस्तीक परिघूर्णामि हृदयं मे विदीर्यते।
दिशो न प्रतिजानामि ब्रह्मदण्डनिपीडितः॥ 1-54-23
आस्तीक उवाच
न संतापस्त्वया कार्यः कथंचित्पन्नगोत्तम।
प्रदीप्ताग्नेः समुत्पन्नं नाशयिष्यामि ते भयम्॥ 1-54-24
ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम्।
नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन॥ 1-54-25
सौतिरुवाच
ततः स वासुकेर्घोरमपनीय मनोज्वरम्।
आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम्।
जनमेजयस्य तं यज्ञं सर्वैः समुदितैः[तं] गुणैः॥ 1-54-26
मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः।
स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम्॥ 1-54-27
वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः।
स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः।
अभितुष्टाव तं यज्ञं प्रवेशार्थी परन्तपः॥ 1-54-28
स प्राप्य यज्ञायतनं वरिष्ठं द्विजोत्तमः पुण्यकृतां वरिष्ठः।
तुष्टाव राजानमनन्तकीर्तिमृत्विक्सदस्यांश्च तथैव चाग्निम्॥ 1-54-29
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे आस्तीकगमने चतुष्पञ्चाशत्तमोऽध्यायः॥ 54 ॥
पञ्चपञ्चाशत्तमोऽध्यायः
आस्तीकपर्व
आस्तीककर्तृका यजमानयज्ञर्त्विक्सदस्याग्निस्तुतिः
आस्तीक उवाच
सोमस्य यज्ञो वरुणस्य यज्ञः प्रजापतेर्यज्ञ आसीत्प्रयागे।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-1
शक्रस्य यज्ञः शतसंख्य उक्तस्तथा परं[पूरो]स्तुल्यसंख्यं शतं वै।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-2
यमस्य यज्ञो हरिमेधसश्च यथा यज्ञो रन्तिदेवस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-3
गयस्य यज्ञः शशबिन्दोश्च राज्ञो यज्ञस्तथा वैश्रवणस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-4
नृगस्य यज्ञः तुअजमीढस्य चासीद्यथा यज्ञो दाशरथेश्च राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-5
यज्ञः श्रुतो दिवि देवस्य सूनोर्युधिष्ठिरस्याजमीढस्य राज्ञः।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-6
@दिलीपराज्ञो नहुषस्य राज्ञो नलस्य राज्ञश्शतबिन्दोश्च राज्ञः।
तथा यज्ञोऽयं तव भारताग्रय पारीक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥@
कृष्णस्य यज्ञः सत्यवत्याः सुतस्य स्वयं च कर्म प्रचकार यत्र।
तथा यज्ञोऽयं तव भारताग्र्य पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः॥ 1-55-7
इमे च ते सूर्यसमानवर्चसः समासते वृत्रहणः क्रतुं यथा।
नैषां ज्ञातुं विद्यते ज्ञानमद्य दत्तं येभ्यो न प्रणश्येत्कदाचित्॥ 1-55-8
ऋत्विक्समो नास्ति हि भूतलेऽस्मिन्[लोकेषु चैव] द्वैपायनेनेति विनिश्चितं मे।
एतस्य शिष्याः हि क्षितिं सञ्चरन्ति [क्षितिमाचरन्ति] सर्वर्त्विजः कर्मसु स्वेषु दी[द]क्षाः॥ 1-55-9
विभावसुश्चित्रभानुर्महात्मा हिरण्यरेता हुतभुक्कृष्णवर्त्मा।
प्रदक्षिणावर्तशिखः प्रदीप्तो हव्यं तवेदं हुतभुग्वष्टि देवः॥ 1-55-10
नेह त्वदन्यो विद्यते जीवलोके समो नृपः पालयिता प्रजानाम्।
दिष्ट्या[धृत्या] च ते प्रीतमनाः सदाहं त्वं वा वरुणो धर्मराजो यमो वा॥ 1-55-11
शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्।
मतस्त्वं नः पुरुषेन्द्रेह लोके न च त्वदन्यो भूपतिरस्ति य[ज]ज्ञे॥ 1-55-12
खट्वाङ्गनाभागदिलीपकल्प ययातिमान्धातृसमप्रभाव।
आदित्यतेजः प्रतिमानतेजा भीष्मो यथा राजसु[सि] सुव्रतस्त्वम्॥ 1-55-13
वाल्मीकिवत्ते निभृतं स्ववीर्यं वसिष्ठवत्ते नियतश्च कोपः।
प्रभुत्वभिन्द्रत्वसमं मतं मे द्युतिश्च नारायणवद्विभाति॥ 1-55-14
यमो यथा धर्मविनिश्चयज्ञः कृष्णो यथा सर्वगुणोपपन्नः।
श्रियां निवासोऽसि यथा वसूनां निधानभूतोऽपि[सि] तथा क्रतूनाम्॥ 1-55-15
दम्भोद्भवेनासि समो बलेन रामो यथा शास्त्रविदस्त्रविच्च।
और्वत्रिताभ्यामसि तुल्यतेजा दुष्प्रेक्षणीयोऽसि भगीरथेन॥ 1-55-16
सौतिरुवाच
एवं स्तुताः सर्व एव प्रसन्ना राजा सदस्या ऋत्विजो हव्यवाहः।
तेषां दृष्ट्वा भावितानीङ्गितानि प्रोवाच राजा जनमेजयोऽथ॥ 1-55-17
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे आस्तीककृतराजस्तवे पञ्चपञ्चाशत्तमोऽध्यायः॥ 55 ॥
षट्पञ्चाशत्तमोऽध्यायः
आस्तीकपर्व
राज्ञ आस्तीकाय वरं दातुमिच्छा तक्षकव्याकुलताऽऽस्तीककर्तृकं वरप्रार्थनं च
जनमेजय उवाच
बालोऽप्ययं स्थविर इवावभाषते नायं बालः स्थविरोऽयं मतो मे।
इच्छाम्यहं वरमस्मै प्रदातुं तन्मे विप्राः संविदध्वं यथावत्॥ 1-56-1
सदस्या ऊचुः
बालोऽपि विप्रो मान्य एवेह राज्ञां विद्वान्यो वै स पुनर्वै यथावत्।
सर्वान्कामांस्त्वत्त एवार्हतेऽद्य यथा च नस्तक्षक एति शीघ्रम्॥ 1-56-2
सौतिरुवाच
व्याहर्तुकामे वरदे नृपे द्विजं वरं वृणीष्वेति ततोऽभ्युवाच।
होता वाक्यं नातिहृष्टान्तरात्मा कर्मण्यस्मिंस्तक्षको नैति तावत्॥ 1-56-3
जनमेजय उवाच
यथा चेदं कर्म समाप्यते मे यथा च वै तक्षक एति शीघ्रम्।
तथा भवन्तः प्रयतन्तु सर्वे परं शक्त्या स हि मे विद्विषाणः॥ 1-56-4
ऋत्विज ऊचुः
यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः।
इन्द्रस्य भवने राजंस्तक्षको भयपीडितः॥ 1-56-5
यथा सूतो लोहिताक्षो महात्मा पौराणिको वेदितवान्पुरस्तात्।
स राजानं प्राह पृष्टस्तदानीं यथाहुर्विप्रास्तद्वदेतन्नृदेव॥ 1-56-6
पुराणमागम्य ततो ब्रवीम्यहं दत्तं तस्मै वरमिन्द्रेण राजन्।
वसेह त्वं मत्सकाशे सुगुप्तो न पावकस्त्वां प्रदहिष्यतीति॥ 1-56-7
एतच्छ्रुत्वा दीक्षितस्तप्यमान आस्ते होतारं चोदयन्कर्मकाले।
होता च यत्तोऽस्याजुहावाथ मन्त्रैरथोऽमरेन्द्रः स्वयमाजगाम॥ 1-56-8
@आयातु चेन्द्रोऽपि सतक्षकः पतेद्विभावसौ नागराजेन तूर्णम्।
जम्भस्य हन्तेति जुहाव होता तदा जगामाहिदत्ताभयः प्रभुः॥@
विमानमारुह्य महानुभावः सर्वैर्देवैः परिसंस्तूयमानः।
बलाहकैश्चाप्यनुगम्यमानो विद्याधरैरप्सरसां गणैश्च॥ 1-56-9
तस्योत्तरीये निहितः स नागो भयोद्विग्नः शर्म नैवाभ्यगच्छत्।
ततो राजा मन्त्रविदोऽब्रवीत्पुनः क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन्॥ 1-56-10
जनमेजय उवाच
इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः।
तमिन्द्रेणैव सहितं पातयध्वं विभावसौ॥ 1-56-11
@न त्यजेद्यदिदं चेन्द्रः स नागं तक्षकं तथा।@
सौतिरुवाच
जनमेजयेन राज्ञा तु चो[नो]दितस्तक्षकं प्रति।
होता जुहाव तत्रस्थं तक्षकं पन्नगं तथा॥ 1-56-12
हूयमाने तथा चैव तक्षकः सपुरन्दरः।
आकाशे ददृशे चैव क्षणेन व्यथितस्तदा॥ 1-56-13
पुरन्दरस्तु तं यज्ञं दृष्ट्वोरुभयमाविशत्।
हित्वा तु तक्षकं त्रस्तः स्वमेव भवनं ययौ॥ 1-56-14
इन्द्रे गते तु नागेन्द्रस्तक्षको भयमोहितः।
मन्त्रशक्त्या पावकार्चिःसमीपमवशो गतः॥ 1-56-15
@तं दृष्ट्वा ऋत्विजस्तत्रवचनं चेदमब्रुवन्।@
ऋत्विज ऊचुः
वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो।
अस्मै तु विप्र[द्विज]मुख्याय वरं त्वं दातुमर्हसि॥ 1-56-16
जनमेजय उवाच
बालाभिरूपस्य तवाप्रमेय वरं प्रयच्छामि त[य]थानुरूपम्।
वृणीष्व यत्तेऽभिमतं हृदि स्थितं तत्ते प्रदास्याम्यपि चेददेयम्॥ 1-56-17
ऋत्विज ऊचुः
अयमायाति तूर्णं स तक्षकस्ते वशं नृप।
श्रूयतेऽस्य महान्नादो नदतो भैरवं रवम्॥ 1-56-18
नूनं मुक्तो वज्रभृता स नागो भ्रष्टो नाकान्मन्त्रविस्रस्तकायः।
घूर्णन्नाकाशे नष्टसंज्ञोऽभ्युपैति तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः॥ 1-56-19
सौतिरुवाच
पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि।
इदमन्तरमित्येवं[व] तदाऽऽस्तीकोऽभ्यचोदयत्॥ 1-56-20
आस्तीक उवाच
वरं ददासि चेन्मह्यं वृणोमि जनमेजय।
सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः॥ 1-56-21
एवमुक्तस्तदा तेन ब्रह्मन्पारिक्षितस्तु सः।
नातिहृष्टमनाश्चेदमास्तीकं वाक्यमब्रवीत्॥ 1-56-22
सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो।
तं[तत्] ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम॥ 1-56-23
आस्तीक उवाच
सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम्।
सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः॥ 1-56-24
सौतिरुवाच
आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा।
पुनः पुनरुवाचेदमास्तीकं वदतां वरः॥ 1-56-25
अन्यं वरय भद्रं ते वरं द्विजवरोत्तम।
अयाचत न चाप्यन्यं वरं स भृगुनन्दन॥ 1-56-26
ततो वेदविदस्तात सदस्याः सर्व एव तम्।
राजानमूचुः सहिता लभतां ब्राह्मणो वरम्॥ 1-56-27
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि आस्तीकवरप्रदानं नाम षट्पञ्चाशत्तमोऽध्यायः॥ 56 ॥
सप्तपञ्चाशत्तमोऽध्यायः
आस्तीकपर्व
सर्पसत्रे दग्धानां प्रमुखनागानां नामानि
शौनक उवाच
ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने।
तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज॥ 1-57-1
सौतिरुवाच
सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च।
न शक्यं परिसंख्यातुं बहुत्वाद्द्विजसत्तम॥ 1-57-2
यथास्मृति तु नामानि पन्नगानां निबोध मे।
उच्यमानानि मुख्यानां हुतानां जातवेदसि॥ 1-57-3
वासुकेः कुलजातांस्तु प्राधान्येन निबोध मे।
नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान्॥ 1-57-4
अवशान्मातृवाग्दण्डपीडितान्कृपणान्हुतान्।
कोटिशो मानसः पूर्णः शलः सा[पा]लो हलीश[म]कः॥ 1-57-5
पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः।
हिरण्यबाहुः शरणः कक्षकः कालदन्तकः॥ 1-57-6
एते वासुकिजा नागाः प्रविष्टा हव्यवाहने।
अन्ये च बहवो विप्र तथा वै कुलसम्भवाः॥ 1-57-7
प्रदीप्ताग्नौ हुताः सर्वे घोररूपा महाबलाः।
तक्षकस्य कुले जाताः[न्] प्रवक्ष्यामि निवोध तान्॥ 1-57-8
पुच्छाण्डको मण्डलकः पिण्डसेक्ता रभेणकः।
उच्छिखः शरभो भङ्गो बिल्वतेजा विरोहणः॥ 1-57-9
शिती[ली] शलकरो मूकः सुकुमारः प्रवेपनः।
मुद्गरः शिशुरोमा च सुरोमा च महाहनुः॥ 1-57-10
एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम्।
पारावतः पारिजातः पाण्डरो हरिणः कृशः॥ 1-57-11
विहङ्गः शरभो मेदः प्रमोदः संहतापनः।
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्॥ 1-57-12
कौरव्यकुलजान्नागाञ्छृणु मे त्वं द्विजोत्तम।
एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः॥ 1-57-13
बाहुकः शृङ्गवेरश्च धूर्तकः प्रातरातकौ।
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्॥ 1-57-14
धृतराष्ट्रकुले जाताञ्छृणु नागान्यथातथम्।
कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान्॥ 1-57-15
शङ्कुकर्णः पिठरकः कुठारसु[मु]खसेचकौ।
पूर्णाग[ङ्ग]दः पूर्णमुखः प्रहासः शकुनिर्दरिः॥ 1-57-16
अमाहठः कामठकः सुषेणो मानसोऽव्ययः।
भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपाठ[र]कः॥ 1-57-17
ऋषभो वेगवान्नागः पिण्डारकमहाहनू।
रक्ताङ्गः सर्वसारङ्गः समृद्धपटवासकौ॥ 1-57-18
वराहको वीरणकः सुचित्रश्चित्रवेगिकः।
पराशरस्तरुणको मणिः स्कन्धस्तथारुणिः॥ 1-57-19
इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः।
प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः॥ 1-57-20
एतेषां प्रसवो यश्च प्रसवस्य च संततिः।
न शक्यं परिसंख्यातुं ये दीप्तं पावकं गताः॥ 1-57-21
त्रिशीर्षाः सप्तशीर्षाश्च दशशीर्षास्तथापरे।
कालानलविषा घोरा हुताः शतसहस्रशः॥ 1-57-22
महाकाया महावेगाः शैलशृङ्गसमुच्छ्रयाः।
योजनायामविस्तारा द्वियोजनसमायताः॥ 1-57-23
कामरूपाः कामबला दीप्तानलविषोल्बणाः।
दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः॥ 1-57-24
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पनामकथने सप्तपञ्चाशत्तमोऽध्यायः॥ 57 ॥
अष्टपञ्चाशत्तमोऽध्यायः
आस्तीकपर्व
सर्पसत्रसमाप्तिरास्तीकाय सर्पेभ्यो वरप्राप्तिः
सौतिरुवाच
इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम।
तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन हि॥ 1-58-1
इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत।
ततश्चिन्तापरो राजा बभूव जनमेजयः॥ 1-58-2
हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि।
न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः॥ 1-58-3
शौनक उवाच
किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्।
न प्रत्यभात्तदाग्नौ यत्स पपात न तक्षकः॥ 1-58-4
सौतिरुवाच
तमिन्द्रहस्ताद्विस्र[त्र]स्तं विसंज्ञं पन्नगोत्तमम्।
आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदी[दै]रयत्॥ 1-58-5
वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता।
यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः॥ 1-58-6
ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्।
काममेतद्भवत्वेवं यथाऽऽस्तीकस्य भाषितम्॥ 1-58-7
समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः।
प्रीयतामयमास्तीकः सत्यं सूति[त]वचोऽस्तु तत्॥ 1-58-8
