Prayer

 

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरर्देवो महेश्वरः ।

गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ।।

यं शैवास्समुपासते शिव इति ब्रह्मेति वेदान्तिनो

बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।

अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः

सोयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ।।

ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं

तद्वक्षः स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।

पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं

वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ।।

समस्तजननीं वन्दे चैतन्यस्तन्यदायिनीम् ।

श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ।।

विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि ।

हरे । वेङ्कटेश । प्रसीद प्रसीद प्रियं वेङ्कटेश । प्रयच्छ प्रयच्छ ।।

श्रीमन् । कृपाजलनिधे । कृतसर्वलोक । सर्वज्ञ । शक्त । नतवत्सल । सर्वशेषिन् ।

स्वामिन् । सुशील । सुलभाश्रितपारिजात । श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ।।

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।

श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ।।

सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः ।

सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाक् भवेत् ।।

ॐ शान्तिः शान्तिः शान्तिः