ततो हलहलाशब्दः प्रीतिदः समजायत।
आस्तीकस्य वरे दत्ते तथैवोपरराम च॥ 1-58-9
स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह।
@समापिते ततस्सत्रे विधिवद्विधिदर्शिभिः।@
प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः॥ 1-58-10
ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः।
तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः॥ 1-58-11
लोहिताक्षाय सूताय तथा स्थपतये विभुः।
येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने॥ 1-58-12
निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु।
दत्त्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम्॥ 1-58-13
प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः।
ततश्चकारावभृथं विधिदृष्टेन कर्मणा॥ 1-58-14
आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतम्।
राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्॥ 1-58-15
पुनरागमनं कार्यमिति चैनं वचोऽव्रवीत्।
भविष्यसि सदस्यो मे वाजिमेघे महाक्रतौ॥ 1-58-16
तथेत्युक्त्वा प्रदुद्राव तदाऽऽस्तीको मुदा युतः।
कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्॥ 1-58-17
स गत्वा परमप्रीतो मातुलं मातरं च ताम्।
अभिगम्योपसंगृह्य तथावृत्तं न्यवेदयत्॥ 1-58-18
सौतिरुवाच
एतच्छ्रुत्वा प्रीयमाणाः समेता ये तत्रासन्पन्नगा वीतमोहाः।
आस्तीके वै प्रीतिमन्तो बभूवुरूचुश्चैनं वरमिष्टं वृणीष्व॥ 1-58-19
भूयो भूयः सर्वशस्तेऽब्रुवंस्तं किं ते प्रियं करवामाद्य विद्वन्।
प्रीता वयं मोक्षिताश्चैव सर्वे कामं किं ते करवामाद्य वत्स॥ 1-58-20
आस्तीक उवाच
सायं प्रातर्ये प्रसन्नात्मरूपा लोके विप्रा मानवा ये परेऽपि।
धर्माख्यानं ये पठेयुर्ममेदं तेषां युष्मन्नैव किंचिद्भयं स्यात्॥ 1-58-21
तैश्चाप्युक्तो भागिनेयः प्रसन्नैरेतत्सत्यं काममेवं वरं ते।
प्रीत्या युक्ताः कामितं सर्वशस्ते कर्तारः स्म प्रवणा भागिनेय॥ 1-58-22
असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्।
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्॥ 1-58-23
यो जरत्कारुणा जातो जरत्कारौ महायशाः।
आस्तीकः सर्पसत्रेः वः पन्नगान्योऽभ्यरक्षत॥ 1-58-24
तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ।
@अस्तीकं चार्तिमन्तं च सुनीथं चापि यस्स्मरेत्।
दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्॥
इत्येवं नागराजोऽथ सर्पाणां मध्यगस्तदा।
उम्त्वा सहैव तैस्सर्पैः स्वमेव भवनं ययौ॥@
सर्पापसर्प भद्रं ते गच्छ सर्प महाविष॥ 1-58-25
जनमेजयस्य यज्ञान्ते ह्या[आ]स्तीकवचनं स्मर।
आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते।
शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा॥ 1-58-26
सूत उवाच [सौतिरुवाच]
स एवमुक्तस्तु तदा द्विजेन्द्रः समागतैस्तैर्भुजगेन्द्रमुख्यैः।
सम्प्राप्य प्रीतिं विपुलां महात्मा ततो मनो गमनायाथ दध्रे॥ 1-58-27
मोक्षयित्वा तु भुजगान्सर्पसत्राद्द्विजोत्तम[मः]।
जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्॥ 1-58-28
इत्याख्यानं मयाऽऽस्तीकं यथावत्तव कीर्तितम्।
यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्॥ 1-58-29
यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव।
पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम॥ 1-58-30
यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया।
आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः॥ 1-58-31
श्रुत्वा धर्मिष्ठामाख्यानमास्तीकं पुण्यवर्धनम्।
यन्मां त्वं पृष्टवान्ब्रह्मञ्छ्रुत्वा डुण्डुभभाषितम्।
व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिन्दम॥ 1-58-32
इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे अष्टपञ्चाशत्तमोऽध्यायः॥ 58 ॥
एकोनषष्टितमोऽध्यायः
अंशावतरणपर्व
महाभारतकथाश्रवणोपक्रमः
शौनक उवाच
भृगुवंशात्प्रभृत्येव त्वया मे कीर्तितं महत्।
आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते॥ 1-59-1
वक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन।
याः कथा व्याससम्पन्नास्ताश्च भूयो विचक्ष्व मे॥ 1-59-2
तस्मिन्परमदुष्पारे सर्पसत्रे महात्मनाम्।
कर्मान्तरेषु यज्ञस्य सदस्यानां तथाध्वरे॥ 1-59-3
या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम्।
त्वत्त इच्छामहे श्रोतुं सौते त्वं वै प्रचक्ष्व नः॥ 1-59-4
सौतिरुवाच
कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः।
व्यासस्त्वकथयच्चित्रमाख्यानं भारतं महत्॥ 1-59-5
शौनक उवाच
महाभारतमाख्यानं पाण्डवानां यशस्करम्।
जनमेजयेन पृष्टः सन्कृष्णद्वैपायनस्तदा॥ 1-59-6
श्रावयामास विधिवत्तदा कर्मान्तरे तु सः।
तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम्॥ 1-59-7
मनःसागरसम्भूतां महर्षेर्भावितात्मनः।
कथयस्व सतां श्रेष्ठ नहि तुष्यामि सूतज[सर्वरत्नमयीमिमाम्]॥ 1-59-8
सौतिरुवाच
हन्त ते कथयिष्यामि महदाख्यानमुत्तमम्।
कृष्णद्वैपायनमतं महाभारतमादितः॥ 1-59-9
शृणु सर्वमशेषेण कथ्यमानं मया द्विज।
शंसितुं तन्महान्हर्षो ममापीह प्रवर्तते॥ 1-59-10
इति श्रीमहाभारते आदिपर्वणि अंशावतरणपर्वणि कथानुबन्धे एकोनषष्टितमोऽध्यायः॥ 59 ॥
षष्टितमोऽध्यायः
अंशावतरणपर्व
सर्पसत्रे व्यासस्यागमनं सत्कारश्च राज्ञः प्रार्थनया व्यासस्य वैशम्पायनं प्रति राज्ञे महाभारतकथां श्रावयितुमादेशः
सौतिरुवाच
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम्।
अभ्यगच्छद्दषिर्विद्वान्कृष्णद्वैपायनस्तदा॥ 1-60-1
जनयामास यं काली शक्तेः पुत्रात्पराशरात्।
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम्॥ 1-60-2
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत्।
वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः॥ 1-60-3
यन्नैति तपसा कश्चिन्न वेदाध्ययनेन च।
न व्रतैर्नोपवासैश्च न प्रसूत्या[प्रशान्त्या] न मन्युना॥ 1-60-4
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः।
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः॥ 1-60-5
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत्।
शान्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः॥ 1-60-6
जनमेजयस्य राजर्षेः स महात्मा सदस्तदा।
विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः॥ 1-60-7
तत्र राजानमासीनं ददर्श जनमेजयम्।
वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम्॥ 1-60-8
तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः।
ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे॥ 1-60-9
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम्।
सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः॥ 1-60-10
काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः।
आसनं कल्पयामास यथा शक्रो बृहस्पतेः॥ 1-60-11
तत्रोपविष्टं वरदं देवर्षिगणपूजितम्।
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा॥ 1-60-12
पाद्यमाचमनीयं चाप्यर्घ्यं[च अर्घ्यं] गां च विधानतः।
पितामहाय कृष्णाय तदर्हाय न्यवेदयत्॥ 1-60-13
प्रतिगृह्य तु तां पूजां पाण्डवाज्जनमेजयात्।
गां चैव समनुज्ञाप्य व्यासः प्रीतोऽभवत्तदा॥ 1-60-14
तथा च पूजयित्वा तं प्रणयात्प्रपितामहम्।
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम्॥ 1-60-15
भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च।
सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत्॥ 1-60-16
ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः।
इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः॥ 1-60-17
जनमेजय उवाच
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान्।
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज॥ 1-60-18
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम्।
तच्च युद्वं कथं वृत्तं भूतान्तकरणं महत्॥ 1-60-19
पितामहानां सर्वेषां दैवेनानिष्टचेतसाम्।
कार्त्स्न्येनैतन्ममाचक्ष्व यथावृत्तं द्विजोत्तम॥ 1-60-20
सौतिरुवाच
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा।
शशास शिष्यमासीनं वैशम्पायनमन्तिके॥ 1-60-21
व्यास उवाच
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि॥ 1-60-22
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तथा।
आचचक्षे ततः सर्वमितिहासं पुरातनम्॥ 1-60-23
राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः।
भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा॥ 1-60-24
इति श्रीमहाभारते आदिपर्वणि अंशावतरणपर्वणि कथानुबन्धे षष्टितमोऽध्यायः॥ 60 ॥
एकषष्टितमोऽध्यायः
अंशावतरणपर्व
कौरवपाण्डवभेदमूलकजतुगृहदाहादियुद्धान्तवृत्तान्तस्य संक्षेपतो वर्णनम्
वैशम्पायन उवाच
@शृणु राजन्यथा वीरा भ्रातरः पञ्च पाण्डवाः।
विरोधमन्वगच्छन्त धार्तराष्ट्रैर्दुरात्मभिः॥@
गुरवे प्राङ्नमस्कृत्य मनोबुद्विसमाधिभिः।
सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान्॥ 1-61-1
महर्षेर्विश्रुतस्येह सर्वलोकेषु धीमतः।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यास्य महात्मनः॥ 1-61-2
श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम्।
गुरोर्वक्त्रपरिस्पन्दो मनः प्रोत्साहतीव मे॥ 1-61-3
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत्।
राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च॥ 1-61-4
यथा च युद्धमभवत्पृथिवीक्षयकारकम्।
तत्तेऽहं कथयिष्यामि पृच्छते भरतर्षभ॥ 1-61-5
मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम्।
न चिरादेव विद्वांसो वेदे धनुषि चाभवन्॥ 1-61-6
तांस्तथा सत्त्ववीर्यौजः सम्पन्नान्पौरसम्मतान्।
नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्छ्रीयशोभृतः॥ 1-61-7
ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः।
तेषां निग्रहनिर्वासान्विविधांस्ते समारभन्॥ 1-61-8
ततो दुर्योधनः शूरः कुलिङ्गस्य मते स्थितः।
पाण्डवान्विविधोपायै राज्यहेतोरपीडयत्॥ 1-61-9
ददावथ विषं पापो भीमाय धृतराष्ट्रजः।
जरयामास तद्वीरः सहान्नेन वृकोदरः॥ 1-61-10
प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम्।
तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत्॥ 1-61-11
यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम्।
उदतिष्ठन्महाबाहुर्भीमसेनो गतव्यथः॥ 1-61-12
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्।
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा॥ 1-61-13
@उपायैर्विविधैः क्षुद्रस्संवृतैर्विवृतैरपि।
पाण्डवान्पीडयामास न च किञ्चिदसाधयत्॥@
तेषां तु विप्रकारेषु तेषु तेषु महामतिः।
मोक्षणे प्रतिकारे च विदुरोऽवहितोऽभवत्॥ 1-61-14
स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः।
पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः॥ 1-61-15
यदा तु विविधोपायैः संवृतैर्विवृतैरपि।
नाशकद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान्॥ 1-61-16
ततः सम्मन्त्र्य सचिवैर्वृषदुःशासनादिभिः।
धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत्॥ 1-61-17
सुतप्रियैषी तान्राजा पाण्डवानम्बिकासुतः।
ततो विवासयामास राज्यभोगबुभुक्षया॥ 1-61-18
ते प्रातिष्ठन्त सहिता नगरान्नागसाह्वयात्।
प्रस्थाने चाभवन्मन्त्री क्षत्ता तेषां महात्मनाम्॥ 1-61-19
तेन मुक्ता जतुगृहान्निशीथे प्राद्रवन्वनम्।
ततः सम्प्राप्य कौन्तेया नगरं वारणावतम्॥ 1-61-20
न्यवसन्त महात्मानो मात्रा सह परन्तपाः।
धृतराष्ट्रेण चाज्ञप्ता उषिता जातुषे गृहे॥ 1-61-21
पुरोचनाद्रक्षमाणाः संवत्सरमतन्द्रिताः।
सुरुङ्गां कारयित्वा तु विदुरेण प्रचोदिताः॥ 1-61-22
आदीप्य जातुषं वेश्म दग्ध्वा चैव पुरोचनम्।
प्राद्रवन्भयसंविग्ना मात्रा सह परन्तपाः॥ 1-61-23
ददृशुर्दारुणं रक्षो हिडिम्बं वननिर्झरे।
हत्वा च तं राक्षसेन्द्रं भीताः समवबोधनात्॥ 1-61-24
निशि सम्प्राद्रवन्पार्था धार्तराष्ट्रभयार्दिताः।
प्राप्ता हिडिम्बा भीमेन यत्र जातो घटोत्कचः॥ 1-61-25
एकचक्रां ततो गत्वा पाण्डवाः संशितव्रताः।
वेदाध्ययनसम्पन्नास्तेऽभवन्ब्रह्मचारिणः॥ 1-61-26
ते तत्र नियताः कालं कञ्चिदूषुर्नरर्षभाः।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने॥ 1-61-27
तत्राससाद क्षुधितं पुरुषादं वृकोदरः।
भीमसेनो महाबाहुर्बकं नाम महाबलम्॥ 1-61-28
तं चापि पुरुषव्याघ्रो बाहुवीर्येण पाण्डवः।
निहत्य तरसा वीरो नागरान्पर्यसान्त्वयत्॥ 1-61-29
ततस्ते शुश्रुवुः कृष्णां पञ्चालेषु स्वयंवराम्।
श्रुत्वा चैवाभ्यगच्छन्त गत्वा चैवालभन्त ताम्॥ 1-61-30
ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः।
विदिता हास्तिनपुरं प्रत्याजग्मुररिन्दमाः॥ 1-61-31
त[ते] उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च।
भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति॥ 1-61-32
अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः।
तस्माज्जनपदोपेतं सुविभक्तमहापथम्॥ 1-61-33
वासाय खाण्डवप्रस्थं व्रजध्वं गतमत्सराः।
तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः॥ 1-61-34
नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः।
तत्र ते न्यवसन्पार्थाः संवत्सरगणान्बहून्॥ 1-61-35
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीभृतः।
एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः॥ 1-61-36
अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितान्बहून्।
अजयद्भीमसेनस्तु दिशं प्राचीं महायशाः॥ 1-61-37
उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा।
दक्षिणां सहदेवस्तु विजिग्ये परवीरहा॥ 1-61-38
एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम्।
पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता॥ 1-61-39
षट्सूर्येवाभवत्पृथ्वी पाण्डवैः सत्यविक्रमैः।
ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः॥ 1-61-40
वनं प्रस्थापयामास तेजस्वी सत्यविक्रमः।
प्राणेभ्योऽपि प्रियतरं भ्रातरं सव्यसाचिनम्॥ 1-61-41
अर्जुनं पुरुषव्याघ्रं स्थितात्मानं[स्थिरात्मानं] गुणैर्युतम्।
(धैर्यात्सत्याच्च धर्माच्च विजयाच्चाधिकप्रियः
अर्जुनो भ्रातरं ज्येष्ठं नात्यवर्तत जातुचित्॥)
स वै संवत्सरं पूर्णं मासं चैकं वने वसन्॥ 1-61-42
(तीर्थयात्रां च कृतवान्नागकन्यामवाप्य च।
पाण्ड्यस्य तनयां लब्ध्वा तत्र ताभ्यां सहोषितः॥)
ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन।
लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम्॥ 1-61-43
अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम्।
सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता॥ 1-61-44
सुभद्रा युयुजे प्रीत्या पाण्डवेनार्जुनेन ह।
अतर्पयच्च कौन्तेयः खण्डवे हव्यवाहनम्॥ 1-61-45
बीभत्सुर्वासुदेवेन सहितो नृपसत्तम।
नातिभारो हि पार्थस्य केशवेन सहाभवत्॥ 1-61-46
व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव।
पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम्॥ 1-61-47
इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम्।
मोक्षयामास बीभत्सुर्मयं यत्र महासुरम्॥ 1-61-48
स चकार सभां दिव्यां सर्वरत्नसमन्वि[माचि]ताम्।
तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः॥ 1-61-49
ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम्।
वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च॥ 1-61-50
अज्ञातमेकं राष्ट्रे च ततो वर्षं त्रयोदशम्।
ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु॥ 1-61-51
नालभन्त महाराज ततो युद्धमवर्तत।
ततस्ते क्षत्रमुत्साद्य हत्वा दुर्योधनं नृपम्॥ 1-61-52
राज्यं विहतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः।
इष्ट्वा क्रतूश्च सुबहून्हयमेधाधिकांस्ततः॥ 1-61-53
धृतराष्ट्रे गते स्वर्गं विदुरे पञ्चतां गते।
गमयित्वा स्त्रियस्स्वर्गं राज्ञाममिततेजसाम्॥ 1-61-54
विष्णौ च निलयं प्राप्ते कृष्णदारान्प्रधक्ष्य च।
महाप्रस्थानिकं कृत्वा गतास्स्वर्गमनुत्तमम्॥ 1-61-55
एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम्।
भेदो राज्यविनाशाय जयश्च जयतां वर॥ 1-61-56
इति श्रीमहाभारते आदिपर्वणि अंशावतरणपर्वणि भारतसूत्रं नामैकषष्टितमोऽध्यायः॥ 61 ॥
द्विषष्टितमोऽध्यायः
अंशावतरणपर्व
जनमेजयप्रश्नान्समादधता वैशम्पायनेन महाभारतश्रवणपठनमाहात्म्यवर्णनम्
जनमेजय उवाच
कथितं वै समासेन त्वया सर्वं द्विजोत्तम।
महाभारतमाख्यानं कुरूणां चरितं महत्॥ 1-62-1
कथां त्व[नघ]मद्य चित्रार्थां कथयस्व तपोधन।
विस्तरश्रवणे जातं कौतूहलमतीव मे॥ 1-62-2
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ 1-62-3
न तत्कारणमल्पं वै धर्मज्ञा यत्र पाण्डवाः।
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः॥ 1-62-4
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः।
प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तोदुरात्मनाम्॥ 1-62-5
कथं नागायुतप्राणो बाहुशाली वृकोदरः।
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम॥ 1-62-6
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः।
शक्ता सती धार्तराष्ट्रान्नादहत्क्रोधचक्षुषा॥ 1-62-7
कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा।
अन्वयुस्ते नरव्याघ्रो बाध्यमाना दुरात्मभिः॥ 1-62-8
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्।
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः॥ 1-62-9
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः।
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः॥ 1-62-10
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन।
यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः॥ 1-62-11
वैशम्पायन उवाच
क्षणं कुरु महाराज विपुलोऽयमनुक्रमः।
पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः॥ 1-62-12
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः।
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः॥ 1-62-13
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्।
@उपाख्यानैस्सह ज्ञेयं श्राव्यं भारतमुत्तमम्।
संक्षेपेण तु वक्ष्यामि सर्वमेतन्नराधिप।
अध्यायानां सहस्रे द्वे पर्वणां शतमेव च।
श्लोकानां तु सहस्राणि नवतिश्च दशैव च।
ततोऽष्टादशभिः पर्वैः संगृहीतं महात्मना॥@
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा॥ 1-62-14
य इदं श्रावयेद्विद्वान्ये चेदं शृणुयुर्नराः।
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्॥ 1-62-15
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्।
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्॥ 1-62-16
अस्मिन्नर्थश्च कामश्च[धर्मश्च] निखिलेनोपदिश्यते।
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी॥ 1-62-17
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्।
कार्ष्णं वेदमिमं विद्वाञ्छ्रावयित्वार्थमश्नुते॥ 1-62-18
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्।
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः॥ 1-62-19
मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमा यथा।
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा॥ 1-62-20
महीं विजयते राजा शत्रूंश्चापि पराजयेत्।
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्॥ 1-62-21
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा।
वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीम्॥ 1-62-22
धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम्।
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्विना॥ 1-62-23
सम्प्रत्याचक्षते चेदं तथा श्रोष्यन्ति चापरे।
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः॥ 1-62-24
शरीरेण कृतं पापं वाचा च मनसैव च।
सर्वं सन्त्यजति क्षिप्रं य इदं शृणुयान्नरः॥ 1-62-25
भरतानां महज्जन्म शृण्वतामनसूयताम्।
नास्ति व्याधिभयं तेषां परलोकभयं कुतः॥ 1-62-26
धन्यं यशस्यमायुष्यं पुण्यं स्वर्ग्यं तथैव च।
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा॥ 1-62-27
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्।
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्॥ 1-62-28
सर्वविद्यावदातानां लोके प्रथितकर्मणाम्।
य इदं मानवो लोके पुण्यार्थे ब्राह्मणाञ्छुचीन्॥ 1-62-29
श्रावयेत महापुण्यं तस्य धर्मः सनातनः।
कुरूणां प्रथितं वंशं कीर्तयन्सततं शुचिः॥ 1-62-30
वंशमाप्नोति विपुलं लोके पूज्यतमो भवेत्।
योऽधीते भारतं पुण्यं ब्राह्मणो नियतव्रतः॥ 1-62-31
चतुरो वार्षिकान्मासान्सर्वपापैः प्रमुच्यते।
विज्ञेयः स च वेदानां पारगो भारतं पठन्॥ 1-62-32
देवा राजर्षयो ह्यत्र पुण्या ब्रह्मर्षयस्तस्था।
कीर्त्यन्ते धूतपाप्मानः कीर्त्यते केशवस्तथा॥ 1-62-33
@त्रिभिर्वर्षैः महाभागः कृष्णद्वैपायनोऽब्रवीत्।
नित्योत्थितस्सदायोगी महाभारतमादितः॥@
भगवांश्चापि देवेशो यत्र देवी च कीर्त्यते।
अनेकजननो यत्र कार्तिकेयस्य सम्भवः॥ 1-62-34
ब्राह्मणानां गवां चैव माहात्म्यं यत्र कीर्त्यते।
सर्वश्रुतिसमूहोऽयं श्रोतव्यो धर्मबुद्धिभिः॥ 1-62-35
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु।
धूतपाप्मा जितस्वर्गो ब्रह्म गच्छति शाश्वतम्॥ 1-62-36
(यस्तु राजा शृणोतीदमखिलामश्नुते महीम्।
प्रसूते गर्भिणी पुत्रं कन्या चाशु प्रदीयते॥
वणिजः सिद्धयात्राः स्युर्वीरा विजयमाप्नुयुः।
आस्तीकाञ्छ्रावयेन्नित्यं ब्राह्मणाननसूयकान्॥
वेदविद्याव्रतस्नातान्क्षत्रियाञ्जयमास्थितान्।
स्वधर्मनित्यान्वैश्यांश्च श्रावयेत्क्षत्रसंश्रितान्॥
एष धर्मः पुरा दृष्टः सर्वधर्मेषु भारत।
ब्राह्मणाच्छ्रवणं राजन्विशेषेण विधीयते॥
भूयो वा यः पठेन्नित्यं स गच्छेत्परमां गतिम्।
श्लोकं वाप्यनु गृह्णीत तथार्धश्लोकमेव वा॥
अपि पादं पठेन्नित्यं न च निर्भारतो भवेत्।
इह नैकाश्रयं जन्म राजर्षीणां महात्मनाम्॥
इह मन्त्रपदं युक्तं धर्मं चानेकदर्शनम्।
इह युद्धानि चित्राणि राज्ञां वृद्धिरिहैव च॥
ऋषीणां च कथास्तात इह गन्धर्वरक्षसाम्।
इह तत्तत्समासाद्य विहितो वाक्यविस्तरः॥
तीर्थानां नाम पुण्यानां देशानां चेह कीर्तनम्।
वनानां पर्वतानां च नदीनां सागरस्य च॥
देशानां चैव पुण्यानां पुराणां चैव कीर्तनम्।
उपचारस्तथैवाग्र्यो वीर्यमप्यतिमानुषम्॥
इह सत्कारयोगश्च भारते परमर्षिणा।
रथाश्ववारणेन्द्राणां कल्पना युद्धकौशलम्॥
वाक्यजातिरनेका च सर्वमस्मिन्समर्पितम्।)
श्रावयेद्ब्राह्मणाञ्छ्राद्धे यश्चेमं पादमन्ततः।
अक्षय्यं तस्य तच्छ्राद्धमुपावर्तेत्पितॄनिह॥ 1-62-37
अह्ना यदेनः क्रियते इन्द्रियैर्मनसापि वा।
ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत्॥ 1-62-38
तन्महाभारताख्यानं[नां] श्रुत्वैव प्रविलीयते।
भरतानां महज्जन्म महाभारतमुच्यते॥ 1-62-39
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते।
भरतानां यतश्चायमितिहासो महाद्भुतः॥ 1-62-40
महतो ह्येनसो मर्त्यान्मोचयेदनुकीर्तितः।
त्रिभिर्वर्षैर्लब्धकामः कृष्णद्वैपायनो मुनिः॥ 1-62-41
नित्योत्थितः शुचिः शक्तो महाभारतमादितः।
तपो नियममास्थाय कृतमेतन्महर्षिणा॥ 1-62-42
तस्मान्नियमसंयुक्तैः श्रोतव्यं ब्राह्मणैरिदम्।
कृष्णप्रोक्तामिमां पुण्यां भारतीमुत्तमां कथाम्॥ 1-62-43
श्रावयिष्यन्ति ये विप्रा ये च श्रोष्यन्ति मानवाः।
सर्वथा वर्तमाना वै न ते शोच्याः कृताकृतैः॥ 1-62-44
नरेण धर्मकामेन सर्वः श्रोतव्य इत्यपि।
निखिलेनेतिहासोऽयं ततः सिद्धिमवाप्नुयात्॥ 1-62-45
न तां स्वर्गगतिं प्राप्य तुष्टिं प्राप्नोति मानवः।
यां श्रुत्वैव महापुण्यमितिहासमुपाश्नुते॥ 1-62-46
शृण्वञ्छ्राद्धः पुण्यशीलः श्रावयंश्चेदमद्भुतम्।
नरः फलमवाप्नोति राजसूयाश्वमेधयोः॥ 1-62-47
यथा समुद्रो भगवान्यथा मेरुर्महागिरिः।
उभौ ख्यातौ रत्ननिधी तथा भारतमुच्यते॥ 1-62-48
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्।
श्रा[श्र]व्यं श्रुतिसुखं चैवं[व] पावनं शीलवर्धनम्॥ 1-62-49
य इदं भारतं राजन्या[वा]चकाय प्रयच्छति।
तेन सर्वा मही दत्ता भवेत्सागरमेखला॥ 1-62-50
पारिक्षित कथां दिव्यां पुण्याय विजयाय च।
कथ्यमानां मया कृत्स्नां शृणु हर्षकरीमिमाम्॥ 1-62-51
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः।
महाभारतमाख्यानं कृतवानिदमद्भुतम्॥ 1-62-52
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्॥ 1-62-53
इति श्रीमहाभारते आदिपर्वणि अंशावतरणपर्वणि महाभारतप्रशंसायां द्विषष्टितमोऽध्यायः॥ 62 ॥
त्रिषष्टितमोऽध्यायः
अंशावतरणपर्व
उपरिचरचरित्रचित्रणं सत्यवतीव्यासप्रभृतीनां जन्मवृत्तान्तस्य संक्षेपेण वर्णनम्
@पुरवंशकथनम्॥
वैशंपायनः--
पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम्।
प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृणु॥
अव्यक्तप्रभवो ब्रह्मां शाश्वतो नित्य अव्ययः।
तस्मान्मरीचिस्संजज्ञे दक्षश्चैव प्रजापतिः॥
अङ्गुष्ठाद्दक्षमसृजत्चक्षुर्भ्यां च मरीचिनम्।
मरीचेः काश्यपः पुत्रो दक्षस्य दुहिताऽदितिः॥
अदित्यां काश्यपस्य विवस्वान्। विवस्वतो मनुः। मनोरिला॥
इलायाः पुरूरवाः। पुरूरवस आयुः। आयुषो नहुषः। नहुषस्य ययातिः॥
ययातेर्द्वे भार्ये यभूवतुः। उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम॥
तत्रानुवंशो भवति--
यदुं च तुर्वशुं चोभौ देवयानी व्यजायत।
द्रुह्युं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी॥
तत्र यदोर्यादवाः। पूरोः पौरवाः। पूरोर्भार्या कौसल्या वभूव। तस्यामस्य जज्ञे जनमेजयः॥
स त्रीनियमेधानाजहार। विश्वाजिता चेष्ट्वा वनं प्रविवेश॥
जनमेजयस्तु खलु सुनन्दां नामोपयेमे। तस्यामस्य जज्ञे प्राचीन्वान्॥
यः प्राचीं दिशं जिगाय यावत्सूर्योदयात्। तत्तस्य प्राचीन्वत्त्वम्॥
प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे सुपावात्राम। तस्यामस्य जज्ञे शव्यातिः॥
शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे। तस्यामस्य जज्ञेऽहंपातिः॥
अहंपातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे। तस्यामस्य जज्ञे सार्वमौमः॥
सार्वभौमस्तु खलु जित्वाऽऽजहार कैकयी मुन्दरां नाम। तस्यामस्य जज्ञे महाभौमः॥
महाभौमस्तु खलु प्रसेनजिद्दुहिनरमुपयेमे सुयज्ञां नाम। तस्यामस्य जज्ञे अयुतानायी॥
यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम्॥
अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम। अस्यामस्य जज्ञेऽक्रोधनः॥
अक्रोधनस्तु कालिङ्गीं फरण्डुं नामोपयेमे। तस्यामस्य जज्ञे देवातिथिः॥
देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम। तस्यामस्य जज्ञे ऋचः॥
ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत्॥
ऋक्षस्तु खलु तक्षकदुहितरं ज्वलतां नामोपयेमे। तस्यामन्तिनारमजीजनत्॥
अन्तिनारस्तु सरस्वत्यां द्वादशवार्षिकं सव्रमाजहार। तमुदवसाने निर्यृते सरस्वत्यभिगम्य भर्तारं वरयामास। तस्यां पुत्रं जनयामास त्रस्नुं नाम॥
अत्रानुवंशो भवति॥
त्रस्नुस्सरस्वतीपुत्र अन्तिनारादजायत।
इलिलं जनयामास कालिन्द्यां त्रस्नुरात्मजम्॥
इलिलस्तु रथन्तरायां दुष्यन्तादीन्पञ्च पुत्रानजीजनत्॥
दुष्यन्तस्तु खलु लक्ष्मणां नाम भागीरथीमुपयेमे। तस्यामस्य जज्ञे जनमेजयः॥
स एव दुष्यन्तो विश्वामित्रदुहितरं शक्रुन्तलां नामोपयेमे। तस्यामस्य जज्ञे भरतः॥
तत्रेमौ श्लोकौ भवतः--
माता भस्वा पितुः पुत्रो यस्माज्जातस्स एव सः।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयान्।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला॥
ततोऽस्य भरतत्वम्॥
भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम। तस्यामस्य जज्ञे भुमन्युः॥
भुमन्युस्तु दाशार्हीमुपयेमे सुपर्णा नाम। तस्यामस्य जज्ञे सुहोत्रः॥
सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम। तस्यामस्य जज्ञे हस्ती। य इदं पुरमावासयामास। तस्माद्धस्तिनपुरत्वम्॥
हस्ती तु त्रैगर्तीमुपयेमे यशोधरां नाम। तस्यामस्य जज्ञे विकुञ्जनः॥
विकुञ्जनस्तु दाशार्हीमुपयेमे विन्दां नाम। तस्यामस्य जज्ञेऽजमढिः॥
अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव--कैकय्यां नागायां गान्धार्या विमलायामृक्षायामिति। पृथग्वंशकर्तारो नृपतयः॥
अजमीढादृक्षायां वंशकरस्संवरणो जज्ञे॥
संवरणस्तु खलु वैवस्वतीं तपतीं नामोपयेमे। तस्यामस्यजज्ञे कुरुः॥
कुरुस्तु दाशार्हीमुपयेमे शुभां नाम। तस्यामस्य जज्ञे विडूरथः॥
विडूरथस्तु खलु मागधीमुपयेमे संप्रियां नाम। तस्यामस्य जज्ञेऽनश्वान्॥
अनश्वांस्तु मागधीमुपयेमे सुवेषां नाम। तस्यामस्य जज्ञे परीक्षित्॥
परीक्षित्तु वाहुकामुपयेमेऽमृतां नाम। तस्यामस्य जज्ञे भीमसेनः॥
भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम। तस्यामस्य जज्ञे पर्यश्रवाः। यमाहुः प्रतीप इति॥
प्रतीपस्तु शैब्यामुपयेमे सुनन्दां नाम। तस्यां त्रीन्पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति॥
देवापिस्तु खलु बाल एवारण्यं प्रविवेश। शन्तनुस्तु महीपालोऽभवत्॥
तत्र श्लोको भवति--
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते।
पुनर्युवा च भवति तस्मत्तं शन्तनुं विदुः। तत्तस्य शन्तनुत्वम्॥
शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे। तस्यामस्य जज्ञे देवव्रतः। यमाहुर्भीष्म इति॥
भीष्मस्तु पितुः प्रीतिचिकीर्षया सत्यवतीमानयामास मातरं। यामाहुः कालीति॥
तस्यां पूर्वं पराशरात्कन्या गर्भो द्वैपायनः। तस्यामेव शन्तनोद्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च॥
चित्राङ्गदस्त्वप्राप्तयौवन एव गन्धर्वेण निहतः। ततो विचित्रवीर्यो राजा बभूव॥
विचित्रवीर्यस्तु खलु काशिराजस्य सुते अम्बिकाम्बालिके उदवहत्। स विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः॥
ततो गन्धवती चिन्तयामास कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति॥
सोऽथ द्वैपायनं चिन्तयामास सोऽप्रतस्स्थितः किं करवाणीति। तं सत्यवत्युवाच भ्राता तेऽनपत्य एव स्वर्गतः तस्यार्थेऽपत्यमुत्पादयेति॥
स परमित्युवाच स तत्र त्रीन्पुत्रानुत्पादयामास--धृतराष्ट्रं पाण्डुं विदुरं चेति॥
धृतराष्ट्रस्य राज्ञः पुत्राणां शतं बभूव गान्धर्या वरदानात्तेषां च धार्तराष्ट्राणां चत्वारः प्रधानाः--दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति॥
पाण़्डोस्तु कुन्ती माद्रीति स्त्रीरत्ने बभूवतुः। स मृगयां चरन्मैथुनगतमृषिं मृगचारिणं बाणेनाजघान॥
स बाणविद्ध उवाच पाण्डुम्॥
अत्र श्लोको भवति--
योऽकृतार्थं हि मां क्रूर वाणेनाघ्ना मृगव्रतम्।
तवाप्येतादृशो भावः क्षिप्रमेवागमिष्यति॥
इति मृगव्रतचारिणा ऋषिणा शप्तः॥
स विषण्णरूपः पाण्डुस्तं शापं परिहरन्नोपसर्पति भार्ये॥
आह च स्वभार्यात्। स्वचापल्यादिदं प्राप्तवानहम्। शृणोमि नानपत्यस्य लोकास्सन्तीति। ममार्थे पुत्रानुत्पादयेति कुन्तीमुवाच॥
सा पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनमिन्द्रादर्जुनमिति॥
स हृष्टरूपः पाण्डुरुवाच--
इयं ते सपत्नी ह्यनपत्या व्रीडिता साध्वी अस्यामपत्यमुत्पाद्यतामिति॥
तस्यां नकुलसहदेवौ यमावश्विभ्यां जज्ञाते॥
माद्रीं तु स्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे। स तां प्राप्यैव विदेहत्वं प्राप्तः॥
तत्रैनं चितायामन्वारुरोह माद्री। कुन्तीं चोवाच यमयोरार्ययाऽप्रमत्तया भवितव्यामिति॥
ततः पञ्च पाण्डवान्सह कुन्त्या हस्तिनपुरं नयन्ति स्म तपस्विनः॥
तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्ति स्म तपस्विनः॥
पाण्डवान्सह कुन्त्या जतुगृहे दाहयितुकामो धृतराष्ट्रात्मजोऽभूत्॥
तांश्च विदुरो मोक्षयित्वा प्रीतोऽभवत्॥
ततो हिडिम्बं हत्वा एकचक्रां जग्मुः कुशलिनः॥
पाञ्चालविषयं गत्वा स्वयंवरे द्रौपदीं लब्ध्वाऽर्धराज्यं प्राप्येन्द्रप्रस्थनिवासिनस्तस्यां पुत्रानुत्पादयामासुर्द्रौपद्याम्--प्रतिविन्ध्यं युधिष्ठिरः सुतसोमं वृकोदरः श्रुतकर्माणमर्जुनः शतानीकं नकुलः श्रुतसेनं सहदेव इति॥
शैब्यस्य कन्यां देविकां नामोपयेमे युधिष्ठिरः। तस्यां पुत्रं जनयामास युधिष्ठिरो यौधेयं नाम॥
भीमसेनस्तु खलु वाराणस्यां काशिराजकन्यां बलधरां नामोदवहत्स्वयंवरस्थो। तस्यामस्य जज्ञे शर्वत्रातः॥
भीमसेनस्तु पूर्वमेव हिडिम्वायां राक्षस्यां जनयामास घटोत्कचं नाम॥
अर्जुनस्तु खलु द्वारवतीं गत्वा भगवतो वासुदेवस्य भगिनीं सुभद्रां नामोदवहत्। तस्यामभिमन्युं नाम पुत्रं जनयामास॥
अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास॥
ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम॥
नकुलस्तु खलु चेद्यां रेणुमतीं नामोपयेमे। तस्यां पुत्रं जनयामास निरमित्रं नाम॥
सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम्। तस्यां पुत्रं जनयामास सुहोत्रं नाम॥
एते त्रयोदश पुत्राः पाण्डवानाम्॥
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे। तस्यामस्य परासुर्गर्भोऽजायत॥
तमुत्सङ्गे प्रतिजग्राह पृथिवी नियोगात्पुरुषोत्तमस्य॥
सौभद्रस्य षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच॥
अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमनुजातः।
अभिमन्योस्सत्येन चेयं पृथिवी धारयन्त्रिति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत॥
नाम तस्याकरोत्सुभद्रा--
परिक्षीणे कुले जात उत्तरायां परंतपः।
परीक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः॥
परीक्षित्तु खलु भद्रवतीं नामोपयेमे। तस्यां तत्र भवाञ्जनमेजयः॥
जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्खश्च॥
शतानकिस्तु खलु वैदर्भीमुपयेमे। तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः॥
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः।
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्येत॥@
वैशम्पायन उवाच
राजोपरिचरो नाम धर्मनित्यो महीपतिः।
बभूव मृगयां गन्तुं सदा किल धृतव्रतः॥ 1-63-1
स चेदिविषयं रम्यं वसुः पौरवनन्दनः।
इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः॥ 1-63-2
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम्।
देवाः शक्रपुरोगा वै राजानमुपतस्थिरे॥ 1-63-3
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै।
तं सान्त्वेन नृपं साक्षात्तपसः सन्न्यवर्तयत्॥ 1-63-4
देवा ऊचुः
न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते।
त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत्॥ 1-63-5
इन्द्र उवाच
लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः।
धर्मयुक्तस्ततो लोकान्पुण्यान्पश्य[प्राप्स्य]सि शाश्वतान्॥ 1-63-6
दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः।
रम्यः पृथिव्यां यो देशस्तमावस नराधिप॥ 1-63-7
पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान्।
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः॥ 1-63-8
अर्थवानेष देशो हि धनरत्नादिभिर्युतः।
वसुपूर्णा च वसुधा वस चेदिषु चेदिप॥ 1-63-9
धर्मशीला जनपदाः सुसन्तोषाश्च साधवः।
न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा॥ 1-63-10
न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः।
युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च॥ 1-63-11
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद।
न तेऽस्त्यविदितं किञ्चित्त्रिषु लोकेषु यद्भवेत्॥ 1-63-12
दै[दे]वोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत्।
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते॥ 1-63-13
त्वमेकः सर्वमर्त्ये[त्ये]षु विमानवरमास्थितः।
चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव॥ 1-63-14
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्।
धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम्॥ 1-63-15
लक्षणं चैतदेवेह भविता ते नराधिप।
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्॥ 1-63-16
वैशम्पायन उवाच
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः।
इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्॥ 1-63-17
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा।
प्रवेशं कारयामास गते संवत्सरे तदा॥ 1-63-18
@मार्गशीर्षे महाराज पूर्वपक्षे महामखम्।@
ततः प्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः।
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः॥ 1-63-19
अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः।
अलङ्कृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः॥ 1-63-20
माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च।
@माल्यादामपिरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम्।
चतुर्विंशत्यङ्गुलात्मा हस्तः किष्कुरिति स्मृतः॥
उद्धृत्य पीठके चापि द्वादशारत्निकोच्छ्रिते।
महाराजतवासोभिः परिक्षिप्य ध्वजोत्तमम्।
वासोभिरन्नपानैश्च पूजितैर्बाह्मणर्षभैः।
पुण्याहवाचनं कृत्वा ध्वज उच्छ्रियते तदा॥
शङ्खभेरीमृदङ्गैश्च संनाह चक्रिरे ततः।@
भगवान्पूज्यते चात्र हंसरूपेण वासवः[चेश्वरः]॥ 1-63-21
@भगवान्पूज्यते चात्र यष्टिरूपेण वासवः।
माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैस्सह॥
नानाविधानि दानानि दत्त्वार्थिभ्यस्सुहृज्जनैः।
अलङ्कृत्वा माल्यदामरैः वस्त्रैर्नानाविधैस्तथा॥
दृतिभिस्सजलैस्सर्वे क्रीडित्वा नृपशासनात्।
सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः॥
रमन्ते नागरास्सर्वे तथा जानपदैस्सह।
सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः॥
प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम्।
सान्तःपुरस्सहामात्यस्सर्वाभरणभूषितः॥
महाराजतवासांसि वसित्वा चेदिराट्तदा।
रेजे चेदिपतिस्तत्रं दिवि देवपतिर्यथा॥
जातिभिस्तूलिकेनाक्तस्तदा स मुमुदे सदा।
एवं जानपदास्सर्वे चक्रुरिन्द्रमखं तथा॥
यथा चेदिपतिः प्रतिश्चकारेन्द्रमखं वसुः॥@
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः।
स तां पूजां महेन्द्रस्तु दृष्ट्वा देवः कृतां शुभाम्॥ 1-63-22
वसुना राजमुख्येन प्रीतिमानव्रवीत्प्रभुः।
@इन्द्रः--@
ये पूजयिष्यन्ति नरा राजानश्च महं मम॥ 1-63-23
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः।
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति॥ 1-63-24
तथा स्फीतो जनपदो मुदितश्च भविष्यति।
@निरीतिकानि सस्यानिभवन्ति बहुधा नृप।
राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथञ्चन॥@
@वैशम्पायनः--@
एवं महात्मना तेन महेन्द्रेण नराधिप॥ 1-63-25
वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः।
@एवं कृत्वा महेन्द्रस्तु जगामस्वंनिवेशनम्।@
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः॥ 1-63-26
भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते।
वरदानमहायज्ञैस्तथा शक्रोत्सवेन च॥ 1-63-27
सम्पूजितो मघवता वसुश्चेदीश्वरो नृपः।
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्॥ 1-63-28
इन्द्रप्रीत्या चेदिपतिश्चकारेन्द्रमहं वसुः।
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः॥ 1-63-29
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्।
महारथो मागधानां विश्रुतो यो बृहद्रथः॥ 1-63-30
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्।
मावेल्लश्च यदुश्चैव राजन्यश्चापराजितः॥ 1-63-31
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः।
न्यवेश[वास]यन्नामभिः स्वैस्ते देशांश्च पुराणि च॥ 1-63-32
वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः।
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्॥ 1-63-33
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्।
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्॥ 1-63-34
पुरोपवाहिनीं तस्य नदीं शुक्तिमतिं गिरिः।
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल॥ 1-63-35
गिरिं कोलाहलं तं तु पदा वसुरताडयत्।
निश्चक्राम ततस्तेन प्रहारविवरेण सा॥ 1-63-36
तस्यां नद्यमजनयन्मिथुनं पर्वतः स्वयम्।
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्॥ 1-63-37
@महिषी भविता कन्या पौष्यस्सेनापतिर्भवेत्।
शुक्तिमत्या वचः श्रुत्वा दृष्ट्वा तौ राजसत्तमः॥@
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः।
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः॥ 1-63-38
चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः।
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत्॥ 1-63-39
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः।
तदहः पितरश्चैनमूचुर्जहि मृगानिति॥ 1-63-40
तं राजसत्तमं प्रीतास्तदा मतिमतां वर।
स पितॄणां नियोगं तमनतिक्रम्य पार्थिवः॥ 1-63-41
चकार मृगयां कामी गिरिकामेव संस्मरन्।
अतीवरूपसम्पन्नां साक्षाच्छ्रियमिवापराम्॥ 1-63-42
अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः।
पुन्नागैः कर्णिकारैश्च वकुलैर्दिव्यपाटलैः॥ 1-63-43
पाटलैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा।
एतै रम्यैर्महावृक्षैः पृण्यैः स्वादुफलेर्युतम्॥ 1-63-44
कोकिलाकुलसंनादं मत्तभ्रमरनादितम्।
वसन्तकाले तत्तस्य वनं चैत्ररथोपमम्॥ 1-63-45
मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा।
अपश्यन्कामसन्तप्तश्चरमाणो यदृच्छया॥ 1-63-46
पुष्पसञ्छन्नशाल]खा]ग्रं पल्लवैरुपशोभितम्।
अशोकं स्तब[व]कैश्छन्नं रमणीयमपश्यत॥ 1-63-47
अधस्तात्तस्य छायायां सुखासीनो नराधिपः।
मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम्॥ 1-63-48
वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात्।
तस्य रेतः प्रचस्कन्द चरतो गहने वने॥ 1-63-49
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः।
प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत॥ 1-63-50
इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति।
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः॥ 1-63-51
सञ्चिन्त्यैवं तदा राजा विचार्य च पुनः पुनः।
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः॥ 1-63-52
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य वै।
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्॥ 1-63-53
सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत्।
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय॥ 1-63-54
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै।
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान्॥ 1-63-55
जवं परममास्थाय प्रदुद्राव विहंगमः।
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः॥ 1-63-56
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया।
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः॥ 1-63-57
युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि।
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः॥ 1-63-58
मीनभावमनुप्राप्ता बभूव यमुनाचरी।
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्॥ 1-63-59
जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी।
कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः॥ 1-63-60
मासे च दशमे प्राप्ते तदा भरतसत्तम।
उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुपम्॥ 1-63-61
आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन्।
काये मत्स्या इमौ राजन्सम्भूतौ मानुषाविति॥ 1-63-62
तयोः पुमांसं जग्राह राजोपरिचरस्तदा।
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः॥ 1-63-63
साप्सरा मुक्तशापा च क्षणेन समपद्यत।
या पुरोक्ता भगवता तिर्यग्योनिगता शुभा॥ 1-63-64
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि।
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना॥ 1-63-65
सन्त्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च।
सिद्धर्षि चारणपथं जगामाथ वराप्सराः॥ 1-63-66
सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी।
राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति॥ 1-63-67
रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः।
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात्॥ 1-63-68
आसीत्सा मत्स्यगन्धैव कञ्चित्कालं शुचिस्मिता।
शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम्॥ 1-63-69
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः।
अतीवरूपसम्पन्नां सिद्धानामपि काङ्क्षिताम्॥ 1-63-70
दृष्ट्वैव च स[स च] तां धीमांश्चकमे चारुहासिनीम्।
दिव्यां तां वासवीं कन्यां रम्भोरुं मुनिपुङ्गवः॥ 1-63-71
@संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः।
क कर्णधारो नौर्येन नीयते ब्रूहि भामिनि॥
मस्स्यगन्धा
अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया।
सहस्रजनसंपूर्णा नौर्मया वाह्यते द्विज॥
पराशरः--
शोभनं वासवि शुभे किंचिन्नयसि वाह्यताम्।
कलशं भविता भद्रे सहस्रार्धेन संमितम्॥
अहं शेषो भविष्यामि नीयतामचिरेण नौः॥
वैशंपायनः--
मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयती जले।
वीक्षमाणं मुनि दृष्ट्वा प्रोवाचेदं वचस्तदा॥
मत्स्यगन्धा--
मत्स्यगन्धेति मामाहुरः दाशराजसुतां जनाः।
जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम्॥
पराशरः--
दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः।
प्रणयोपबृंहणार्थाय वक्ष्ये वासवि तच्छृणु॥
बर्हिष इति विख्याताः पितरस्सोमपास्तुते।
तेषां त्वं मानसी कन्या अच्छो नाम विश्रुता॥
अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम्॥
त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन।
संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती॥
सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन्।
नाम्ना वसुरिति ख्यातं मनुपुत्रं महीश्वरम्॥
अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम्।
सा तेन व्यभिचारेण मनसा कामचारिणी॥
पितरं प्रार्थयित्वाऽन्यं योगाद्भ्रष्टा पपात ह।
अपश्यत्पतमाना सा विमानत्रयमन्तिकात्॥
त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान पितॄन्।
सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेप्विवाहितान्॥
तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी।
तैरुक्ता सा तु मामैषीस्तेन सा संस्थिता दिवि॥
ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा।
त ऊचुः पितरः कन्यां भ्रष्टैश्वर्या व्यतिक्रमात्॥
भ्रष्टैश्वर्या स्वदोषेण तप्ससे त्वं शुचिस्मिते॥
यैरारभन्ते कर्माणि शरीरैरिह देवताः।
तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः॥
मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः॥
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे॥
तस्मात्त्वं पतसे पुत्रि प्रेत्य त्वं प्राप्स्यसे फलम्॥
पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता।
मत्स्ययोनौ समुत्पन्ना सुता राज्ञो भविष्यति॥
अद्रिका मत्स्यरूपाऽभूद्गङ्गायमुनसङ्गमे।
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि॥
स वेदमेकं ब्रह्मर्षिश्चतुर्धा विभजिष्यति।
महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम्॥
ज्येष्ठं चित्राङ्गदं वीरं चित्रवीर्यं च विश्रुतम्।
एतानुत्पाद्य पुत्रांस्त्वं पुनरेवागमिष्यसि॥
व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम्।
अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि॥
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा॥
एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा॥
अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सराः।
मीनभावमनुप्राप्ता त्वां जनित्वा गता दिवम्॥
तस्यां जातासि सा कन्या राज्ञो वीर्येण चैव हि।
तस्माद्वासवि भद्रं ते याचे वंशकरं सुबम्॥
वैशम्पायनः--
विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता।
साऽब्रवीत्पश्य भगवन्परे पारे स्थितानृपीन्॥
आवयोश्च कथं ब्रह्मन्भविष्यति समागमः।
एवं तयोक्ते भगवान्नीहारमसृजद्विभुः॥
येन देशस्स सर्वस्तु तमोवृत इवाभवत्॥
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा।
विस्मिता भूत्ततः कन्या व्रीडिता त्विदमब्रवीत्॥
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्।
त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ॥
कन्यात्वे दूषिते चाहं कथं शक्ष्ये द्विजोत्तम॥
गन्तुं गृहे गृहं चापि अहं नास्थातुमुत्सहे।
एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्॥
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः।@
सङ्गमं मम कल्याणि कुरुष्वेत्यभ्यभाषत।
साब्रवीत्पश्य भगवन्पारावारे स्थितानृषीन्॥ 1-63-72
आवयोर्दृष्टयोरेभिः कथं तु स्यात्समागमः।
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः॥ 1-63-73
येन देशः स सर्वस्तु तमोभूत इवाभवत्।
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा।
विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी॥ 1-63-74
सत्यवत्युवाच
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम्।
त्वत्संयोगाच्च दू[दु]ष्येत कन्याभावो ममानघ॥ 1-63-75
कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम।
गृहं गन्तुमृषे चाहं धीमन्न स्थातुमुत्सहे॥ 1-63-76
वैशम्पायन उवाच
एतत्सञ्चिन्त्य भगवन्विदत्स्व यदनन्तरम्।
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः॥ 1-63-77
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि।
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि॥ 1-63-78
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते।
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्॥ 1-63-79
स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं भुवि।
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता।
जगाम सह संसर्गमृषिणाद्भुतकर्मणा॥ 1-63-80
तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि।
तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि॥ 1-63-81
तस्या योजनगन्धेति ततो नामापरं स्मृतम्।
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्॥ 1-63-82
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा।
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्॥ 1-63-83
@उवाच मत्प्रियं कृत्वा पुनः कन्या भविष्यसि॥
वृणीष्व च वरं भद्रे यं त्वमिच्छसि भामिनि।
वृथा हि न प्रसादो मे भूतपूर्वश्शुचिस्मिते॥
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम्।
स चास्यै वरदः प्रादाद्भगवान्काङ्क्षितं प्रभुः॥
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता।
जगाम सह संसर्गातृषिणाऽद्भुतकर्मणा॥
तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि।
तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि॥
ततो योजनागन्धेति तस्या ना परिश्रुतम्॥
वैशंपायनः--
एवं सत्यवती हृष्टा पूजां लब्ध्वा यथेष्टतः।
पराशरेण सयुंक्ता सद्यो गर्भं सुषाव सा॥
जज्ञे च यमुनाद्वीपे पाराशर्यस्स वीर्यवान्।
जातमात्रस्स ववृधे सप्तवर्षोऽभवत्तदा।
स्नात्वाभिवाद्य पितरं तस्थौ व्यासस्समाहितः॥
स्वस्तीति वप्वनं चोक्त्वा ददौ कलशमुत्तमम्।
गृहीत्वा कलशं पार्श्वे तस्थौ व्यासो महामुनिः॥
ततो दाशभयात्पत्नी स्नात्वा कन्या बभूव सा।
अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना॥
स्पृष्टमात्रे स निर्भर्त्स्य भातरं वाक्यमब्रवीत्।
मम पित्रा तु संस्पर्शान्मातस्त्वमभवश्शुचिः॥
वैशंपायनः--
व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा।
मनुष्यभावात्सा योषित्पतिता मुनिपादयोः॥
ततः प्रसन्नो भगवान्पुत्रं प्रोवाच धर्मवित्॥
पराशरः--
मा त्वमेवंविधं कार्षीरः नैतद्धर्म्यं मतं हि नः।
दूष्यौ न मातापितरौ तथा पूर्वोपकारिणौ॥
धारणाद्दुःखसहनात्तयोर्माता गरीयसी॥
बीजक्षेत्रसमायोगाद्यथा सस्यं प्रजायते।
जायते च सुतस्तद्वत्पुरुषस्त्रीसमागमे॥
मृगीणां पक्षिणां चैव अप्सराणां तथैव च।
शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः॥
ऋष्यशृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस्तथा।
अगस्त्यश्च वसिष्ठश्च ऊर्वश्यां जनितावुभौ॥
सोमश्रवास्तु सर्प्यां तु अश्विनावश्वसंभवौ।
स्कन्दस्स्कन्नेन शुक्लेन जातश्शरवणे पुरा॥
एवमेव च देवानामृषीणां चैव संभवः।
लोकवादप्रवृत्तिर्हि न मीमांस्या बुधैस्सदा॥
वेदव्यास इति प्रोक्तः पुराणे च स्वयंभुवा।
धर्मनेता महर्षीणां मनुष्याणां त्वमेव च॥
तस्मात्पुत्र न दूष्येत वासवी योगचारिणी।
मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुमर्हसि॥
प्रजाहितार्थं संभूतो विष्णोर्भागो महानृषिः।
तस्मात्स्वमातरं स्नेहात्प्रब्रवीहि तपोधन॥
वैशंपायनः--
गुरोर्वचनमाज्ञाय व्यासः पीतोऽभवत्तदा।
चिन्तयित्वा लोकवृत्तं मातुरङ्कमथाविशत्॥
पुत्रस्पर्शात्तु लोकेषु नान्यत्सुखमतीव हि।
व्यासं कमलपत्राक्षी परिष्वज्याश्रु वर्तयत्॥
स्तन्यासारैः क्लिद्यमाना पुत्रमाघ्राय मूर्धनि॥
वासवी--
पुत्रलाभात्परं लोके नास्तीह प्रसवार्थिनाम्।
दुर्लभं चेति मन्येऽहं मया प्राप्तं महत्तपः॥
महता तपसा तात महायोगबलेन च।
मया त्वं हि महाप्राज्ञ लब्धोऽमतमिवामरैः॥
तस्मात्त्वं मामृषेः पुत्र त्यक्तुं नार्हसि सांप्रतम्॥
वैशंपायनः--
एवमुक्तस्ततस्नेहाद्व्यासो मातरमब्रवीत्॥
त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः।
एतावन्मात्रया प्रीता भविष्येथा नृपात्मजे॥
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्॥
स मातरमनुज्ञाप्य तपस्येव मनो दधे॥
ततः कन्यामनुज्ञाय पुनः कन्या भवत्विति।
पराशरोऽपि भगवान्पुत्रेण सहितो ययौ॥
गत्वाश्रमपदं पुण्यमदृश्यन्त्याः पराशरः।
जातकर्मादिसंस्कारं कारयामास धर्मतः॥
कृतोपनयनो व्यासो याज्ञवल्क्येन भारत।
वेदानधिजगौ साङ्गानोङ्कारेण त्रिमात्रया॥
गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे।
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्॥
द्वीपे न्यस्तस्स यद्बालस्तस्माद्द्वैपायनोऽभवत्।
पादापसारिणं धर्मं विद्वान्स तु युगे युगे।
आयुश्शक्तिं च मर्त्यानां युगाद्युगमवेक्ष्य च॥
ब्रह्मर्षिर्ब्राह्मणानां च तथाऽनुग्रहकाम्यया।
विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः॥
ततस्स महर्षिर्विद्वान्शिष्यानाहूय धर्मवित्।
सुमन्तुं जैमिनि पैलं शुकं चैव स्वमात्मजम्॥
प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च।@
स मातरमनुज्ञाप्य तपस्येव मनो दधे।
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्॥ 1-63-84
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्।
न्यस्तो द्वीपे स यद्बालस्तस्माद्द्वैपायनः स्मृतः॥ 1-63-85
(ततः सत्यवती हृष्टा जगाम स्वं निवेशनम्।
तस्यास्त्वायोजनाद्गन्धमाजिघ्रन्ति नरा भुवि॥
दाशराजस्तु तद्गन्धमाजिघ्रन्प्रीतिमावहत्।
दाश उवाच
त्वामाहुर्मत्स्यगन्धेति कथं बाले सुगन्धता।
अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता॥
सत्यवत्युवाच
शक्तेः पुत्रो महाप्राज्ञः पराशर इति स्मृतः।
नावं वाहयमानाया मम दृष्ट्वा सुगर्हितम्।
अपास्य मत्स्यगन्धत्वं योजनाद्गन्धतां ददौ॥
ऋषेः प्रसादं दृष्ट्वा तु जनाः प्रीतिमुपागमन्।)
पादापसारिणं धर्मं स तु विद्वान्युगे युगे।
आयुः शक्तिं च मर्त्यानां युगानुग[वस्था]मवेक्ष्य च॥ 1-63-86
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया।
विव्यास वेदान्यस्मात्स तस्माद्व्यास इति स्मृतः॥ 1-63-87
वेदानध्यापयामास महाभारतपञ्चमान्।
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्॥ 1-63-88
प्रभुर्वरिष्ठो वरदो वैशम्पायनमेव च।
संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः॥ 1-63-89
@भीष्मादीनां पाण्डवादीनाञ्च संग्रहेण जन्मकथनम्@
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः।
वसुवीर्यात्समभवन्महावीर्यो महायशाः॥ 1-63-90
वेदार्थविच्च भगवानृषिर्विषो महायशाः।
शूले प्रोतः पुराणर्षिरचौरश्चौरशङ्कया॥ 1-63-91
अणीमाण्डव्य इत्येवं विख्यातः स महायशाः।
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान्॥ 1-63-92
इषीकया मया बाल्याद्विद्ध ह्येका शकुन्तिका।
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे॥ 1-63-93
तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः।
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः॥ 1-63-94
तस्मात्त्वं किल्बिषी धर्म शूद्रयोनौ जनिष्यसि।
तेन शापेन धर्मोऽपि शूद्रयोनावजायत॥ 1-63-95
विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी।
सञ्जयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात्॥ 1-63-96
सूर्याच्च कुन्तिकन्याया जज्ञे कर्णो महाबलः।
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः॥ 1-63-97
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः।
वसुदेवात् तु देवक्यां प्रादुर्भूतो महायशाः॥ 1-63-98
अनादिनिधनो देवः स कर्ता जगतः प्रभुः।
अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम्॥ 1-63-99
आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम्।
पुरुषं विश्वकर्माणां सत्त्वयोगं ध्रुवाक्षरम्॥ 1-63-100
अनन्तमचलं देवं हंसं नारायणं प्रभुम्।
धातारमजमव्यक्तं यमाहुः परमव्ययम्॥ 1-63-101
कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम्।
पुरुषः स विभुः कर्ता सर्वभूतपितामहः॥ 1-63-102
धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु।
अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ॥ 1-63-103
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ।
सत्यकाद्ध़दिकाच्चैव जज्ञातेऽस्त्रविशारदौ॥ 1-63-104
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत।
महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत॥ 1-63-105
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः।
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः॥ 1-63-106
अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः।
तथैव धृष्टद्युम्नः अपि साक्षादग्निसमद्युतिः॥ 1-63-107
वैताने कर्मणि ततः पावकात्समजायत।
वीरो द्रोणविनाशाय धनुरादाय वीर्यवान्॥ 1-63-108
तत्रैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा।
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्॥ 1-63-109
प्रह्लादशिष्यो नग्नजित्सुबलश्चाभवत्ततः।
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्॥ 1-63-110
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा।
दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ॥ 1-63-111
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः।
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः॥ 1-63-112
धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः।
विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि॥ 1-63-113
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक्।
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः॥ 1-63-114
धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः।
इन्द्राद्धनञ्जयः श्रीमान्सर्वशस्त्रभृतां वरः॥ 1-63-115
जज्ञाते रूपसम्पन्नावश्विभ्यां च यमावपि।
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ॥ 1-63-116
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः।
दुर्योधनप्रभृतयो युयुत्सुः करणस्तता॥ 1-63-117
ततो दुःशासनश्चैव दुःसहश्चापि भारत।
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः॥ 1-63-118
जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत।
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः॥ 1-63-119
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत।
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः॥ 1-63-120
पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे।
कुमारा रूपसम्पन्नाः सर्वशास्त्रविशारदाः॥ 1-63-121
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्।
अर्जुनाच्छ्रतकीर्तिस्तु शतानीकस्तु नाकुलिः॥ 1-63-122
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान्।
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः॥ 1-63-123
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता।
यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया॥ 1-63-124
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथा।
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे॥ 1-63-125
तेषामपरिमेयानां नामधेयानि सर्वशः।
न शक्यानि समाख्यातुं वर्षाणामयुतैरपि।
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्॥ 1-63-126
इति श्रीमहाभारते आदिपर्वणि अंशावतरणपर्वणि व्यासाद्युत्पत्तौ त्रिषष्टितमोऽध्यायः॥ 63 ॥
चतुःषष्टितमोऽध्यायः
अंशावतरणपर्व
ब्राह्मणतः क्षत्रियकुलस्योत्पत्तिर्वृद्धिश्च तदानीन्तनधर्मराज्यवर्णनम् असुराणां प्रादुर्भावस्तद्भारपीडिताया भूमेर्ब्रह्मणः समिपे गमनं देवान्प्रति स्वांशतः पृथिव्यामवतर्तुं ब्रह्मण आदेशश्च
जनमेजय उवाच
य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः।
सम्यक्ताञ्छ्रोतुमिच्छामि राज्ञश्चान्यान्सहस्रशः॥ 1-64-1
यदर्थमिह सम्भूता देवकल्पा महारथाः।
भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि॥ 1-64-2
वैशम्पायन उवाच
रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम्।
तत्तु ते कथयिष्यामि नमस्कृत्वा[त्य] स्वयम्भुवे॥ 1-64-3
त्रिः सप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा।
जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे॥ 1-64-4
तदा निःक्षत्रिये लोके भार्गवेण कृते सति।
ब्राह्मणान्क्षत्रिया राजन्सुतार्थिन्योऽभिचक्रमुः॥ 1-64-5
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः।
ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा॥ 1-64-6
तेभ्यश्च लेभिरे गर्भं क्षत्रियास्ताः सहस्रशः।
ततः सुषुविरे राजन्क्षत्रियान्वीर्यवत्तरान्॥ 1-64-7
कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये।
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः॥ 1-64-8
जातं वृद्धं च धर्मेण सुदीर्घेणायुषान्वितम्।
चत्वारोऽपि ततो वर्णा बभूवुर्ब्राह्मणोत्तराः॥ 1-64-9
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा।
तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि॥ 1-64-10
ऋतौ दारांश्च गच्छन्ति तत्तथा भरतर्षभ।
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः॥ 1-64-11
ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः।
आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः॥ 1-64-12
अथेमां सागरापाङ्गीं गां गजेन्द्रगताखिलम्।
अध्यतिष्ठत्पुनः क्षत्रं सशैलवनपत्तनाम्॥ 1-64-13
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुन्धराम्।
ब्राह्मणाद्यास्ततो वर्णा लेभिरे मुदमुत्तमाम्॥ 1-64-14
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः।
धर्मेण दण्डं दण्ड्येषु प्रणयन्तोऽन्वपालयन्॥ 1-64-15
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः।
स्वादु देशे च काले च वर्षेणापालयत्प्रजाः॥ 1-64-16
न बाल एव म्रियते तदा कश्चिज्जनाधिप।
न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः॥ 1-64-17
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ।
इयं सागरपर्यन्ता समापूर्यत मेदिनी॥ 1-64-18
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः।
साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा॥ 1-64-19
न च विक्रीणते ब्रह्म ब्राह्मणाश्च तदा नृप।
न च शूद्रसमा[म]भ्याशे वेदानुच्चारयन्त्युत॥ 1-64-20
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह।
युञ्जते धुरि नो गाश्च कृशाङ्गांश्चाप्यजीवयन्॥ 1-64-21
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः।
न कूटमानैर्वणिजः पण्यं विक्रीणते तदा॥ 1-64-22
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः।
धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः॥ 1-64-23
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप।
एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित्॥ 1-64-24
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ।
भवन्त्यृतुषु वृक्षाणां पुष्पाणि च फलानि च॥ 1-64-25
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप।
आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम्॥ 1-64-26
एवं समुदिते लोके मानुषे भरतर्षभ।
असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर॥ 1-64-27
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि।
ऐश्वर्याद्भ्रंशिताः स्वर्गात्सम्बभूवुः क्षिताविह॥ 1-64-28
इह देवत्वमिच्छन्तो मानुपेषु मनस्विनः।
जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो॥ 1-64-29
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च।
क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च॥ 1-64-30
जातैरिह महीपाल जायमानैश्च तैर्मही।
न शशाकात्मनाऽऽत्मानमियं धारयितुं धरा॥ 1-64-31
अथ जाता महीपालाः केचिद्बहुमदान्विताः।
दितेः पुत्रा दनोश्चैव तदा लोक इह च्युताः॥ 1-64-32
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम्।
इमां सागरपर्यन्तां परीयुररिमर्दनाः॥ 1-64-33
ब्राह्मणान्क्षत्रियान्वैश्याञ्छूद्रांश्चैवाप्यपीडयन्।
अन्यानि चैव सत्त्वानि पीडयामासुरोजसा॥ 1-64-34
त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते।
विचेरुः सर्वशो राजन्महीं शतसहस्रशः॥ 1-64-35
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः।
अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च॥ 1-64-36
एवं वीर्यबलोत्सिक्तैर्भूरियत्नैर्महासुरैः।
पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे॥ 1-64-37
न ह्यमी भूतसत्त्वौघाः पन्नगाः सनगां महीम्।
तदा धारयितुं शेकुः संक्रान्तां दानवैर्बलात्॥ 1-64-38
ततो मही महीपाल भारार्ता भयपीडिता।
जगाम शरणं देवं सर्वभूतपितामहम्॥ 1-64-39
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः।
ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम्॥ 1-64-40
गन्धर्वैरप्सरोभिश्च दैवकर्मसु निष्ठितैः।
विद्य[वन्द्य]मानं मुदोपेतैर्ववन्दे चैनमेत्य सा॥ 1-64-41
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी।
सन्निधौ लोकपालानां सर्वेषामेव भारत॥ 1-64-42
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयम्भुवः।
पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः॥ 1-64-43
स्रष्टा हि जगतः कस्मान्न सम्बुध्येत भारत।
ससुरासुरलोकानामशेषेण मनोगतम्॥ 1-64-44
तामुवाच महाराज भूमिं भूमिपतिः प्रभुः।
प्रभवः सर्वभूतानामीशः शम्भुः प्रजापतिः॥ 1-64-45
ब्रह्मोवाच
यदर्थमसि सम्प्राप्ता [यदर्थमभिसम्प्राप्ता] मत्सकाशं वसुन्धरे।
तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः॥ 1-64-46
@उत्तिष्ठ गच्छ वसुधे स्वस्थानमिति साऽगमत्।@
वैशम्पायन उवाच
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च।
आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम्॥ 1-64-47
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक्।
अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत्॥ 1-64-48
तथैव स समानीय गन्धर्वाप्सरसां गणान्।
उवाच भगवान्सर्वानिदं वचनमर्थवत्॥ 1-64-49
ब्रह्मोवाच
स्वैः स्वैरंशैः प्रसूयध्वं यथेष्टं मानुषेषु च।
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः॥ 1-64-50
तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा।
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः॥ 1-64-51
नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः।
यः स चक्रगदापाणिः पीतवासाः शितिप्रभः॥ 1-64-52
पद्मनाभः सुरारिघ्नः पृथुवक्षाञ्चि[चार्वञ्चि]तेक्षणः।
प्रजापतिपतिर्देवः सुरनाथो महाबलः॥ 1-64-53
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः।
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम्।
अंशेनावतरेत्येवं तथेत्याह च तं हरिः॥ 1-64-54
इति श्रीमहाभारते आदिपर्वणि अंशावतरणपर्वणि चतुःषष्टितमोऽध्यायः॥ 64 ॥
पञ्चषष्टितमोऽध्यायः
सम्भवपर्व
मरीच्यादिमहर्षीणामदित्यादिदक्षदुहितॄणां च वंशस्य वर्णनम्
वैशम्पायन उवाच
अथ नारायणेनेन्द्रश्चकार सह संविदम्।
अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः॥ 1-65-1
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः।
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह॥ 1-65-2
तेऽमरारिविनाशाय सर्वलोकहिताय च।
अवतेरुः क्रमेणैव महीं स्वर्गाद्दिवौकसः॥ 1-65-3
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च।
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः॥ 1-65-4
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा।
पुरुषादानि चान्यानि जघ्नुः सत्त्वान्यनेकशः॥ 1-65-5
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा।
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम॥ 1-65-6
जनमेजय उवाच
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा।
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्॥ 1-65-7
श्रोतुमिच्छामि तत्त्वेन सम्भवं कृत्स्नमादितः।
प्राणिनां चैव सर्वेषां सम्भवं वक्तुमर्हसि॥ 1-65-8
वैशम्पायन उवाच
हन्त ते कथयिष्यामि नमस्कृत्य स्वयम्भुवे।
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम्॥ 1-65-9
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः॥ 1-65-10
मरीचेः कश्यपः पुत्रः कश्यपात् तु इमाः प्रजाः।
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश॥ 1-65-11
अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा।
क्रोधा प्र[प्रा]धा च विश्वा च विनता कपिला मुनिः॥ 1-65-12
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत।
एतासां वीर्यसम्पन्नं पुत्रपौत्रमनन्तकम्॥ 1-65-13
अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः।
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत॥ 1-65-14
धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च।
भगो विवस्वान्पूषा च सविता दशमस्तथा॥ 1-65-15
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते।
जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः॥ 1-65-16
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः।
नाम्ना ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः॥ 1-65-17
प्रह्ला[ह्रा]दः पूर्वजस्तेषां संह्ला[ह्रा]दस्तदनन्तरम्।
अनुह्ला[ह्रा]दस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ॥ 1-65-18
प्रह्ला[ह्रा]दस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत।
विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत॥ 1-65-19
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्।
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः॥ 1-65-20
रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः।
चतुस्त्रिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत॥ 1-65-21
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः।
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः॥ 1-65-22
असिलोमा च केशी च दुर्जयश्चैव दानवः।
अयःशिरा अश्वशिरा अश्वशङ्कुश्च वीर्यवान्॥ 1-65-23
तथा गगनमूर्धा च वेगवान् केतुमांश्च सः।
स्वर्भानुः अश्वोऽश्वपतिर्वृषपर्वनजकस्तथा॥ 1-65-24
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः।
इषुपादेकचक्रश्च विरूपाक्षो हराहरौ॥ 1-65-25
निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा।
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा॥ 1-65-26
एते ख्याता दनोर्वंशे दानवाः परिकीर्तिताः।
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ॥ 1-65-27
अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा।
इमे च वंशाः प्रथिताः सत्त्ववन्तो महाबलाः॥ 1-65-28
दनुपुत्रा महाराज दश दानववंशजाः।
एकाक्षो मृतपो[पा] वीरः प्रलम्बनरकावपि॥ 1-65-29
वातापी शत्रुतपनः क[श]ठश्चैव महासुरः।
गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः॥ 1-65-30
असंख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत।
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्॥ 1-65-31
सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रप्रमर्दनम्।
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्॥ 1-65-32
गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः।
दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः॥ 1-65-33
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः।
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः॥ 1-65-34
प्रविख्याता महावीर्या दानवेषु परन्तपाः।
विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च॥ 1-65-35
क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः।
असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत्॥ 1-65-36
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः।
त्वष्टाधरस्तथात्रिश्च द्वावन्यौ रौद्रकर्मिणौ॥ 1-65-37
तेजसा सूर्यसंकाशा ब्रह्मलोकपरायणाः।
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्॥ 1-65-38
असुराणां सुराणां च पुराणे संश्रुतो मया।
एतेषां यदपत्यं तु न शक्यं तदशेषतः॥ 1-65-39
प्रसंख्यातुं महीपाल गुणभूतमनन्तकम्।
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ॥ 1-65-40
आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिताः।
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः॥ 1-65-41
कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः।
भीमसेनः उग्रसेनौ च सुपर्णो वरुणस्तथा॥ 1-65-42
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः।
सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः॥ 1-65-43
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी।
तथा शालिशिरा राजन्पर्जन्यश्च चतुर्दशः॥ 1-65-44
कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः।
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः॥ 1-65-45
अथ प्रभूतान्यन्यानि कीर्तयिष्यामि भारत।
अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम्॥ 1-65-46
अनू[रू]पां सुभगां भासीमिति प्राधा व्यजायत।
सिद्धपूर्णश्च [सिद्धः पूर्णश्च] बर्हिश्च पूर्णायुश्च महायशाः॥ 1-65-47
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः।
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा॥ 1-65-48
इत्येते देवगन्धर्वाः प्राधेयाः परिकीर्तिताः।
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्॥ 1-65-49
प्राधासूत महाभागा देवी देवर्षितः पुरा।
अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा॥ 1-65-50
अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा।
केशिनी च सुबाहुश्च सुरता सुरजा तथा॥ 1-65-51
सुप्रिया च अतिबाहुश्च विख्यातौ च हाहा हूहूः।
तुम्बुरुः चेति चत्वारः स्मृता गन्धर्वसत्तमाः॥ 1-65-52
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा।
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम्॥ 1-65-53
इति ते सर्वभूतानां सम्भवः कथितो मया।
यथावत्सम्परिख्यातो गन्धर्वाप्सरसां तथा॥ 1-65-54
भुजगा[ङ्गा]नां सुपर्णानां रुद्राणां मरुतां तथा।
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम्॥ 1-65-55
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः।
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता॥ 1-65-56
इमं तु वंशं नियमेन यः पठेत्महात्मनां ब्राह्मणदेवसन्निधौ।
अपत्यलाभं लभते स पुष्कलं श्रियं यशः प्रेत्य च शोभनां गतिम्॥ 1-65-57
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि आदित्यादिवंशकथने पञ्चषष्टितमोऽध्यायः॥ 65 ॥
षट्षष्टितमोऽध्यायः
सम्भवपर्व
ऋषीणां कश्यपपत्नीनां च सन्तानपरम्परावर्णनम्
वैशम्पायन उवाच
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः।
एकादश सुताः स्थाणोः ख्याताः परमतेजसः॥ 1-66-1
मृगव्याधश्च सर्पश्च निरृतिश्च महायशाः।
अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः॥ 1-66-2
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः।
स्थाणुर्भ[ग]वश्च भगवान्रुद्रा एकादश स्मृताः॥ 1-66-3
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः।
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः॥ 1-66-4
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः।
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः॥ 1-66-5
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप।
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः॥ 1-66-6
राक्षासाश्च पुलस्त्यस्य वानराः किन्नरास्तथा।
यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः॥ 1-66-7
पुलहस्य सुता राजञ्छर[ल]भाश्च प्रकीर्तिताः।
सिंहाः किम्पुरुषा व्याघ्रा य[ऋ]क्षा ईहामृगास्तथा॥ 1-66-8
क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः।
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः॥ 1-66-9
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः।
ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः॥ 1-66-10
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः।
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः॥ 1-66-11
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः।
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः॥ 1-66-12
ददौ स दश धर्माय सप्तविंशतिमिन्दवे।
दिव्येन विधिना राजन्कश्यपाय त्रयोदश॥ 1-66-13
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा॥ 1-66-14
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश।
द्वाराण्येतानि धर्मस्य विहितानि स्वयम्भुवा॥ 1-66-15
सप्तविंशतिः सोमस्य पत्न्यो लो[केषु]कस्य विश्रुताः।
कालस्य नयने युक्ताः सोमपत्न्यः शुचिव्रताः॥ 1-66-16
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधानतः।
पैतामहो मनु[मुनि]र्देवस्तस्य पुत्रः प्रजापतिः॥ 1-66-17
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामिविस्तरम्।
धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः॥ 1-66-18
प्रत्यूषश्च प्रभासश्च वसवोऽ[ष्टौ प्रकीर्तिताः]ष्टाविति स्मृताः।
धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा॥ 1-66-19
चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा।
रतायाश्चाप्यहः पुत्रः शाण्डिल्या[श्च]या हुताशनः॥ 1-66-20
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ।
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा॥ 1-66-21
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः।
सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते॥ 1-66-22
मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा।
अह्नः सुतस्तथा ज्योतिः शमः शान्तस्तथा मुनिः॥ 1-66-23
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्छरवणालयः।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः॥ 1-66-24
कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः।
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः॥ 1-66-25
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु।
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम्॥ 1-66-26
पुत्रौ द्वौ [द्वौ पुत्रौ] देवलस्यापि क्षमावन्तौ मनीषिणौ।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी॥ 1-66-27
योगसक्ता जगत्कृत्स्नमसक्ता विचचार ह।
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह॥ 1-66-28
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः।
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः॥ 1-66-29
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः।
यो दिव्यानि विमानानि त्रिदशानां चकार ह॥ 1-66-30
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः।
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम्॥ 1-66-31
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः।
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः॥ 1-66-32
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः।
शमः कामश्च हर्षश्च तेजसा लोकधारिणः॥ 1-66-33
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना।
नन्दा तु भार्या हर्षस्य यासु लोकाः प्रतिष्ठिताः॥ 1-66-34
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः।
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः॥ 1-66-35
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी।
असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ॥ 1-66-36
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप।
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः॥ 1-66-37
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव।
अन्वयं सम्प्रवक्ष्यामि पक्षैश्च कुलतो गणान्॥ 1-66-38
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा।
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च॥ 1-66-39
वैनतेयस्तु गरुडो बलवानरुणस्तथा।
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते॥ 1-66-40
अश्विनौ गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून्।
एते देवगणा राजन्कीर्तितास्तेऽनुपूर्वशः॥ 1-66-41
यान्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते।
ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः॥ 1-66-42
भृगोः पुत्रः कविर्विद्वाञ्छुक्रः कविसुतो ग्रहः।
त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये॥ 1-66-43
स्वयम्भुवा नियुक्तः सन्भुवनं परिधावति।
योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः॥ 1-66-44
सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः।
तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे॥ 1-66-45
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम्।
च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम्॥ 1-66-46
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत।
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः॥ 1-66-47
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः।
महातेजा महावीर्यो बाल एव गुणैर्युतः॥ 1-66-48
ऋ[ची]षीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत्।
जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः॥ 1-66-49
रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः।
सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी॥ 1-66-50
और्वस्यासीत् पुत्रशतं जमदग्निपुरोगमम्।
तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तरः॥ 1-66-51
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम्।
लोके धाता विधाता च यौ स्थितौ मनुना सह॥ 1-66-52
तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा।
तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः॥ 1-66-53
वरुणस्य भार्या या ज्येष्ठा शुक्राद्देवी व्यजायत।
तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम्॥ 1-66-54
प्रजानामन्नकामानामन्योन्यपरिभक्षणात्।
अधर्मस्तत्र सञ्जातः सर्वभूतविनाशकः॥ 1-66-55
तस्यापि निरृतिर्भार्या नैरृता येन राक्षसाः।
घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा॥ 1-66-56
भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा।
न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः॥ 1-66-57
काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम्।
ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः॥ 1-66-58
उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत।
भीसी भासानजनयद्गृधांश्चैव जनाधिप॥ 1-66-59
धृतराष्ट्री तु हंसांश्च कलहंसाश्च सर्वशः।
चक्रवाकांश्च भद्रा तु जनयामास सैव तु॥ 1-66-60
शुकी च जनयामास शुकानेव यशस्विनी।
कल्याणगुणसम्पन्ना सर्वलक्षणपूजिता॥ 1-66-61
नव क्रोधवशा ना[रीः]री प्रजज्ञे क्रोधसम्भवाः।
मृगी च मृगमन्दा च हरी भद्रमना अपि॥ 1-66-62
मातङ्गी त्वथ शार्दूली श्वेता सुरभिरेव च।
सर्वलक्षणसम्पन्ना सुरसा चैव भामिनी॥ 1-66-63
अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम।
ऋक्षाश्च मृगमन्दायाः सृमराश्च परन्तप॥ 1-66-64
ततस्त्वैरावतं नागं जज्ञे भद्रमनाः सुतम्।
ऐरावतः सुतस्तस्या देवनागो महागजः॥ 1-66-65
हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः।
गोलांगूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते॥ 1-66-66
प्रजज्ञे त्वथ शार्दूली सिंहान्व्याघ्राननेकशः।
द्वीपिनश्च महासत्त्वान्सर्वानेव न संशयः॥ 1-66-67
मातङ्ग्यपि च मातङ्गानपत्यानि नराधिप।
दिशां गजं तु श्वेताख्यं श्वेताजनयदाशुगम्॥ 1-66-68
तथा दुहितरौ राजन्सुरभिर्वै व्यजायत।
रोहिणी चैव भद्रा[द्रं] तु[ते] गन्धर्वी तु यशस्विनी॥ 1-66-69
विमलामपि भद्रं ते ह्य[अ]नलामपि भारत।
रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः॥ 1-66-70
सप्त पिण्डफलान्वृक्षाननलापि व्यजायत।
अनलायाः शुकी पुत्री कङ्कस्तु सुरसासुतः॥ 1-66-71
अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ।
सम्पातिं जनयामास वीर्यवन्तं जटायुषम्।
सुरसाजनयन्नागान्कद्रूः पुत्रांस्तु पन्नगान्।
द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ॥ 1-66-73
(सुरसाजनयत्सर्पाञ्छतमेकशिरोधरान्।
सुरसाकन्यका जातास्तिस्रः कमललोचनाः॥
वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः।
अनला रुहा च द्वे प्रोक्ते वीरुधां चैव ताः स्मृताः॥
गृह्णन्ति ये विना पुष्पं फलानि तरवः पृथक्।
अनलोसुतास्ते विज्ञेयाः तानेवाहुर्वनस्पतीन्॥
पुष्पैः फलग्रहान्वृक्षान्रुहायाः प्रसवान्विभो।
लतागुल्मानि वल्यश्च त्वक्सारतृणजातयः॥
वीरुधायाः प्रजास्ताः स्युरत्रवंशः समाप्यते।)
इत्येष सर्वभूतानां महतां मनुजाधिप।
प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर॥ 1-66-74
यं श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः।
सर्वज्ञतां च लभते गतिमग्र्यां च विन्दति॥ 1-66-75
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि षट्षष्टितमोऽध्यायः॥ 66॥
सप्तषष्टितमोऽध्यायः
सम्भवपर्व
देवतादैत्यादीनामंशावतारणां दिग्दर्शनम्
जनमेजय उवाच
देवानां दानवानां च गन्धर्वोरगरक्षसाम्।
सिंहव्याघ्रमृगाणां च पन्नगानां पतत्त्त्रिणाम्॥ 1-67-1
सर्वेषां चैव भूतानां सम्भवं भगवन्नहम्।
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्।
जन्म कर्म च भूतानामेतेषामनुपूर्वशः॥ 1-67-2
वैशम्पायन उवाच
मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः।
@नामतो बलवतश्चैव तांस्ते वक्ष्यामि सर्वशः।@
प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः।
विप्रचित्तिः इति ख्यातो य आसीद्दानवर्षभः॥ 1-67-3
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः।
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः॥ 1-67-4
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः।
संह्ला[ह्राद] इति विख्यातः प्रह्लादस्यानुजस्तु यः॥ 1-67-5
स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः।
अनुह्ला[ह्रा]दस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः॥ 1-67-6
धृष्टकेतुः इति ख्यातः स बभूव नरेश्वरः।
यस्तु राजन्शिबिः नाम दैतेयः परिकीर्तितः॥ 1-67-7
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः।
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः॥ 1-67-8
भगदत्त इति ख्यातः स जज्ञे पुरुषर्षभः।
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्॥ 1-67-9
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः।
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः॥ 1-67-10
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः।
केतुमानिति विख्यातो यत्त[स्त]तोऽन्यः प्रतापवान्॥ 1-67-11
अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः।
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः॥ 1-67-12
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः।
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः॥ 1-67-13
अशोको नाम राजाभून्महावीर्योऽपराजितः।
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृ